B.G 12.20
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते। श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥२०॥
Gīta Bhāshya 12.20
पिण्डीकृत्य उपसंहरति- ये तु धर्म्यामृतम् इति।
धर्मो विष्णुः तद्विषयं धर्म्यम्। धर्म्यं मृत्यादि संसारनाशकं चेति धर्म्यामृतम्। श्रत् आस्तिक्यम्।
"श्रन्नामास्तिक्यमुच्यते"
इत्यभिधानम्।
तद् दधानाः श्रद्दधानाः ॥२०॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये द्वादशोध्यायः ॥
Gīta Tātparya 12.20
व्यस्तेन प्रियाः। समस्तेन अतीव प्रियाः। भक्तिस्तु व्यस्तेष्वपि उक्तैव।
"यस्मात् नोद्विजते" इत्यत्रापि भक्तिरनुषज्यते। धर्म साधनं धर्म्यम्। तदेव अमृतसाधनं अमृतं धर्म्यामृतम् ॥२०॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये द्वादशोध्यायः ॥
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नम द्वादशोध्यायः ॥