Bhagavad Gīta Bhāshya and Tātparya
B.G 12.02
श्रीभगवानुवाच
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते। श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥२॥
Gīta Tātparya 12.02
"अविष्णुज्ञैरतद्भक्तैः तदुपासाविवर्जितैः। शपेदुपासिताप्येषा श्रीस्तान् तद्धरितत्त्ववित्॥
तद्भक्तः तमुपास्यैव श्रियं ध्यायीत नित्यदा। तेन तुष्टा तु साऽच्छिद्रं दद्याद् विष्णोरुपासनम्॥
ततस्तद्दर्शनात् मुक्तिं यात्यसौ नात्र संशयः। तथापि सर्वपरमां सर्वदोषविवर्जिताम्॥
ज्ञात्वा श्रियं तत्परमं तत्पतिं पुरुषोत्तमम्। विज्ञायोपासते नित्यं ते हि युक्ततमा मताः॥
यतः क्लेशोऽधिकः तेषां पृथक् श्रियमुपासताम्। विष्णुना सहिता ध्याता सा हि तुष्टिं परां व्रजेत्॥
अन्यथा तु पुनर्विष्णोः श्रीपतित्वेन चिन्तनम्। अच्छिद्रमेव कर्तव्यमिति मुक्तिश्चिराद् भवेत्। तस्मादक्लेशतो मुक्तिः क्षिप्रं विष्णुमुपासताम्॥"
इति परमश्रुतिः॥
युक्ततमाः साधकतमाः ॥२॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.