B.G 12.16-19
अनपेक्षः शुचिर्दक्षः उदासीनो गतव्यथः। सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥१६॥
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति। शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥१७॥
समः शत्रौ च मित्रे च तथा मानापमानयोः। शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥१८॥
तुल्यनिन्दास्तुनिर्मौनी सन्तुष्टो येन केनचित्। अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः ॥१९॥
Gīta Bhāshya 12.16-19
"सर्वारम्भपरित्यागी", "शुभाशुभपरित्यागी" इत्यादेः सामान्यविशेष- व्याख्यानव्याख्येयभावेन अपुनरुक्तिः। हर्षादिभिः मुक्तः इत्युक्ते कादाचित्कमपि भवति इति "यो न हृष्यति" इत्युक्तम्। उपचारपरिहारार्थं पूर्वम्। आधिक्यज्ञापनार्थं भक्त्यभ्यासः। "ये तु सर्वाणि कर्माणि" इत्यादेः प्रपञ्च एषः ॥१६-१९॥
Gīta Tātparya 12.16-19
अवैष्णवसर्वारम्भपरित्यागी। सर्वारम्भाभिमान त्यागेन फलत्यागेन भगवति समर्पणरूपेण च त्यागी।
"सर्वकर्मफलत्यागं प्राहुः त्यागं विचक्षणाः"
"मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा"
इत्यादेः॥
"भक्तिं ज्ञानं च वैराग्यमृते यो नेच्छति क्वचित्। शुभाशुभपरित्यागी विद्वद्भिः कीर्तितो हि सः॥"
इति च।
"प्रायः सुखादिषु समः प्रायो हर्षादिवर्जितः। तथोच्यते यथाल्पस्वो निःस्व इत्युच्यते जनैः॥ न हि मुख्यतया साम्यं कस्यचित् सुखदुःखयोः। न च हर्षादिसन्त्यागो यावन्मुक्तिः कुतश्चन॥"
इति च।
"हृतिर्मदादधर्माय हर्षो नाम प्रकीर्तितः।"
इति शब्दनिर्णये ॥१६-१९॥