Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 01.19
ॐ इति ब्रह्म। ॐ इतीदं सर्वम्। ओमित्येतदनुकृति ह स्म वा अप्यो श्रावयेत्या श्रावयन्ति। ओमिति सामानि गायन्ति। ओगंशोमिति शस्त्राणि शगंसन्ति। ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति। ओमिति ब्रह्मा प्रसौति। ओमित्यग्नि होत्रमनुजानाति। ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति। ब्रह्मैवोपाप्नोति ॥१९॥
Taittirīya Bhāshya 01.19
"ॐनामा भगवान् विष्णुः अधिकोच्चगुणत्वतः। यद्यद्रूपं भगवतस्तदिदं सर्वमेव च॥
ओमेवाधिकपूर्णत्वात् तस्माद्यज्ञेषु चर्त्विजः। ओमित्येव स्वकर्माणि कुर्वन्त्युद्दिश्य केशवम्॥
अधिकोच्च शृणुष्वेति हरिमध्वर्युराह हि। अधिकोच्च महाधाम सूच्च देेवेति चाऽदरात्॥
प्रति प्रतिगृणात्येनं शंरूपात्युच्च शावन। इत्याह होता शस्त्रेषु तथैवान्येऽपि चर्त्विजः॥
एवं स्वध्यायकृच्चाह ब्रह्मप्राप्त्यर्थमञ्जसा। एवं जानन्त एते तु प्राप्नुवन्त्येव तत्परम्॥"
इति च॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.