B.G 13.02 and 03
श्रीभगवानुवाच
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥२॥
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत। क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत् तज्ज्ञानं मतं मम ॥३॥
Gīta Tātparya 13.02 and 03
"हिंसाहेतुश्च जीवस्य परेण प्रेर्यते च यत्। अव्यक्तादि शरीरं तु तत् क्षेत्रं क्षीयतेऽत्र यत्॥
इच्छा द्वेषः सुखं दुःखः देहो व्याप्तिश्च चेतसः। तद्विकारा इति ज्ञेयाः श्चिद्रूपेच्छादिमिश्रिताः॥
विकारेच्छादिनिर्मुक्तः चिन्मात्रेच्छादिसंयुतः। मुक्त इत्युच्यते जीवो मुक्तिश्च द्विविधा मता॥
चिन्मात्रद्वेषदुःखे च देहो मिथ्यादृगात्मकः। निषिद्धेच्छा च यत्र स्युः नित्या सा मुक्तिरासुरी ॥
चिन्मात्रा वैष्णवी भक्तिः देहः सम्यग् द्रुगात्मकः। सुखमिच्छानुकूला च धृतिः दैवी सा मता॥"
इति नारायणश्रुतिः ॥२॥
"क्षेत्रज्ञो भगवान् विष्णुः न ह्यन्यः क्षेत्रमञ्जसा। वेत्त्यसौ भगवान् ज्ञेयो व्यक्ताव्यक्तविलक्षणः॥
स तु जीवेषु सर्वेषु बहिश्चैव व्यवस्थितः। विलक्षणश्च जीवेभ्यः सर्वेभ्योऽपि सदैव च॥
सर्वतः पाणिपादादिः यतः पाण्यादिशक्तिमान्। केशादिष्वपि सर्वत्र कृष्णकेशो हि यादवः॥
अणोरणुतरै रूपैः पाणिपादादिसंयुतैः। सर्वत्र संस्थितत्वाद्वा सर्वतः पाणिपादवान्॥
सर्वेंद्रियाणां विषयान् वेत्ति सोऽप्राकृतेंद्रियः। यतोऽतोऽनिंद्रियः प्रोक्तो यन्न भिन्नेंद्रियोऽथवा।
गुणैः सत्त्वादिभिर्हीनः सर्वकल्याणमूर्तिमान्। अन्यथाभावराहित्यादचरश्चर एव च॥
चरणात् सर्वदेशेषु व्याप्तोणुर्मध्यमस्तथा। सर्वगत्वात् समीपे च दूरे चैवान्तरे च सः॥
अनन्ताव्ययशक्तित्वात् तदन्यत्र विरोधिनः। सन्ति सर्वे गुणास्तत्र न च तत्र विरोधिनः॥"
इति च।
न च जीवस्य क्षेत्रज्ञनाम-
क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचिताः अनित्याः। आविर्हिताश्चापि तिरोहिताश्च शुद्धो विचष्टे हि अविशुद्धकर्तुः॥
इति भागवते।
अतः एतद्यो वेत्ति इत्युक्ते जीवस्यापि किञ्चित् ज्ञनात् तत्प्राप्तेः तन्निवारणार्थं क्षेत्रज्ञं चापि मां विद्धीत्याह। अन्यथा एतद्यो वेत्तीत्युक्तेनैव सिद्धत्वात् क्षेत्रज्ञं चापि इति व्यर्थम्।
भेदपक्षे तु नामनिरुक्त्यर्थं एतद्यो वेत्ति इति। सर्वाभेदमपि केचिद् वदन्तीति क्षेत्रं च ज्ञश्चेति व्युत्पत्तिं निवारयति। क्षेत्रज्ञं मां सर्वक्षेत्रेषु स्थितत्वेन विद्धीत्यर्थः। तत्पक्षे तु यो वेत्ति इत्युक्ते ईश्वरस्यापि क्षेत्रज्ञत्वं सिद्धमेव। सर्वाभेदविवक्षायां च सर्वं क्षेत्रमिति वक्तव्यम्। क्षेत्रेष्विति व्यर्थम्। न च तत्पक्षे मामित्यस्य कश्चिद् विशेषः। किन्तु एक एव क्षेत्रज्ञोऽहं इति वक्तव्यम् ॥३॥