Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 01.22
अहं वृक्षस्य रेरिवा। कीर्तिः पृष्ठं गिरेरिव। ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि। द्रविणगं सवर्चसम्। सुमेधा अमृतोक्षितः। इति त्रिशङ्कोर्वेदानुवचनम् ॥२२॥
Taittirīya Bhāshya 01.22
"संसारवृक्षच्छेत्ताऽहं मत्कीर्तिः पर्वतोपमा। अत्युत्कृष्टेन हरिणा पावितोऽस्मि यतः स्फुटम्॥"
"वाजिरूपश्च नेता च वाजिनीः सूर्य उच्यते। तत्रस्थो भगवान् विष्णुः सम्प्रोक्तो वाजिनीवसुः॥"
"तेनामृतोऽस्मि द्रविणं नित्यानन्दस्वरूपतः। तेनामृतेन सिक्तोऽहं तेन व्याप्तो यतस्सदा॥"
"इत्याह मन्त्रदृक् पूर्वं त्रिशङ्कुर्मानवो नृपः॥"
इति यजुर्विवेके॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.