B.G 6.07 and 08
जितात्मनः प्रशान्तस्य परमात्मा समाहितः। शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥७॥
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेंद्रियः। युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥८॥
Gīta Bhāshya 6.07 and 08
जितात्मनः फलमाह - जितात्मन इति।
जितात्मा हि प्रशान्तो भवति। न तस्य मनः प्रायो विषयेषु गच्छति। तदा च परमात्मा सम्यगाहितः हृदि सन्निहितो भवति। अपरोक्षज्ञानी स भवतीत्यर्थः।
अपरोक्षज्ञानिनो लक्षणं स्पष्टयति - शीतोष्णेत्यादिना।
शीतोष्णादिषु कूटस्थः। ज्ञानविज्ञानतृप्तात्मा विजितेंद्रियः इति कूटस्थत्वे हेतुः। विज्ञानं विशेषज्ञानम्। अपरोक्षज्ञानं वा। तच्चोक्तम्-
"सामान्यैर्येत्वविज्ञेया विशेषा मम गोचराः। देवादीनां तु तज्ज्ञानं ज्ञानमिति कीर्तितम्॥"
इति।
"श्रवणान्मननाच्चैव यज्ज्ञानमुपजायते। तज्ज्ञानं दर्शनं विष्णोर्विज्ञानं शम्भुरब्रवीत्॥"
"विज्ञानं ज्ञानमङ्गादेः विशिष्टं दर्शनं तथा॥"
इत्यादि॥
कूटस्थो निर्विकारः। कूटवत् स्थितः इति व्युत्पत्तेः। कूटम् आकाशः।
"कूटं खं विदलं व्योम सन्धिकाराश उच्यते।"
इत्यभिधानात्।
योगी योगं कुर्वन्। युक्तः योगसम्पूर्णः। एवम्भूतो योगानुष्ठाता योगसम्पूर्ण उच्यते इत्यर्थः ॥७,८॥