Viṣṇutattvanirṇayaḥ - (विष्णुतत्त्वनिर्णयः)
First Section (प्रथमः परिच्छेदः)
सदागमैकविज्ञेयं समतीतक्षराक्षरम्। नारायणं सदा वन्दे निर्दोषाशेषसद्गुणम्॥
विशेषणानि यानीह कथितानि सदुक्तिभिः। साधयिष्यामि तान्येव क्रमात् सज्जनसंविदे॥
“ऋगाद्या भारतं चैव पञ्चरात्रमथाखिलम्। मूलरामायणं चैव पुराणं चैतदात्मकम्। ये चानुयायिनस्त्वेषां सर्वे ते च सदागमाः। दुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः। ज्ञेय एतैः सदायुक्तैर्भक्तिमद्भिः सुनिष्ठितैः। नच केवलतर्केण नाक्षजेन न केनचित्। केवलागमविज्ञेयो भक्तैरेव नचान्यथा॥”
इति ब्रह्माण्डे।
“नावेदविन्मनुतेदं बृहन्तं सर्वानुभुमात्मानꣳ साम्पराये” - तैत्तिरीयारण्यकम् ३/१२/९/१७
इति तैत्तिरीयश्रुतिः।
“नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ” - काठकोपनिषत् १/२/९
इति कठश्रुतिः।
“नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्ति तस्मादाहुर्वेदा इति”
इति पिप्पलादश्रुतिः।
नचैतेषां वचनानामेवाप्रामाण्यम्। अपौरुषेयत्वाद् वेदस्य।
“इतिहासपुराणः पञ्चमो वेदानां वेदः” - छान्दोग्योपनिषत् ७/१/२
इति तद्गृहीतत्वाच्च।
नचापौरुषेयं वाक्यमेव नास्तीति वाच्यम्। तदभावे सर्वसमयाभिमतधर्माद्यसिद्धेः।
यस्य तौ नाभिमतौ नासौ समयी, समयप्रयोजनाभावात्। नच तेन लोकोपकारः। धर्माद्यभावज्ञाने परस्परं हिंसादिनाऽपकारस्यैव प्राप्तेः। नचोपकारेण तस्य प्रयोजनम्। अदृष्टाभावात्। अतो धर्माद्यभावं वदता स्वसमयस्यानर्थक्यमङ्गीकृतमेवेति नासौ समयी।
नच पौरुषेयेण वाक्येन तत्सिद्धिः। अज्ञानविप्रलम्भयोः प्राप्तेः। नच तदर्थत्वेन सर्वज्ञः कल्प्येत। अन्यत्रादृष्टस्य सर्वज्ञत्वस्य कल्पनम्, तस्याविप्रलम्भकत्वकल्पनम्, तस्य तत्कृतत्वकल्पनं चेति कल्पनागौरवप्राप्तेः।
अपौरुषेयवाक्याङ्गीकारे न किञ्चित् कल्प्यम्।
अपौरुषेयत्वं च स्वत एव सिद्धम्। वेदकर्तुरप्रसिद्धेः। अप्रसिद्धौ च कर्तुस्तत्कल्पने कल्पनागौरवम्। अकल्पने चाकर्तृकत्वं सिद्धमेव। नच लौकिकवाक्यवत् सकर्तृकत्वम्। तस्याकर्तृकत्वप्रसिद्ध्यभावात्। नच केनचित् कृत्वा वेद इत्युक्तं वेदसमम्। परम्पराभावात्। नच स्वयम्प्रतिभातवेदैर्दृष्टमवेदवाक्यं भवति। परम्परासिद्धवेदवाक्यानुसारित्वात्। वेदद्रष्टॄणामुक्तगुणवत्त्वाच्च तेषाम्। उक्तं च ब्रह्माण्डे-
“विंशल्लक्षणतोऽनूनस्तपस्वी बहुवेदवित्। वेद इत्येव यं पश्येत् स वेदो ज्ञानदर्शनात्॥”
इति।
प्रामाण्यं च स्वत एव। अन्यथाऽनवस्थानात्। नचोक्तयुक्त्यधीनत्वं प्रामाण्यस्य। बुद्धिदोषनिरासमात्रकारणत्वाद् युक्तीनाम्। अदुष्टबुद्धीनां स्वत एव सिद्धत्वाच्च प्रामाण्यस्य। नचाकाङ्क्षायामेव प्रमाणान्तरापेक्षत्वादनवस्थाभाव इति वाच्यम्। आकाङ्क्षाया एव बुद्धिदोषात्मकत्वात्। दुष्टबुद्धीनामेवाप्रामाण्यशङ्केति परतोऽप्रामाण्यम्। प्रामाण्यं च स्वत एव सिद्धम्।
नचोच्चारणकाल एव वर्णानामुत्पत्तिरिति वाच्यम्। तदेवेदं वचनमिति प्रत्यभिज्ञाविरोधात्।
नच सादृश्यात् प्रत्यभिज्ञा भ्रान्तिरिति वाच्यम्। ‘सोऽयं देवदत्तः’ इत्यादेरपि तथात्वप्राप्तेः। सर्वक्षणिकत्वं वदता बौद्धेन ‘सेयं दिग्’ इत्यादिप्रत्यभिज्ञाया भ्रान्तित्वं न वाच्यम्। पञ्चस्कन्धेभ्योऽन्यत्वात्।
नच दिश एव भ्रान्तिकल्पिताः। विज्ञानशून्ययोरपि साम्यात्। नचादित्योदयादिनैव दिक्कल्पना। अन्धकारेऽपि दिङ्मात्रप्रतीतेः। कादाचित्कभ्रान्तिरेवादित्योदयादिदर्शनान्निवार्यते। सा च विज्ञानशून्ययोरपि भवतीति तेषां मतम्, वादिविप्रतिपत्तेः। अतो दिशः स्थिरा एवेति सिद्ध्यति शून्यवदेव।
अतस्तद्वद् वेदस्यापि स्थैर्यं सिद्धम्। ‘तदेवेदं वाक्यम्’ इति प्रत्यभिज्ञानात्।
नचानुमानादीनामागमं विना प्रामाण्यं धर्मादिषु, तदगोचरत्वात्। अतोऽपौरुषेयवाक्येनैव धर्मादिसिद्धेः सर्ववादिनामपि तदङ्गीकार्यम्।
तत्प्रामाण्यं च स्वत एव सिद्धम्। अप्रामाण्यस्य च परतस्त्वानङ्गीकारे दुष्टेन्द्रियादेरप्यप्रामाण्यहेतुत्वं न स्यात्। तदनङ्गीकारे चानुभवविरोधः। अतः प्रामाण्यं स्वतः परतोऽप्रामाण्यमिति सिद्धम्।
“वाचा विरूप नित्यया” - ऋग्वेदसंहिता ८/७५/६
“नित्ययाऽनित्यया स्तौमि ब्रह्म तत् परमं पदमिति॥श्रुतिर्वाव नित्या अनित्या वाव स्मृतयो याश्चान्या वाचः”
इति पैङ्गिश्रुतिः
“विज्ञेयं परमं ब्रह्म ज्ञापिका परमा श्रुतिः। अनादिनित्या सा तच्च विना तां न स गम्यते”
इति कात्यायनश्रुतिः
“सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक्। कश्छन्दसां योगमावेद धीरः को धिष्ण्यां प्रति वाचं पपाद॥” - ऋग्वेदसंहिता १०/११४/८-९
