Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 01.21
सत्यमिति सत्यवचा राथीतरः। तप इति तपोनित्यः पौरुशिष्टिः। स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः। तद्धि तपस्तद्धि तपः ॥२१॥
Taittirīya Bhāshya 01.21
"सत्ये तपसि वा चीर्णे सर्वकर्म कृतं भवेत्। स्वाध्याये च प्रवचने ह्यन्तर्भावो विशेषतः॥"
इति च॥
"यं यं क्रतुमधीते तेन तेनास्येष्टं भवति।"
इति च श्रुतिः।
"जप्येनैव तु संसिद्ध्येत् ब्राह्मणो नात्रसंशयः। कुर्यादन्यन्न वा कुर्यात् मैत्रो ब्राह्मण उच्यते॥"
इति भारते॥
"सम्यग् ज्ञात्वा तु यो विष्णुं व्याख्यायीत जपेत च। न तस्य किंङ्चिदकृतं कर्तव्यं मुच्यते च सः॥"
इति कर्मतत्त्वे।

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.