Shaṭpraśnopaniṣat Bhāshya (षट्प्रश्नोपनिषद्भाष्यं)
Shat.Upa 06.02
तस्मै स होवाच।
इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति। स ईक्षाञ्चक्रे। कस्मिन्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि। कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति॥
स प्राणमसृजत। प्राणात् श्रद्धां खं वायुर्ज्योऽतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥२॥
Bhāṣya 06.02
कर्मेति पुष्करः प्रोक्त उषा नामाभिमानिनी। लोकाभिमानी पर्जन्यः स्वाहा वै मन्त्रदेवता॥
तपोभिमानी वह्निश्च वरुणो वीर्यदेवता। अन्नस्य देवता सोमः मनोनामानिरुद्धकः॥
इन्द्रियेशाश्च सूर्याद्याः श्चक्षुराद्यभिमानिनः। रुद्रो वीन्द्रः शेषकामौ मनसस्त्वेव देवताः॥
श्रद्धेति वायोः पत्नी स्यात् सर्वेषां प्रभवाप्यया। तस्याश्च कारणं प्राणः सर्वेषामुत्तमोत्तमः॥
तस्यापीशः कारणं च वासुदेवः परोऽव्ययः। न तस्य सदृशः कश्चित् कुत एवोत्तमो भवेत्। तं ज्ञात्वा मुच्यते जन्तुर्विदित्वैवं परात्परम्॥
इति तत्त्वविवेके।
तस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी॥
इति मन्त्रोक्त एव क्रमः। न हीन्द्रियेभ्यो मनः पश्चात्।
तत्प्राक् श्रुतेश्च ( ब्र.सू २.४.४)
इति भगवद्वचनम्॥
विष्णोः प्राणस्ततः श्रद्धा तस्या रुद्रो मनोभिधः। तस्मादिन्द्रस्त्विन्द्रियात्मा तस्य सोमोऽन्नदेवता॥
ततश्च वरुणः स्रुष्टस्तस्मादग्निस्ततोऽवरः। आकाशदेवता विघ्नस्ततो वायोः सुतो मरुत्॥
तस्मादग्निः पावकाख्यः प्रथमोऽग्नेः सुतस्ततः। ततः पर्जन्य उद्भूतः स्वाहातो मन्त्रदेवता॥
उदात्मको बुधस्तस्या उषानामात्मिका ततः। ततः शनिः पृथिव्यात्मा कर्मात्मा पुष्करस्ततः॥
क्रमात् प्रत्यवरा ह्येते मुक्ताः सर्वगुणैरपि। नित्यमुक्तस्ततो विष्णुः प्राणादप्युत्तमोत्तमः॥
इति च।

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.