Īśāvāsyopaniṣat Bhāshya
Īśāvāsyopaniṣat 03
असुर्या नाम ते लोका अन्धेन तमसाऽवृताः। तान् ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥३॥
Īśā.Bhāshya 03
सुष्ठु रमणविरुद्धत्वात् असुराणां प्राप्यत्वाच्च असुर्याः।
"न च रमन्त्यहो असदुपासनया आत्महन"
इत्युक्तत्वात्।
"महादुःखैकहेतुत्वात् प्राप्यत्वादसुरैस्तथा। असुर्या नाम ते लोका तान्यान्ति विमुखा हरौ॥"
इति वामने।
ये के चेति नियम उक्तः।
"नियमेन तमो यान्ति सर्वेऽपि विमुखा हरौ।"
इति च ॥३॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.