इत्यादि च।
“नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगाः। सर्गेसर्गेऽमुनैवैत उद्गीर्यन्ते तथैव च। तत्क्रमेणैव तैर्वर्णैस्तैः स्वरैरेव नान्यथा॥
अतः श्रुतित्वमेतासां श्रुता एव यतोऽखिलैः। जन्मान्तरे श्रुतास्तास्तु वासुदेवप्रसादतः। मुनीनां प्रतिभास्यन्ति भागेनैव न सर्वशः। यतस्ता हरिणा दृष्टाः श्रुता एवापरैर्जनैः। श्रुतयो दृष्टयश्चेति तेनोच्यन्ते पुरातनैः॥
तदुत्पत्तिवचश्चैव भवेद् व्यक्तिमपेक्ष्य तु। चेतनस्य जनिर्यद्वदुच्यते सर्वलौकिकैः। पुराणानि तदर्थानि सर्गेसर्गेऽन्यथैव तु। क्रियन्तेऽतस्त्वनित्यानि तदर्थाः पूर्वसर्गवत्॥
वेदानां सृष्टिवाक्यानि भवेयुर्व्यक्त्यपेक्षया। अवान्तराभिमानानां देवानां वा व्यपेक्षया। नानित्यत्वात् कुतस्तेषामनित्यत्वं स्थिरात्मनाम्॥”
इति ब्रह्माण्डे।
नचानित्यत्वे ‘श्रुतिः’ ‘वेदः’ इत्यादिविशेषशब्द उपपद्यते।
“वेदास्ते नित्यविन्नत्वाच्छ्रुतयश्चाखिलैः श्रुतेः। आम्नायोऽनन्यथापाठादीशबुद्धिस्थिताः सदा॥”
इति महावाराहे।
नच नित्यत्वं विना वेदानां दर्शनव्यवहारो युज्यते। नच वर्णपदादीनामनित्यत्वं वक्तुं युक्तम्। सर्वज्ञत्वादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वात्। नच घटादिवत् संस्कारमात्रत्वं वक्तुं युक्तम्। प्रत्यभिज्ञाविरोधस्योक्तत्वात्। पुराणानामप्यन्यथाशब्दरचनमेवानित्यत्वम्।
अत आकाशगुणे शब्दे व्यज्यमाना वर्णादयः, तत्क्रमात्मको वेदश्च नित्य एवेति सिद्धम्।
नच केवलसिद्धेऽर्थे व्युत्पत्त्यभावादप्रामाण्यम्। सिद्धान्वित एव व्युत्पत्तिगृहीतेः। ‘इयं माता’, ‘अयं पिता’ इत्यादावङ्गुलिप्रसारणादिपूर्वकनिर्देशेनैव हि तज्जानाति। कार्यान्वित एव व्युत्पत्तिरिति वदतः कार्यस्य कार्यान्वयाभावात् कल्पनागौरवम्।
‘इयं माता’, ‘अयं पिता’, ‘सुरूपोऽसि’ इत्यादौ सिद्धमात्रज्ञापनेन पर्यवसितत्वाद् वाक्यस्य।
तस्य तत्र प्रामाण्यानुभवाच्च। नच कुत्रचित् सिद्धज्ञापनादन्यद् वाक्यस्य प्रयोजनं दृष्टम्। ज्ञात्वैव हीष्टसाधनतां प्रवर्तते, निवर्तते च विपर्ययेण। अतः सिद्ध एव सर्ववाक्यानां प्रामाण्यं सिद्धम्।
प्रसिद्धं च व्याकरणनिरुक्तादीनां सिद्धमात्रे प्रामाण्यं सर्ववादिनाम्। तदनङ्गीकारे च सर्वशाब्दव्यवहारासिद्धिः।
उक्तं च नारदीये-
“सर्वज्ञं सर्वकर्तारं नारायणमनामयम्। सर्वोत्तमं ज्ञापयन्ति महातात्पर्यमत्र हि। सर्वेषामपि वेदानामितिहासपुराणयोः। प्रमाणानां च सर्वेषां तदर्थं चान्यदुच्यते॥”
इति।
नच जीवेश्वराभेद एव तात्पर्यमागमस्य। तत्र प्रमाणाभावात्।
नच जीवेश्वरभेदः सिद्ध इत्यनुवादकत्वं भेदाक्यानाम्। आगमं विनेश्वरस्यैवासिद्धेः। नचानुमानात् तत्सिद्धिः। विपर्ययेणाप्यनुमातुं शक्यत्वात्। ‘विमतं सकर्तृकम्, कार्यत्वात्, घटवत्’ इत्युक्ते, ‘विमतं विकर्तृकम्, अस्मत्सम्मतकर्तृरहितत्वात्, आत्मवत्’ इत्यनुमानविरोधात्। ‘अकार्यत्वमुपाधिः’ इत्युक्ते, ‘शरीरिजन्यत्वमितरत्राप्युपाधिः’ इत्युत्तरम्।
प्रत्यक्षानुमानसिद्धत्वे च भेदस्य तद्विरोधादेवाप्रामाण्यमभेदागमस्य। तेनाभेदागमस्याप्रामाण्याभावे नानुवादकत्वं भेदवाक्यानाम्। नहि बलवतोऽनुवादकत्वम्। दार्ढ्यहेतुत्वात्।
प्रत्यक्षादेरागमस्य प्राबल्येऽपि नोपजीव्यप्रमाणविरोधे प्रामाण्यम्। विषयाभावे स्वस्यैवाप्रामाण्यप्राप्तेः। तेनैव ह्यनुमानादिनाऽऽगमस्य विषयः सिद्ध्यति तत्पक्षेऽपि। अनुमानेन ह्यनुवादित्वपक्ष ईश्वरो बोद्धव्यः, प्रत्यक्षेण चागमः। अतस्तयोर्विरोधे प्रामाण्यं न स्यात्। अनुमानसिद्धेश्वराच्च भेदोऽनुभवत एव सिद्धो जीवस्य। असर्वकर्तृत्वेनानुभवात्।
नचानुभवविरोधे आगमस्य प्रामाण्यम्। आगमप्रामाण्यानुभवस्याप्यप्रामाण्यप्राप्तेः।
बहुप्रमाणसंवादश्च दार्ढ्यहेतुरेव। बहूनां वचने तस्यैव दर्शने दार्ढ्यस्यैव दृष्टेः। सर्वाविवादस्थल एव कथञ्चिदनुवादकत्वम्। नचात्र सर्वाविवादः। एकत्ववादिनामेव विवाददर्शनात्।
बहुप्रमाणविरोधे चैकस्याप्रामाण्यं दृष्टं शुक्तिरजतादौ। नच दोषजन्यत्वादेव दुर्बलत्वमिति विरोधः। बहुप्रमाणविरुद्धानां दोषजन्यत्वनियमात्। दोषजन्यत्वं च बलवत्प्रमाणविरोधादेव ज्ञायते।
“अदुष्टमिन्द्रियं त्वक्षं तर्कोऽदुष्टस्तथाऽनुमा। आगमोऽदुष्टवाक्यं च स्वदृक् चानुभवः स्मृतः। बलवत्प्रमाणतश्चैव ज्ञेया दोषा नचान्यथा। द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः। तयोः स्वभावो बलवानुपजीव्यादिकश्च सः॥
