B.G 6.09
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु। साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥९॥
Gīta Bhāshya 6.09
स एव च सर्वस्मात् विशिष्यते साधुपापादिषु समबुद्धिः। जीवचितः, परमात्मनः, सर्वस्य तन्निमित्तत्वस्य च सर्वत्र ऐकरूप्येण। चिद्रूपा एव हि जीवाः। विशेषस्तु अन्तःकरणकृतः। सर्वेषां साधुत्वादिकं सर्वम् ईश्वरकृतमेव। स्वतो न किञ्चिदपि।
उक्तं च एतत् सर्वम् -
"स्वतः सर्वेऽपि चिद्रूपाः सर्वदोषविवर्जिताः। जीवास्तेषां तु ये दोषाः त उपाधिकृता मताः॥
सर्वं चेश्वरतस्तेषां न किञ्चित् स्वत एव तु। समा एव ह्यतः सर्वे वैषम्यं भ्रान्तिसम्भवम्॥
एवं समा नृजीवास्तु विशेषो देवतादिषु। स्वाभाविकस्तु नियमादत एव सनातनः॥ असुरादेस्तथा दोषा नित्याः स्वाभाविका अपि। गुणदोषौ मानुषाणां नित्यौ स्वाभाविकौ मतौ। गुणैकमात्ररूपास्तु देवा एव सदा मताः॥"
इति ब्राह्मे।
न तु साधुपापादीनां पूजादिसाम्यम्। तत्र दोषस्मृतेः -
"समानां विषमा पूजा विषमाणां समा तथा। क्रियते येन देवोऽपि स पदात् भ्रश्यते पुमान्॥"
इति ब्राह्मे।
"वित्तं बन्धुर्वयः कर्म विद्या चैव तु पञ्चमी। एतानि मान्यस्थानानि गरीयो ह्युत्तरोत्तरम्॥"
इति मानवे।
"गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः। सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति। वैषम्यमुत्तमत्वं तु ददाति नरसञ्चयात्। पूजाया विषमा दृष्टिः समा साम्यं विदुःखजम्॥"
इति ब्रह्मवैवर्ते।
सुहृदादिषु शास्त्रोक्तपूजादिकृतिः अन्यूनाधिका या साऽपि समता। तदप्याह -
"यथा सुहृत्सु कर्तव्यं पितृशत्रुसुतेषु च। तथा करोति पूजादि समबुद्धिः स उच्यते॥"
इति गारुडे।
प्रत्युपकारनिरपेक्षया उपकारकृत् सुहृत्। क्लेशस्थानं निरूप्य यो रक्षां करोति स मित्रम्। अरिः वधादिकर्ता। कर्तव्ये उपकारे अपकारे च य उदास्ते स उदासीनः। कर्तव्यम् उभयमपि यः करोति स मध्यमः। अवासितकृत् द्वेष्यः। आह चैतत् -
"द्वेष्योऽवासितकृत् कार्यमात्रकारी तु मध्यगः। प्रियकृत् प्रियो निरूप्याऽपि क्लेशं यः परिरक्षति। स मित्रमुपकारं तु अनपेक्ष्योपकारकृत्। यस्ततः स सुहृत् प्रोक्तः शत्रुश्चापि वधादिकृत्॥"
इति ॥९॥