B.G 12.03 and 04
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते। सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥३॥
सन्नियम्येंद्रियग्रामं सर्वत्र समबुद्धयः। ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥४॥
Gīta Bhāshya 12.03 and 04
भवन्तु त्वदुपासका एव उत्तमाः। इतरेषां तु किं फलं इत्यत आह - ये तु इत्यादिना।
अनिर्देश्यत्वं च उक्तं भागवते मायायाः-
"अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः॥"
इति।
ईश्वरस्तु दैवशब्देन उक्तः "दैवमन्येऽपरे" इत्यत्र। उक्तं च सामवेदे काषायणश्रुतौ "नासदासीन्नोसदासीत्तदानीं " इति।
"न महाभूतं नोपभूतं तदासीत्॥"
इत्यारभ्य
"तम आसीत् तमसा गूह्ळमग्रे"
इति।
"तमो ह्यव्यक्तमजरमनिर्देश्यमेषा ह्येव प्रकृतिः"
इति।
सर्वगाचिन्त्यादिलक्षणा हि सा। तथाहि मोक्षधर्मे-
"नारायणगुणाश्रयादजरादतींद्रियाद् अग्राह्यादसम्भवतः। असत्यादहिंस्राल्ललामात् द्वितीयप्रवृत्ति विशेषाद्। अवैरादक्षयादमरादक्षरादमूर्तितः। सर्वस्याः सर्वकर्तुः शाश्वततमसः॥"
इति।
"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः॥"
इति मानवे।
"कूटस्थोऽक्षर उच्यते" इति च वक्ष्यति। कूटे आकाशे स्थिता कूटस्था-
"आकाशे संस्थिता त्वेषा ततः कूटस्थिता मता।"
इति हि ऋग्वेदखिलेषु।
"सा सर्वगा निश्चला लोकयोनिः सा चाक्षरा विश्वगा विरजस्का॥"
इति च सामवेदे गौपवनशाखायाम् ॥३॥
Gīta Tātparya 12.03 and 04
"न चलेत् स्वात् पदाद् यस्मादचला श्रीस्ततो मता।"
इत्याग्नेये।
"सूक्ष्मत्वादप्रसिद्धत्वाद् गुणबाहुल्यतस्तथा। अनिर्देश्यौ तथाऽव्यक्तावचिन्त्यौ श्रीश्च माधवः॥"
इति नारदीये ॥३॥