याथार्थ्यमेव प्रामाण्यं तन्मुख्यं ज्ञानशब्दयोः। ज्ञानं च द्विविधं बाह्यं तथाऽनुभवरूपकम्। बल्येवानुभवस्तत्र निर्दोषं त्वक्षजादिकम्॥
अनुप्रमाणतां याति तथाऽक्षादित्रयं ततः। प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्। उपजीव्यविरोधे तु न प्रामाण्यममुष्य च॥"
यामाहुरनुमां केचित् त्रियाद्यवयवात्मिकाम्। सा व्यर्था नोपपत्त्या हि विना साऽपि प्रमाणताम्। यात्यतो युक्तिरेवैका प्रमाणमनुमात्मकम्। युक्तिः प्रतिज्ञारूपा च हेतुदृष्टान्तरूपिका। तथोपनयरूपा च परा निगमनात्मिका। पृथक्पृथक्प्रमाणत्वं याति युक्तितयैव तु। प्रतिज्ञा हेतुगर्भैव पृथक् प्रामाण्यमेष्यति। सिद्धत्वेन प्रतिज्ञाया हेतुर्मानं पृथग् भवेत्। प्रतिज्ञावयवत्वात्तु स्वातन्त्र्येणैव मानताम्। दृष्टान्तो यात्युपनयो व्याप्तिमाश्रित्य केवलम्। व्याप्तिस्तु केवलाऽपि स्यात् प्रमाणं नियमाश्रयात्। तथा निगमनं चोपसंहारैकस्वरूपतः। प्रामाण्यं यात्यनुभवो ज्ञापयत्युपपत्तिताम्॥
विरोधश्च तथाऽधिक्यं न्यूनताऽसङ्गतिस्तथा। उपपत्तिदोषा विज्ञेया विरोधश्च स्वतोऽन्यतः॥जनकस्यात्ययो जातिः स्वस्य वाऽन्यस्य वा भवेत्। जनकं प्रमाणमुद्दिष्टं स्वस्यार्थस्य प्रकाशनात्॥निग्रहा एत एव स्युः संवादानुक्तिसंयुताः॥
अर्थतः प्राप्तिरेवार्थापत्तिरित्यभिधीयते। दृष्ट्वा सदृशमेवान्यं पूर्वदृष्टे तु वस्तुनि। एतत्सदृशताज्ञानमुपमानं प्रकीर्तितम्॥अभावस्य परिज्ञानं द्विविधं समुदाहृतम्। एकं तत्रानुभवतो योग्यस्यानुपलब्धितः। द्वितीयमपि विज्ञेयं सुखाद्ये च घटादिके॥एकं प्रत्यक्षरूपं स्याद् द्वितीयमनुमात्मकम्। क्वचिद् घटाद्यभावोऽपि प्रत्यक्षेणावगम्यते। झटित्येव परिज्ञानान्न लिङ्गोद्भवता मता॥अर्थापत्तिश्चोपमा च ह्यनुमाभेद एव तु॥
आगमो द्विविधो ज्ञेयो नित्योऽनित्यस्तथैव च।
प्रत्यक्षं त्रिविधं ज्ञेयमैश्वरं यौगिकं तथा। अयौगिकं चेति तथा सर्वमक्षात्मकं मतम्॥अक्षाणि च स्वरूपाणि नित्यज्ञानात्मकानि च। विष्णोः श्रियस्तथैवोक्तान्यन्येषां द्विविधानि तु॥स्वरूपाणि च भिन्नानि भिन्नानि त्रिविधानि च। दैवासुराणि मध्यानीत्येतत् प्रत्यक्षमीरितम्॥विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति कीर्तितम्। अक्षयं पुरुषस्याक्षं स्वरूपे मुख्यमेव तु। उपचारस्तदन्यत्र सृष्टावुपचयो यतः।
उपपत्तिस्वरूपत्वादनुमा सम्भवादिकम्॥
प्रत्यक्षागममाहात्म्यादनुमानं प्रमाणताम्। याति नैवान्यथा तस्य नियतत्वं क्वचिद् भवेत्॥” इत्यादि ब्रह्मतर्के।
अत्र चोपजीव्यत्वेन प्रमाणप्राबल्याद् भेद एव तात्पर्यं युक्तम्।
कथञ्चानुवादकत्वं भेदस्य प्रमाणेनासिद्धौ। सिद्धौ च कथमभेदवाक्यस्याबाधः। नचाप्रमाणसिद्धेनानुवादकत्वं प्रमाणस्य भवति। दुर्बलत्वे च भेदप्रमाणस्याभासत्वान्न भेदवाक्यानामनुवादित्वम्। अतश्च भेदवाक्यानामेव प्राबल्यम्।
सर्वप्रमाणविरुद्धवचनानामेव प्राबल्याङ्गीकारे
“इदं वाऽग्रे नैव किञ्चनासीत्” - तैत्तिरीयारण्यकम् २/२/९/१
“असतः सदजायत” - ऋग्वेदसंहिता १०/७२/२
इत्यादीनामेवाविचारेण प्रतीयमानस्यार्थस्य सर्वप्रमाणविरुद्धत्वात् तत्र सर्वागमानां महातात्पर्यं प्रसज्येत। नच तत्र युक्तिविरोध इति वाच्यम्। तस्मिन् पक्षे युक्तिविरुद्धत्वेनाननुवादित्वमिति गुण एव स्यात्। युक्तिसिद्धत्वे ह्यनुवादित्वं स्यात्। अतः प्रमाणसिद्धत्वे तदपलापायुक्तेः, अप्रमाणसिद्धत्वे च भेदप्रमाणस्यानुवादित्वाभावाच्च न भेदवाक्यानां दौर्बल्यम्।
नच प्रमाणबहुत्वे दौर्बल्यम्। दार्ढ्यमेव हि बहुवाक्यसंवादे दृष्टम्। तथासत्यभ्यासादेरप्रामाण्यहेतुत्वं स्यात्। अभ्यासस्य च तात्पर्यलिङ्गत्वं सर्वेषां सिद्धम्। तदनङ्गीकारे तत्पक्षेऽपि नवकृत्वः “तत्त्वमसि” इत्यभ्यासस्यानुवादकत्वेनाप्रामाण्यं स्यात्। प्रथमवाक्येनैव यस्यासिद्धं तदर्थमपरमित्युक्ते प्रत्यक्षादिना भेदो येनानिश्चितस्तदर्थं वाक्यमित्युत्तरम्। तस्माद् बहुप्रमाणसंवादित्वे प्राबल्यमेव।
अतः सर्वप्रमाणविरुद्धत्वान्नाभेदे तात्पर्यं वाक्यस्य। किन्तु विष्णोः सर्वोत्तमत्व एव महातात्पर्यं सर्वागमानाम्।
तथाचोक्तं भगवता-
“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः। यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः। यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्। स सर्वविद् भजति मां सर्वभावेन भारत। इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ। एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत॥” - भगवद्गीता १५/१६-२०
इति।
“सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्यम्। अवान्तरं तत्परत्वं तदन्यत् सर्वागमानां पुरुषार्थस्ततोऽतः॥”
इति पैङ्गिश्रुतिः।
“मुख्यं च सर्ववेदानां तात्पर्यं श्रीपतेः परम्। उत्कर्षे तु तदन्यत्र तात्पर्यं स्यादवान्तरम्॥”
इति महावाराहे।
युक्तं च विष्णोः सर्वोत्तमत्व एव महातात्पर्यं सर्वागमानाम्।
मोक्षो हि सर्वपुरुषार्थोत्तमः-
“धर्मार्थकामाः सर्वेऽपि न नित्या मोक्ष एव हि। नित्यस्तस्मात् तदर्थाय यतेत मतिमान् नरः॥”
इति भाल्लवेयश्रुतिः।
“अनित्यत्वात् सदुःखत्वान्न धर्माद्याः परं सुखम्। मोक्ष एव परानन्दः संसारे परिवर्तताम्॥”
इति भारते।
मोक्षश्च विष्णुप्रसादेन विना न लभ्यते-
“यस्य प्रसादात् परमार्तिरूपादस्मात् संसारान्मुच्यते नापरेण। नारायणोऽसौ परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुष्मात्॥”
इति नारायणश्रुतिः।
“नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्॥” - काठकोपनिषत् १/२/२३
इति कठश्रुतिः।
“तेषामहं समुद्धर्ता मृत्युसंसारसागरात्। भवामि न चिरात् पार्थ मय्यावेशितचेतसाम्॥” - भगवद्गीता १२/७
इति भगवद्वचनम्।
“उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः। बन्धमोक्षौ च पुरुषाद् यस्मात् स हरिरेकराट्॥”
इति स्कान्दे।
“अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः। आनन्ददश्च मुक्तानां स एवैको जनार्दनः॥”
इति च।
“बन्धको भवपाशेन भवपाशाच्च मोचकः। कैवल्यदः परं ब्रह्म विष्णुरेव न संशयः॥”
इति च।
प्रीतिश्च गुणोत्कर्षज्ञानादेव विशेषतो दृष्टा। नाभेदज्ञानात्। अभेदज्ञानादप्रीतिरेवोत्तमानां भवति। घातयन्ति हि राजानो राजाऽहमिति वदन्तम्। ददति च सर्वमभिप्रेतं गुणोत्कर्षं वदतः।
“न तादृशी प्रीतिरीड्यस्य विष्णोर्गुणोत्कर्षज्ञातरि यादृशी स्यात्। तत्प्रीणनान्मोक्षमाप्नोति सर्वस्ततो वेदास्तत्पराः सर्व एव॥”
इति सौपर्णश्रुतिः।
“यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्। स सर्वविद् भजति मां सर्वभावेन भारत॥” - भगवद्गीता १५/१९
इति गुणोत्कर्षज्ञानादेव परमा प्रीतिर्भगवता स्वयमेवाभिहिता।
अतो विष्णोर्गुणोत्कर्ष एव सर्वश्रुतिस्मृतीनां महातात्पर्यम्।
नचाभेदे तात्पर्यमित्यत्र किञ्चिन्मानम्।
नच विशेषणविशेष्यतया भेदसिद्धिः, विशेषणविशेष्यभावश्च भेदापेक्षः, धर्मिप्रतियोग्यपेक्षया भेदसिद्धिः, भेदापेक्षं च धर्मिप्रतियोगित्वम् – इत्यन्योन्याश्रयतया भेदस्यायुक्तिः। पदार्थस्वरूपत्वाद् भेदस्य।
नच धर्मिप्रतियोग्यपेक्षया भेदस्यास्वरूपत्वम्। ऐक्यवत् स्वरूपस्यैव तथात्वात्।
स्वरूपसिद्धावपि तदसिद्धिश्च जीवेश्वरैक्यं वदतः सिद्धैव। भेदस्तु स्वरूपदर्शन एव सिद्धः। प्रायः सर्वतो विलक्षणं हि पदार्थस्वरूपं दृश्यते।
‘अस्य भेदः’ इति तु ‘पदार्थस्य स्वरूपम्’ इतिवत्।
यदि न स्वरूपं भेदः, तदा पदार्थे दृष्टे प्रायः सर्वतो वैलक्षण्यं तस्य न ज्ञायेत। अज्ञाते च वैलक्षण्ये आत्मनि घट इत्यपि संशयः स्यात्। नहि कश्चित् तथा संशयं करोति।
ज्ञात्वैव प्रायः सर्वतो वैलक्षण्यं कस्मिंश्चिदेव सदृशे संशयं करोति। नह्यात्मनि ‘अहं देवदत्तो न वा’ इति कस्यचित् संशयो भवति। सामान्यतः सर्ववैलक्षण्ये ज्ञात एव घटत्वादिज्ञानम्।
अतो नान्योन्याश्रयता।
नच युगपज्ज्ञानानुत्पत्तिर्दोषः। यथा युगपदेव दीपसहस्रदर्शने सामान्यतः सर्वे ज्ञायन्त एव, तथा स्यात्।
एकस्मिन्नेव वस्तुनि विशेषस्तैरप्यङ्गीकृत एव। “नेतिनेति” इत्यत्र सर्ववैलक्षण्याङ्गीकारात्। विशेषानङ्गीकारे च पुनरुक्तेः। नच घटाद् वैलक्षण्यमेव पटाद् वैलक्षण्यम्। अनुभवविरोधात्।
तस्माद् भेददर्शनं युक्तमेव।
यच्च प्रमाणदृष्टानामपि पदार्थानां मिथ्यात्वकल्पनं तच्च प्रमाणविरुद्धत्वादेव प्रकाशतस्करत्वम्।
नहि प्रमाणदृष्टस्य तर्कबाध्यत्वम्। प्रत्यक्षादिविरुद्धानां तर्काभासत्वनियमात्। शुक्त्यादे रजतत्वादिप्रतीतेरपि बलवत्प्रत्यक्षविरुद्धत्वादेव भ्रमत्वं न तर्कमात्रात्। तर्कमात्रतः प्रत्यक्षबाधने भूतचतुष्टयस्याबादेः पृथिवीत्वादृष्टेः पृथिव्या अपि पृथिवीत्वं न स्यात्। अतो न तर्कमात्रत एव दृष्टस्य भ्रान्तित्वं कल्प्यम्।
अतः सर्वभेदनिरासकतर्कस्य सर्वश्रुतिस्मृतिप्रत्यक्षानुमानविरुद्धत्वान्नितरामाभासत्वम्।
नच परमार्थतो भेदाभावो व्यावहारिकः सोऽस्तीति वाच्यम्। सदसद्वैलक्षण्ये प्रमाणाभावात्।
असतः ख्यात्ययोगादिति वदतः ख्यातिरभूत्, नवा? यदि नाभूत्, न तत्ख्यातिनिराकरणम् । यद्यभूत्, तथाऽपि । नचासतो वैलक्षण्यं तत्प्रतीतिं विना ज्ञायते।
