Section Two (द्वितीयः खण्डः)
यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम्। यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते ॥१॥
मन्ये विदितं नाहमन्ये सुवेदेति नो न वेदेति वेद च। यो नस्तद् वेद तद् वेद नो न वेदेति वेद च ॥२॥
यस्यामतं तस्य मतं यस्य न वेद सः। अविज्ञातं विजानतां विज्ञातमविजानताम् ॥३॥
प्रतिबोधविदितं मतममृतत्वं हि विन्दते। आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥४॥
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः। भूतेषु भूतेषु विचिन्त्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥५॥
Section Two Bhāshya
"...यं सम्यङ् नैव जानाति कश्चिन्निरवशेषतः। सर्वात्मना विजानामीति यस्य मतं भवेत्॥
तस्याज्ञातः स भगवान् यो नैवं मन्यते सदा। ज्ञातस्तस्य तथाऽस्यैव निःशेषमननं कृतम्॥
इति यो मन्यते नास्य मतः स पुरुषोत्तमः। नाति वेद्यो न चावेद्यस्तस्मात् स परमेश्वरः॥
नेदं जीवस्वरूपं तद् ब्रह्म विष्ण्वाख्यमव्ययम्। किन्तु यत् ते समीपस्थमास ते विनियामकम्॥
तदेव ब्रह्म विद्धि त्वं विष्ण्वाख्यं परमव्ययम्। नियामकं तद् देवानां मर्त्यानां किमुतोत्तमम्॥
तत्प्रसादं विना जीवे मन्तव्या न प्रवृत्तयः। किमु जीवस्य तद्भावो न मन्तव्य इतीर्यते॥
[...इत्यादि ब्रह्मसारे॥]
॥ इति द्वितीयः खण्डः ॥