Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 01.20
ऋतं च स्वाध्यायप्रवचने च। सत्यं च स्वाध्यायप्रवचने च। तपश्च च स्वाध्यायप्रवचने च। दमश्च च स्वाध्यायप्रवचने च। शमश्च च स्वाध्यायप्रवचने च। अग्नयश्च स्वाध्यायप्रवचने च। अग्निहोत्रं च स्वाध्यायप्रवचने च। अतिथयश्च स्वाध्यायप्रवचने च। मानुषं च स्वाध्यायप्रवचने च। प्रजा च स्वाध्यायप्रवचने च। प्रजनश्च स्वाध्यायप्रवचने च। प्रजातिश्च स्वाध्यायप्रवचने च ॥२०॥
Taittirīya Bhāshya 01.20
ऋतं च स्वाध्यायप्रवचने च कर्तव्यानि।
प्रवचनं व्याख्यानम्। यथार्थज्ञानं ऋतम्। तत्पूर्वकं यथार्थ वचनं करणं च सत्यम्।
"ऋतं यथार्थविज्ञानं सत्यं तत्पूर्विका कृतिः। ध्यानसत्ये पूज्यपूजा तप इत्यभिधीयते॥"
इति शब्दनिर्णये॥
सर्वकर्मकृतिकालेष्वपि स्वाध्यायप्रवचनयोः कर्तव्यत्वात् तयोः सर्वत्र अनुषङ्गः।
"मन्त्रो मन्त्रार्थवचनं अन्यस्य स्वात्मनोऽपि वा। सर्वकर्मसु कर्तव्यौ सर्वकर्मात्मकौ ततः॥"
इति कर्मतत्त्वे।
आत्मनश्चेन्मनसैवार्थवचनम्।
"मानुषं मानुषो धर्मो देवा अपि हि मानुषे। मनुष्यवत् प्रवर्तन्ते नैवैश्वर्यप्रकाशिनः॥"
इति च।
"प्रजाया रक्षणं चैव पुनः प्रजननं तथा। प्रकृष्टजातिकरणं कर्मभिस्तनये पितुः॥"
इति च।

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.