नच शुक्ते रजतत्वं सदसद्विलक्षणम् । असदेव रजतं प्रत्यभादित्यनुभवात्। नच प्रतीतत्वादसत्त्वाभावः। असतः सत्त्वप्रतीतिः सतोऽसत्त्वप्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्तित्वात्। नचासतो भ्रान्तावपि प्रतीतिर्नास्तीति वाच्यम्। अनिर्वचनीयपरमार्थत्वस्यासत एव दृष्ट्यङ्गीकारात्। नच तदप्यनिर्वाच्यम्। अनवस्थितेः। प्रथमानिर्वचनीयासिद्ध्या सर्वानिर्वचनीयासिद्धिरिति मूलक्षतिः। अनिर्वचनीयत्वे रजतस्यानिर्वचनीयमिदं रजतमिति बाधकज्ञानमुत्पद्येत। मिथ्याशब्दस्त्वभाववाची। नच सदसद्वैलक्षण्यं नामास्तीत्यत्र किञ्चिन्मानम्।
अनुभवविरोधश्च तत्पक्षे। सदसतोर्द्वयोरेव सर्वैरनुभूयमानत्वात्।
अतोऽनिर्वचनीयाभावादसतः प्रतीत्यनङ्गीकारात् प्रतीयमानत्वाच्च भेदस्य सत्त्वप्राप्तेर्नाद्वितीयत्वं युज्यते।
कथं च श्रुतिसिद्धो जीवपरमात्मभेदो निराक्रियते। मिथ्यावादित्वे च श्रुतेः कथमैक्यस्य सत्यत्वम्। कथं चैवंवादिनां वेदवादित्वम्। वेदोक्तस्य मिथ्यात्वाङ्गीकारादेव ह्यवेदवादित्वं बौद्धादीनामपि।
अतो विष्णोः सर्वोत्तमत्व एव महातात्पर्यं सर्वागमानाम्।
कथं च जीवपरमात्मैक्ये सर्वश्रुतीनां तात्पर्यं युज्यते। सर्वप्रमाणविरुद्धत्वात्।
तथाह्यनुभवविरोधः। नह्यहं सर्वज्ञः सर्वेश्वरो निर्दुःखो निर्दोष इति वा कस्यचिदनुभवः। अस्ति च तद्विपर्ययेणानुभवः। नच मिथ्यानुभवोऽयम्। तद्विपरीतप्रमाणाभावात्।
नचाभेदे कश्चिदागमः। सन्ति च भेदे सर्वागमाः। तथाहि –
“अतत्त्वमसि” - छान्दोग्योपनिषत् ६/३/५,७,९,११,१२,१३,१४,१५,१६
इति नवकृत्व उपदेशः सदृष्टान्तकः।
नचायमभेदोपदेशः।
“स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा बन्धनमेवोपाश्रयते। ” - छान्दोग्योपनिषत् ६/३/२
“सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः” - (१),छान्दोग्योपनिषत् ६/३/४
“यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसानां समवहारमेकतां गमयन्ति ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पत्स्यामह इति। त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद् भवन्ति तत् तदा भवन्ति। ” - (२),छान्दोग्योपनिषत् ६/३/६-७
“इमाः सोम्य नद्यः पुरस्तात् प्राच्यः स्यन्दन्ते पश्चात् प्रतीच्यस्तास्समुद्रात् समुद्रमेवापियन्ति। स समुद्र एव भवति। ता यथा तत्र न विदुरियमहमस्मीयमहस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति। त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद् भवन्ति तत् तदा भवन्ति। ” - (३),छान्दोग्योपनिषत् ६/३/८-९
“स एष जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति। अस्य यदैकां शाखां जीवो जहात्यथ सा शुष्यति। ” - (४),छान्दोग्योपनिषत् ६/३/१०
“न्यग्रोधफलमत आहरेतीदं भगव इति भिन्धीति भिन्नं भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति। तं होवाच यं वै सोम्यैतमणिमानं न निभालयसे अस्य सोम्यैषोऽणिम्न एवं महान् न्यग्रोधस्तिष्ठति। ” - (५),छान्दोग्योपनिषत् ६/३/१२
“लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति। तद्ध तथा चकार। तं होवाच। यद्दोषा लवणमेतदुदके अवधा अङ्ग तदाहरेति। तद्धावमृश्य न विवेद। यथा विलीनमेवाङ्गास्यान्तादाचामेति। कथमिति। लवणमिति। मध्यादाचामेति। कथमिति। लवणमिति। अन्त्याचामेति। कथमिति। लवणमिति। अभिप्रास्यैतदथ मोपसीदथा इति। तद्ध तथा चकार। तच्छश्वत् संवर्तते। तं होवाचात्र वावकिल सत् सोम्य न निभालयसेऽत्रैव किलेति। ” - (६),छान्दोग्योपनिषत् ६/३/१३
“यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिजने विसृजेत्” - (७),छान्दोग्योपनिषत् ६/३/१४
“अथ यदाऽस्य वाङ् मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावन्न जानाति” - (८),छान्दोग्योपनिषत् ६/३/१५
“पुरुषं सोम्योत हस्तगृहीतमानयन्त्यपहार्षीत् स्तेयमकार्षीत् परशुमस्मै तपतेति। स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते। सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते। अथ स यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते। स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते। ”छान्दोग्योपनिषत् ६/३/१६ “एवमेव खलु सोम्याचार्यवान् पुरुषो वेद” - (९) इति स्थाननवकेऽपि भेद एव दृष्टान्ताभिधानात्। - छान्दोग्योपनिषत् ६/३/१४
नहि शकुनिसूत्रयोः, नानावृक्षरसानाम्, नदीसमुद्रयोः, जीववृक्षयोः, अणिमाधानयोः, लवणोदकयोः, गन्धारपुरुषयोः, अज्ञप्राणादिनियामकयोः, स्तेनापहार्ययोश्चैक्यम्।
