Īśāvāsyopaniṣat Bhāshya
Īśāvāsyopaniṣat 04
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्। तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥४॥
Īśā.Bhāshya 04
अनेजन्निर्भयत्वात्तदेकं प्राधान्यतस्तथा। सम्यग् ज्ञातुमशक्यत्वात् अगम्यं तत्सुरैरपि॥
स्वयं तु सर्वानगमत् पूर्वमेव स्वभावतः। अचिन्त्यशक्तितश्चैव सर्वगत्वाच्च तत्परम्॥
द्रवतोऽत्येति सन्तिष्ठत् तस्मिन् कर्माण्यधान्मरुत्। मारुत्येव यतः चेष्टासर्वा तां हरयेऽर्पयेत्॥
इति ब्रह्माण्डे।
ऋष ज्ञाने ॥४॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.