Shat.Upa 06.03 and 04
यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तंगच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते। एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति। भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते। स एष्वोकल्पोमृतो भवति ॥३॥
तदेष श्लोकः।
"अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः। तं वेद्यं पुरुषं वेदयथा मा वो मृत्युः परिव्यथाः॥"
इति।
तान् होवाच।
एतावदेवाहमेतत् परं ब्रह्म वेद नातः परमस्तीति। ते हि तमर्चयन्तः त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति॥
नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥४॥
॥ इति षट्प्रश्न प्र त्पतिवचनम् ॥
Bhāṣya 06.03 and 04
समुद्रे इत्येवं प्रोच्यते। पुरुषे इत्येवंप्रोच्यते। भिद्येते तासां नामरूपे। भिद्येते चासां नामरूपे इत्युक्तत्वात्। अज्ञैरनवगतान्यपि समुद्रेस्थितानां नदीनां विष्णौस्थितानां मुक्तानां च भिन्नान्येव नामरूपाणि सन्त्येवेत्यर्थः।
न च भेदशब्दो नाशे प्रयुज्यमानः क्वापि दृष्टः। घटादावपि बहुभाव एव भेदशब्दः प्रयुज्यते। नाशस्त्वर्थत एवावगम्यते। न चात्रार्थतोऽपि नाशोऽवगम्यते। न हि नामानि रूपाणि च कपालवद्बहुधा भूतानि तिष्ठन्ति। अतो भिद्येते इति पृथक्त्वमेव उच्यते।
"अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः"
इति वाक्यशेषाच्च।
अतः पुरुषे भिन्नानि नामरूपाणि प्रतिष्ठितानीत्येवार्थः।
नामरूपाणि नित्यान्येव -
"अस्तगमनं त्वादित्यवदज्ञानामविज्ञेयत्वमेव। प्राणादयः कला यस्मिन् मुक्ता नित्यं प्रतिष्ठिताः। पृथक् पृथक् नामरूपैर्नमस्तस्मै पराय ते॥"
इति सत्तत्त्वे ॥
"नामरूपाद्विमुक्त इत्यनेनापि नामरूपामुक्तत्वमुच्यते। विप्रिय इत्यादिवत्। नामरूपे अविहायेति च पूर्वत्र। अनन्तं वै नामानन्ता विश्वेदेवाः॥"
इति नामरूपयोरनन्तत्वं हि श्रुतिर्वक्ति।
"यत्र पूर्वे साध्या सन्ति देवाः।"
"स तत्र पर्येति जक्षन् क्रीडन् रममाणः।"
सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता।
"ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु॥"
इत्यादेश्च।
अतः सर्वमुक्तेभ्योऽप्युत्तमोत्तमः परिपूर्णो नारायण इति सिद्धम् ॥३॥
नमो नमोऽस्तु हरये प्रेष्ठ प्रेष्ठतमाय ते। परमानन्दसन्दोहसान्द्रानन्दवपुष्मते॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं षट्प्रश्नोपनिषद्भाष्यं सम्पूर्णम् ॥
॥ इति षट्प्रश्नोपनिषत् समाप्ता ॥