1.8.2.1.2. नानावृक्षरसदृष्टान्तस्य नदीसमुद्रदृष्टान्तस्य च भेदपरत्वसमर्थनम्
“सति सम्पद्य न विदुः सति सम्पत्स्यामह इति त इह व्याघ्रो वा सिंहो वा” - छान्दोग्योपनिषत् ६/३/६-७
इति
“सत आगम्य न विदुः सत आगच्छामह इति त इह व्याघ्रो वा सिंहो वा” - छान्दोग्योपनिषत् ६/३/८-९
इति भेदापरिज्ञानेनानर्थवचनाच्च।
नहि गृहादागतस्य गृहे प्रविष्टस्य च तदैक्यम्।
“ताः समुद्रात् समुद्रमेवापियन्ति स समुद्र एव भवति” - छान्दोग्योपनिषत् ६/३/८
इत्यत्रापि भेद एवोच्यते। अन्यथा, ‘ताः समुद्र एव भवन्ति’ इति व्यपदेशः स्यात्। अतो नद्यः समुद्रादागच्छन्ति तं प्रविशन्ति च, समुद्रस्तु स एव, नैतासां समुद्रत्वं भवतीत्यर्थः। नहि भिन्नानां नदीजलपरमाणूनां सामुद्राणुभिरैक्यं युज्यते। तथासति महाजनसमितौ प्रविष्टानां द्वित्राणां तदैक्यं स्यात्। नच तद् युज्यते। भेदेनानुभवात्।
“स्वं ह्यपीतो भवति” - छान्दोग्योपनिषत् ६/३/१
इत्यत्रापि।
स्व इति परमात्मनोऽभिधानम्।
“स्वात्मना चोत्तरयोः” - ब्रह्मसूत्रम् २/३/२१
इति सूत्रात्।
“स्वातन्त्र्यात् स्व इति प्रोक्त आत्माऽयं चाततत्वतः। ब्रह्मायं गुणपूर्णत्वात् भगवान् विष्णुरव्ययः॥”
इति परमोपनिषदि।
अपीत इत्यपि प्रवेशमात्रम्। ‘स्वम्’ इति द्वितीयानिर्देशात्। एकीभावविवक्षायां ‘स्वेन’ इति निर्देशः स्यात्।
“स्वं कुलायं यथाऽपीतः पक्षी स्यादेवमीश्वरम्। अप्येति जीवः प्रस्वापे मुक्तौ चान्योऽपि सन् सदा॥”
इति च।
“एवमेव खलु सोम्य एतन्मनो दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा प्राणमेवोपाश्रयते” - छान्दोग्योपनिषत् ६/३/२
इत्यत्रापि मन इति जीवः प्राण इति परमात्मा।
“यत्रायं पुरुषः स्वपिति नाम” - छान्दोग्योपनिषत् ६/३/१
इति तयोरेव प्रस्तुतत्वात्।
“मननान्मन उद्दिष्टः पुद्गलो निरयं गिरन्। कर्मानुशयनाच्चैव संसार्यनुशयी स्मृतः॥”
इति च परमोपनिषदि।
“प्राणः प्रणयनादेष साधुत्वात् सन् हरिः स्मृतः”
इति च।
“सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः“ - छान्दोग्योपनिषत् ६/३/३
इत्यत्रापि भेद एव प्रतीयते।
“स्रष्टृत्वादाश्रयत्वाच्च मुक्तानां च प्रतिप्रति। स्थापनाच्च विभुर्विष्णुरन्यः संसारिणो मतः॥”
इति च।
“अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” - छान्दोग्योपनिषत् ६/२/२
इति
“स एष जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति” - छान्दोग्योपनिषत् ६/३/१०
इत्यत्रापि जीवशब्देन परमात्माऽभिहितः।
“जीव इति भगवतोऽनिरुद्धस्याख्या”
इति श्रुतेः।
“विष्णुर्जीव इति प्रोक्तः सततं प्राणधारणात्। स प्रविश्य शरीरं च स्थावरं जङ्गमं तथा। महाभूतानि च विभुस्त्रिवृत्करणपूर्वकम्। संसारिणं भ्रामयति सदैवान्यत्वलक्षणम्। तेनायं मोदते नित्यं वृक्षावस्थां गतोऽपि सन्॥”
इति च।
“तत् तेज ऐक्षत” - छान्दोग्योपनिषत् ६/२/१
“ता आप ऐक्षन्त” - छान्दोग्योपनिषत् ६/२/१
“इमास्तिस्रो देवताः” - छान्दोग्योपनिषत् ६/२/२
इति पूर्वमेव चेतनत्वसिद्धेः
“अनेन जीवेनात्मना” - छान्दोग्योपनिषत् ६/२/२
इति संसारिणः पुनः प्रवेशो न युक्तः। अतस्तत्र जीवशब्देन परमात्मैवाभिहितः।
“जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति” - छान्दोग्योपनिषत् ६/३/१०
इत्यत्रापि जीवशब्दोदितः पर एव। पेपीयमानो मोदमानस्तु संसारी। नहि चेतनादन्यस्य मोदभोगादिकं युज्यते-
“सुखस्य चाप्यायतनं शरीरं दुःखस्य चाप्यायतनं शरीरम्। अचेतनं प्राकृतमेतदाहुर्भोक्ता तयोश्चेतनकः शरीरी॥” - भारतम् १२/१७३/२२
इति च भारते।
“जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते” - छान्दोग्योपनिषत् ६/३/११
इत्यत्रापि जीवशब्दः परे। नहि संसारिणो मुख्यतः प्राणधारकत्वं युज्यते।
“ब्रह्मणा त्यक्तदेहस्तु मृत इत्युच्यते नरः” - भारतम् १४/१७/२३
इति च।
“यं वै सोम्यैतमणिमानं न निभालायसेऽस्य सोम्यैषोऽणिम्न एवं महान् न्यग्रोधस्तिष्ठति” - छान्दोग्योपनिषत् ६/३/१२
इत्यत्रापि अणिमशब्देन पर एवाभिहितः।
“स एषोऽणिमैतदात्म्यमिदं सर्वं तत् सत्यम् स आत्माऽतत्त्वमसि श्वेतकेतो” - छान्दोग्योपनिषत् ६/३/१२
इत्युक्तत्वाच्च।
धानासु तु
“अण्व्य इवेमा धाना” - छान्दोग्योपनिषत् ६/३/१२
इति स्त्रीलिङ्गप्रयोगादिवशब्दप्रयोगाच्च नाणिमत्वम्। नच ता न निभालयसे।
ऐतदात्म्यमित्येतदीयम्।
“स आत्मा” - छान्दोग्योपनिषत् ६/३/५-१६
इत्यात्मशब्दस्तु पर एव।
