Talavakāropaniṣat Bhāshya
Section Four (चतुर्थः खण्डः)
ब्रह्मेति होवाच। ब्रह्मणो वा एतद्विजयेऽमहीयध्वमिति। ततो हैव विदाञ्चकार ब्रह्मेति ॥१॥
तस्माद् वा एते देवा अतितरामिवान्यान् देवान् यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पृशुः। ते ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति। तस्माद्वा इन्द्रोऽतितरामिवान्यान् देवान्। स ह्येनन्नेदिष्ठं पस्पर्श। स ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ॥२॥
तस्यैष आदेशो यदेतद् विद्युतोऽभिव्यद्युतदा इति। न्यमीमिषदा इत्यधिदैवतम् ॥३॥
अथाध्यात्मम्। यदेतद् गच्छतीव च मनोऽनेनैव तदुपस्मरति। अभीक्ष्णं सङ्कल्पः। तद्ध तद्वनं नाम तद्वनमित्युपासितव्यम्। स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ॥४॥
उपनिषदं भो ब्रूहीति। उक्ता त उपनिषद्। ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥५॥
तस्मै तपो दमः कर्मेति प्रतिष्ठा। वेदाः सर्वाङ्गानि सत्यमायतनम् ॥६॥
यो ह वा एतामुपनिषदमेवं। वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके। ज्येये प्रतितिष्ठति ज्येये प्रतितिष्ठति ॥१०॥
॥ इति चतुर्थः खण्डः ॥
Section Four Bhāshya
... उमा सा सम्यगाचष्ट तस्मै विष्णुं परं पदम्। यस्माद् ब्रह्मा च वायुश्च शेषवीन्द्रौ शिवस्तथा॥ सभार्या गर्विणो नासन् सुरेभ्यस्तेऽधिकास्ततः। इन्द्रस्तु प्रथमं ब्रह्म व्यजानात् तेन तूत्तमः॥ दक्षादिभ्यस्तथा कामस्तज्ञातुं पूर्वमुक्तवान्। दक्षो बृहस्पतिश्चैव मनुः कामात्मजस्तथा॥
सूर्याचन्द्रमसौ धर्मो वरुणश्चोचुरोमिति। नासिक्यवायुरग्निश्च प्रथमं तदपश्यताम्॥ सर्वदेवाधिकास्तस्माद् एते देवाः प्रकीर्तिताः। एतेभ्यश्चेन्द्रकामौ तु ताभ्यां ब्रह्मादयोऽधिकाः॥
एतेषामवमो वह्निः परमो विष्णुरुच्यते। अन्तराले स्थितास्त्वन्ये ब्रह्माद्याः पूर्वमीरिताः॥ अग्निः पश्चाद् व्यजानात् तदिन्द्रवाक्याद् ततोऽवमः। तस्माद् विष्ण्वभिसम्बन्धात् पारावर्यं सुरेष्विदम्॥
व्यद्योतयद् विद्युदादीन् कपिलाख्यस्तु यो हरिः। अक्ष्णोर्निमेषणं कृत्वा यः शेते क्षीरसागरे॥ स एवैकः परं ब्रह्मेत्येवं तस्योपदेशनम्। अधिदैवे तथाऽध्यात्मे यं मनो गच्छतीव च॥
सम्यङ् न गच्छति क्वापि मनो येन स्मरत्यपि। सोऽनिरुद्धाख्य ईशेशः परं ब्रह्मेति कीर्त्यते॥ स विष्णुस्तद्वनं नाम ततत्वाद् वननीयतः। एवमेनं तु यो वेद भवेत् सर्वैरपेक्षितः॥
विद्याकारं मम ब्रूहीत्युक्तो ब्रह्माऽऽह तं पुनः॥ विद्यावेद्यं तव प्रोक्तमास्थानं ते वदाम्यहम्। तपोदमस्वधर्मेषु ये स्थितास्तेषु तिष्ठति॥ विद्यास्थानानि तस्यास्तु वेदा अङ्गानि निर्णयः। वेदैतामेवमखिलां यो विष्णौ प्रतितिष्ठति॥
इत्यादि ब्रह्मसारे॥
विद्युतः सूर्यादिप्रकाशान् आ समन्तात् व्यद्युतत् प्रकाशयत्।
"यदादित्यगतं तेजो जगद् भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत् तेजो विद्धि मामकम्॥"
इति वचनात्।
"तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति॥"
इति च।
न्यमीमिषदा आसमन्तात् निमीलिताक्षमभवत्
"स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि। अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मा निशि सुप्तशक्तिषु॥"
इति वचनात्।
पूर्णत्वाच्च आः। अभीक्ष्णं सङ्कल्प इति मनसो विशेषणम्। सङ्कल्पकमित्यर्थः। सप्रतिष्ठां सायतनामुपनिषदं ब्रूहीत्युक्ते सम्यगेव मयोपनिषत्स्वरूपमुक्तम्। तत्र वक्तव्यं नास्ति। तपो दमः कर्म च विद्यायाः प्रतिष्ठा। तद्वत्सु विद्या प्रतितिष्ठतीत्यर्थः। सत्यमिति मीमांसा।
"निर्णीयते यतः सम्यगिदं सत्यमिति स्फुटम्। श्रुतिस्मृत्युदितं सर्वं व्यक्तं मीमांसयैतया। सत्यमित्युच्यते तस्मान्मीमांसा ब्रह्मनिश्चयाः॥"
इति शब्दनिर्णये॥
"ऋग् यजुःसामाथर्वाख्याः पञ्चरात्रं च भारतम्। मूलरामायणं चैव पुराणं भगवत्परम्। वेदा इत्युच्यते सद्भिः शिक्षाद्यं स्मृतयस्तथा। अङ्गानि सत्यं मीमांसा तद् विद्यायतनं त्रयम्॥"
इति विद्यानिर्णये॥
यश्चिदानन्दसच्छक्तिसम्पूर्णो भगवान् परः। नमोऽस्तु विष्णवे तस्मै प्रेयसे मे परात्मने॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं तलवकारोपनिषद्भाष्यं समाप्तम् ॥
॥ इति तलवकारोपनिषत् ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.