Section Three (तृतीयः खण्डः)
ब्रह्म ह देवेभ्यो विजिग्ये। तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ॥१॥
त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति। तद्धैषां विजज्ञौ ॥२॥
तेभ्यो ह प्रादुर्बभूव। तन्न व्यजानत - किमिदं यक्षमिति ॥३॥
तेऽग्निमब्रुवन् - जातवेद एतद् विजानीहि किमेतद् यक्षमिति। तथेति तदभ्यद्रवत्। तमभ्यवदत् कोऽसीति ॥४॥
अग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति। तस्मिन् त्वयि किं वीर्यमित्यपि ॥५॥
इदं सर्वं दहेयं यदिदं पृथिव्यामिति। तस्मै तृणं निदधावेतद् दहेति ॥६॥
तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुम्। स तत एव निववृते नैतदशकं विज्ञातुं यदेतद् यक्षमिति ॥७॥
अथ वायुमब्रुवन् - वायवेतद् विजानीहि किमेतद् यक्षमिति। तथेति तदभ्यद्रवत् तमभ्यवदत् कोऽसीति ॥८॥
वायुर्वा अहमस्मीत्यब्रवीन्नातरिश्वा वा अहमस्मीति। तस्मिन् त्वयि किं वीर्यमित्यपि ॥९॥
इदं सर्वमाददीयं यदिदं पृथिव्यामिति। तस्मै तृणं निदधावेतदादत्स्वेति ॥१०॥
तदुपप्रेयाय सर्वजवेन तन्न शशाकाऽदातुम्। स तत एव निववृते नैतदशकं विज्ञातुं यदेतद् यक्षमिति ॥११॥
अथेन्द्रमब्रुवन् - मघवन्नेतद् विजानीहि किमेतद् यक्षमिति। तथेति तदभ्यद्रवत् तस्मात् तिरोदधे ॥१२॥
स तस्मिन्नेवाऽकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीम्। तां होवाच - किमेतद् यक्षमिति ॥१३॥
Section Three Bhāshya
...इत्यत्राऽख्यायिकां वच्मि शृणु तां त्वं महेश्वर। स्थित्वा देवेषु तद्ब्रह्म व्यजयद् दैत्यदानवान्॥
देवेभ्योऽर्थाय विजयं ते देवा मेनिरे स्वकम्। आविष्टा असुरैस्तेषां प्रबोधाय जनार्दनः॥
यक्षरूपः प्रादुरभूदुमाशिवसमन्वितः। ब्रह्मणा चापि सहित एतेभ्योऽपि परो ह्यहम्॥
एतेऽपि मे भृत्यभूताः परिवार्य व्यवस्थिताः। इति ज्ञापयितुं विष्णुः सह तैरप्युपागतः॥
यूयमेतानपि ज्ञातुमशक्ताः किमु मामिति। तज्ज्ञानार्थं हुताशश्च नासिक्यो वायुरेव च॥
इन्द्रश्च क्रमशो जग्मुस्तं ज्ञातुं नैव चाशकन्। तत्रेन्द्रोऽधिकबुद्धित्वात् पृच्छतीति जनार्दनः॥ मत्तः शिवाद् ब्रह्मणश्च श्रोतुं नैवापि शक्तिमान्। इति ज्ञापयितुं तत्र नादृश्यत स केशवः॥ एषैव ज्ञानदाने ते योग्यो मे इति व्यदर्शयत्॥ ...
[...इत्यादि ब्रह्मसारे॥]
॥ इति तृतीयः खण्डः ॥