Bhagavad Gīta Bhāshya and Tātparya
B.G 18.21 and 22
पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥२१॥
यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम्। अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥२२॥
Gīta Tātparya 18.21 and 22
"विष्णोरन्यस्य याथार्थ्यज्ञानं राजसमुच्यते। यदि विष्णुं न जानाति यदि वा मिश्रतत्त्ववित्। अन्यथा करणीयत्वात् कार्याख्यं जीवमेव यः॥
अकार्यं ब्रह्म जानाति स एवाखिलमित्यपि। एकजीवपरिज्ञानात् कृत्स्नज्ञोऽस्मीति मन्यते। युक्तिविज्ञानराहित्यात् स्वपक्षस्याल्पयुक्तितः॥
अयुक्ततामेव गुणं मन्यते चाल्पदर्शनः। अतत्त्वार्थं जगद् ब्रूते तत्त्वार्थज्ञानवर्जनात्॥
स मुख्यतामसज्ञानी हि एकैकेनापि किं पुनः। सर्वैरेतैः र्विशेषैश्च युक्तः पापतमाधिकः॥"
इति पाद्मे।
"पृथक्त्वेन तु यज्ज्ञानं" इत्यस्य व्याख्या "नानाभावान्" इत्यादि।
सर्वगतमेकमीश्वरं न जानातीत्येतावतैव राजसत्वम्। एकस्य कृत्स्नवद् ज्ञानमेव तामसम्।
मुक्तत्वादि रूपेण अन्यथा करणीयत्वात् पराधीनत्वेन अल्पस्यजीवस्य स्वातन्त्र्यादिगुणपूर्णत्वात् कृत्स्नेन ब्रह्मणा ऐक्यज्ञानं च महातामसम्। किं पुनः तावन्मात्रं सर्वमिति ज्ञानम्।
किं पुनः तत्रापि एकजीवादन्यत् किमपि नास्तीति। अहैतुकं ज्ञानं सर्वमपि तामसम्।
किमु तदेवोक्त लक्षणम्। अतत्त्वार्थवत् सदसद्वैलक्षण्याद्यन्यथार्थकल्पना युक्तमेव तामसम्।
किमु तदेव उक्तविशेषणैः युक्तम्। प्रायो अल्पज्ञानमपि तामसम्। अज्ञानबहुलत्वात्।
किमु तदेव उक्तमिथ्याज्ञानबहुलमित्य पुनरुक्तिः। एकस्मिन् सर्ववज्ज्ञानं कार्ये जीवे पूर्ण ब्रह्मेति सक्तं ज्ञानं निर्युक्तिकं च तत्त्वार्थकल्पनायुक्तमल्पज्ञानं च पृथक् पृथक् तामसानीति वा। मायावादे तु एतानि समस्तानि। अन्यत्रापि तु अहैतुकत्वादिकं विरुद्धवादिषु समं सर्वेषु ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.