B.G 9.08
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः। भूतग्राममिमं कृत्स्नं अवशं प्रकृतेर्वशात् ॥८॥
Gīta Bhāshya 9.08
प्रकृत्यवष्टम्भस्तु यथा कश्चित् समर्थोऽपि पादेन गन्तुं लीलया दण्डम् अवष्टभ्य गच्छति।
"सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि।"
इति च मोक्षधर्मे।
"सर्वभूतगुणैर्युक्तं दैवं मां ज्ञातुमर्हसि।"
इति च।
"विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम्। प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति॥"
इति च।
"न कुत्रचिच्छक्तिरनन्तरूपा विहन्यते तस्य महेश्वरस्य। तथापि मायामधिरुह्य देवः प्रवर्तते सृष्टिविलापनेषु॥"
इति ऋग्वेदखिलेषु।
"मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे।"
इति भागवते।
"अथ कस्मादुच्यते परं ब्रह्म इति बृंहति बृंहयति च।"
इति च अथर्वणे।
"पराऽस्य शक्तिर्विविधैव श्रूयते।"
इति च।
"विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि॥", "न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप॥"
इत्यादेश्च।
प्रकृतेः वशादवशम्।
"त्वमेवैतत्सर्जने सर्वकर्मण्यनन्तशक्तोऽपि स्वमाययैव। मायावशं चावशलोकमेतत्तस्मात् स्रक्ष्यस्यत्सि पासीश विष्णो॥"
इति गौतमखिलेषु ॥८॥