Bhagavad Gīta Bhāshya and Tātparya
B.G 13.04
तत् क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्। स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥४॥
Gīta Bhāshya 13.04
यद्विकारि येन विकारेण युक्तम्। "यतश्च यत्" यतो याति, प्रवर्तते। "स च" प्रवर्तकः। "यतश्च यत्" इति अस्मात् प्रवर्तते क्षेत्रं इति वचनम्। "स च यः" इति स्वरूपमात्रम् ॥४॥
Gīta Tātparya 13.04
यतश्च यत्। यतः परमेश्वरानुमतेरिदं याति प्रवर्तते। स चानुमन्ता यः। अनुसारिणी मतिरनुमतिः प्रेरणारूपा।
"प्रेरणाऽनुमतिः प्रोक्ता क्वचित् संवाद उच्यते। प्रेरकत्वात् भगवाननुमन्ता प्रकीर्तितः॥"
इति च।
"उपद्रष्टाऽनुमन्ता च" इत्यनेनैव अनुमतिः अनुमन्ता च उक्तः। "ज्ञेयं यत्तत्" इत्यादिना "यत्प्रभाव" इत्यपि ॥४॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.