Bhagavad Gīta Bhāshya and Tātparya
B.G 18.23
नियतं सङ्गरहितमरागद्वेषतः कृतम्। अफलप्रेप्सुना कर्म यत्तत् सात्त्विकमुच्यते ॥२३॥
Gīta Tātparya 18.23
"मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा" इत्युक्त्वा "ये मे मतम्", "ये त्वेतत्" इति च तस्य मोक्षसाधनत्वस्याकरणे प्रत्यवायस्य चोक्तेर्भगवदर्पितत्वेन सर्वकर्मकरणं तस्य विष्णोः सर्वपरमत्वज्ञानं च नियतमेवेति ज्ञायते।
"अध्यात्मचेतसा" इत्युक्तत्वात् तत्स्वरूपयाथार्थ्यज्ञानादि। "ये तु सर्वाणि" इत्यस्मिन् श्लोकेध्यात्मचेतस्त्वस्य "मत्पराः अनन्येनैव योगेन मां ध्यायन्तः" इति व्याख्यातत्वात्।
एवं सर्वमपि भगवद्भक्तियुक्तमेव सात्त्विकम्॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.