“द्युभ्वाद्यायतनं स्वशब्दात्” - ब्रह्मसूत्रम् १/३/१
“नानुमानमतच्छब्दात्” - ब्रह्मसूत्रम् १/३/३
“प्राणभृच्च” - ब्रह्मसूत्रम् १/३/४
इत्यत्र
“तमेवैकं जानथ आत्मानम्” - आथर्वणोपनिषत् २/२/६
इति स्वशब्दपर्यायात्मशब्दान्न प्रकृतिजीवावभिधीयेते, किन्तु पर एवेति भगवता व्यासेनाभिहितम्। अत आत्मशब्दस्तस्मिन्नेव मुख्यः।
“आततत्वाच्च मातृत्वादात्मेति परमो हरिः। आत्माभासास्तदन्ये ये नह्येतेषां तता गुणाः॥”
इति परमोपनिषदि।
“तेजः परस्यां देवतायां तावन्न जानाति” - छान्दोग्योपनिषत् ६/३/१५
इत्यत्र च यदाऽस्य प्राणादीन् परो ग्रसति तदा न जानाति, यदा ददाति तदा जानातीति तद्वशत्वमेवोक्तम्।
“यदा प्राणान् ददातीशस्तदा चेतनकोऽखिलम्। जानाति ग्रस्तकरणस्तेन वेत्ति न किञ्चन॥”
इति च।
“अपहार्षीत् स्तेयमकार्षीत्” - छान्दोग्योपनिषत् ६/३/१६
इत्यत्र चान्याभिमतस्यैव वस्तुनोऽपहार्यत्वाद् भेद एवायं दृष्टान्तः। अन्यं सन्तं परमात्मानं स्वयमिति मन्यमानः स्तेन एवेति। नहि स्वकीयं परित्यजंस्तेनो भवति।
“ऐकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः। शास्त्रतत्त्वमविज्ञायतथावादबला जनाः। कामक्रोधाभिभूतत्वादहङ्कारवशं गताः। याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः। ब्रह्मस्तेना निरानन्दा अपक्वमनसोऽशिवाः। वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते। तेषां तमःशरीराणां तम एव परायणम्। ” - भारतम् १२/२७५/५१-५४
“यतः स्वरूपतश्चान्यो जातितः श्रुतितोऽर्थतः। कथमस्मि स इत्येव सम्बन्धः स्यादसंहितः॥” - भारतम् १२/२२०/३६
इति मोक्षधर्मे।
“यथा पक्षी च सूत्रं च नानावृक्षरसा यथा। यथा नद्यः समुद्रश्च शुद्धोदलवणे यथा। यथा चोरापहार्यौ च यथा पुंविषयावपि। तथा जीवेश्वरौ भिन्नौ सर्वदैव विलक्षणौ। तथाऽपि सूक्ष्मरूपत्वान्न जीवात् परमो हरिः। भेदेन मन्ददृष्टीनां दृश्यते प्रेरकोऽपि सन्। वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते बध्यतेऽन्यथा॥”
इति च परमोपनिषदि।
“प्रेरकः सर्वजीवानां प्राणधीचोदिता च सः। विष्णुः संसारिणोऽन्यो यस्तमविज्ञाय मूढधीः। देहेन्द्रियप्राणबुद्धिनेतृत्वं मन्यते त्मनः। अतः संसारपदवीं याति जीवेशयोः सदा। वैलक्षण्यं परं ज्ञात्वा मुच्यते बध्यतेऽन्यथा॥”
इति च।
“सर्वान् वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय” - छान्दोग्योपनिषत् ६/१/१
इति, आत्मनोऽन्यमनूचानत्वादिगुणप्रदं परमविज्ञाय स्तब्धस्य पराधीनत्वज्ञापनेन स्तब्धतां निरस्य तन्निष्ठा ह्यत्रोपदिश्यते।
“तद्धैक आहुरसदेवेदमग्र आसीत्” - छान्दोग्योपनिषत् ६/२/१
इत्यादि वादिप्रसिद्धमपि निराक्रियते।
“इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः” - आथर्वणोपनिषत् १/२/१०
इत्यादिवच्छ्रुतितात्पर्यापरिज्ञानप्राप्तं च। दर्शितं च
“ऐकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः” - भारतम् १२/२७५/५१
इति।
तद्वशत्वज्ञापनार्थं च
“सदेव सोम्येदमग्र आसीत्” - छान्दोग्योपनिषत् ६/२/१
इत्यादि सृष्टिकथनम्।
एकविज्ञानेन सर्वविज्ञानं च प्राधान्यात्, किञ्चित्सादृश्यात्, कारणत्वाच्च।
नतु तदन्यस्य मिथ्यात्वात्। नहि सत्यज्ञानेन मिथ्याज्ञानं भवति। नहि शुक्तिज्ञो रजतज्ञ इत्युच्यते। विरोधात् तयोर्ज्ञानयोः – नेदं रजतमित्यरजतज्ञो हि शुक्तिज्ञो भवति, रजतज्ञश्चेन्न शुक्तिज्ञः। नहि तज्ज्ञस्तदभावज्ञो भवति। तदभावस्य तज्ज्ञानपूर्वकत्वं चान्यत्र तस्य सत्त्वादेव दृष्टम्। तदनङ्गीकारे तदेव न युज्यते।
प्रधानज्ञानादप्रधानस्य ज्ञातवद् व्यपदेशोऽस्त्येव। यथा प्रधानपुरुषाणां ज्ञानाह्वाननाशनैः ‘ग्रामो ज्ञातः, आहूतः, नाशितः’ इति व्यपदेशः। कारणे च पितरि ज्ञाते ‘पुत्रो ज्ञातः’ इति, ‘जानाम्येनमस्य पुत्रोऽयम्’ इति व्यपदेश इति। एवमत्रापि, ‘एतत्सृष्टं सर्वम्’ इत्यादि। सादृश्याच्चैकस्त्रीज्ञानादन्यस्त्रीज्ञानमिति।
तदेव सादृश्यमत्रापि विवक्षितम्
“यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्” - छान्दोग्योपनिषत् ६/१/२
इत्यादिना।
अन्यथैकशब्दः पिण्डशब्दश्च व्यर्थः स्यात्। मृदा विज्ञातयेत्येतावता पूर्णत्वात्। नह्येकमृत्पिण्डात्मकान्यन्यमृण्मयानि। सादृश्यमेव हि तेषाम्।
“यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात्” - छान्दोग्योपनिषत् ६/१/३
“यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्” - छान्दोग्योपनिषत् ६/१/४
इत्यादिकमपि व्यर्थं स्यात्। नह्येकमण्यात्मकमन्यल्लोहमयम्। नचैकनखनिकृन्तनात्मकं सर्वं कार्ष्णायसम्।
“वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” - छान्दोग्योपनिषत् ६/१/२,३,४
इत्यत्र, वाचा = नाम्नाम् आरम्भणं विकारः, अविकृतं नित्यं नामधेयं मृत्तिकेत्येव, इत्येतद्वचनं सत्यमिति श्रुत्यर्थः। नच वाचारम्भणशब्दोऽपि मिथ्यात्वे प्रसिद्धः। वाचारम्भणमात्रमिति चाश्रुतकल्पनम्। तस्मिन् पक्षे नामधेयशब्द इतिशब्दश्च व्यर्थः स्यात्।
अतो न कुत्रापि जगतो मिथ्यात्वमुच्यते।
“कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः” - ईशावास्योपनिषत् ८
“यच्चिकेत सत्यमित् तन्न मोघं वसु स्पार्हमुत जेतोत दाता” - ऋग्वेदसंहिता १०/५५/६
“विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम्” - ऋग्वेदसंहिता २/२४/१२
“प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्” - ऋग्वेदसंहिता २/१५/१
“अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते नात्र विचार्यमस्ति। नचान्यथा क्वापि च कस्य चेदमभूत् पुरा नापि तथा भविष्यत्॥“,
"असत्यमाहुर्जगदेतदज्ञाः शक्तिं हरेर्ये न विदुः परां हि। यः सत्यरूपं जगदेतदीदृक् सृष्ट्वा त्वभूत् सत्यकर्मा महात्मा॥”,
“असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्। अपरस्परसम्भूतं किमन्यत् कामहैतुकम्। एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः। प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥” - भगवद्गीता १६/८-९
इत्यादेश्च।
“अनित्यत्वविकारित्वपारतन्त्र्यादिरूपतः। स्वप्नादिसाम्यं जगतो नतु बोधनिवर्त्यता। सर्वज्ञस्य यतो विष्णोः सर्वदैतत् प्रतीयते। बोधासहं ततो नैतत् किन्त्वाज्ञावशमस्य हि॥”
इति परमोपनिषदि।
“प्रज्ञाविनिर्मितं यस्मादतो मायामयं जगत्। अनेनानुगतं यस्मादनृतं तेन कथ्यते। बोधानिवर्त्यमपि तु नित्यमेव प्रवाहतः। अ इत्युक्तः परो देवस्तेन सत्यमिदं जगत्। तदधीनस्वरूपत्वादसत्यं तेन कथ्यते। सत्यस्य सत्यः स विभुरिन्द्रचापस्य सूर्यवत्॥”
इति च।
“तस्योपनिषत् सत्यस्य सत्यमिति॥प्राणा वै सत्यं तेषामेष सत्यम्॥” - बृहदारण्यकोपनिषत् ४/१/२०
इति च।
“महामायेत्यविद्येति नियतिर्मोहिनीति च। प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते॥”,
“प्रकृतिः प्रकृष्टकरणाद् वासना वासयेद् यतः। अ इत्युक्तो हरिस्तस्य विद्याऽविद्येति सञ्ज्ञिता। मायेत्युक्ता प्रकृष्टत्वात् प्रकृष्टं हि मयाभिधम्॥विष्णोः प्रज्ञप्तिरेवैका शब्दैरेतैरुदीर्यते। प्रज्ञप्तिरूपो हि हरिः सा च स्वानन्दलक्षणा॥”
इति च।
“सर्वे वेदा हरेर्भेदं सर्वस्माज्ज्ञापयन्ति हि। भेदः स्वातन्त्र्यसार्वज्ञसर्वैश्वर्यादिकश्च सः। स्वरूपमेव भेदोऽयं व्यावृत्तिश्च स्वरूपता। सर्वव्यावृत्तये यस्मात् स्वशब्दोऽयं प्रयुज्यते। सर्वव्यावृत्ततामेव नेतिनेत्यादिका श्रुतिः। विष्णोरतो वदेदन्या अपि सर्वा न संशयः॥”
इति नारायणश्रुतिः।
“अहं ब्रह्मास्मि” - बृहदारण्यकोपनिषत् ३/५/४
“तद्योऽहं सोऽसौ योऽसौ सोऽहम्” - ऐतरेयारण्यकम् २/२/४
“योऽसावादित्ये पुरुषः सोऽहमस्मि स एवाहमस्मि” - छान्दोग्योपनिषत् ४/३/२
इत्यादि त्वन्तर्याम्यपेक्षया।
“स यश्चायं पुरुषे यश्चासावादित्ये स एकः” - तैत्तिरीयोपनिषत् २/८
“अ इति ब्रह्म तत्रागतमहमिति” - ऐतरेयारण्यकम् २/३/८
“तस्योपनिषदहमिति” - बृहदारण्यकोपनिषत् ७/७/२
“अहंनामा हरिर्नित्यमहेयत्वात् प्रकीर्तितः। त्वं चासौ प्रतियोगित्वात् परोक्षत्वात् स इत्यपि। सर्वान्तर्यामिणि हरावस्मच्छब्दविभक्तयः। युष्मच्छब्दगताश्चैव सर्वास्तच्छब्दगा अपि। सर्वशब्दगताश्चैव वचनान्यखिलान्यपि। स्वतन्त्रत्वात् प्रवर्तन्ते व्यावृत्तेऽप्यखिलात् सदा। तत्सम्बन्धात् तु जीवेषु तत्सम्बन्धादचित्स्वपि। वर्तन्त उपचारेण तिङ्पदान्यखिलान्यपि। तस्मात् सर्वगतो विष्णुरेको भिच्च ततो बहुः॥”
इति नारायणश्रुतिः।
“सर्वभूतेषु येनैकं भावमव्ययमीक्षते। अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्॥” - भगवद्गीता १८/२०
इति भगवद्वचनम्।
नचासत्यो भेदः।
“सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः” - ऋग्वेदसंहिता ४/१७/५
“सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये” - ऋग्वेदसंहिता ८/३/४
“सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा सत्यं भिदा। मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः”,
“आत्मा हि परमस्वतन्त्रः सर्ववित् सर्वशक्तिः परमसुखः परमो जीवस्तु तद्वशोऽल्पज्ञोऽल्पशक्तिरार्तोऽल्पकः”
इत्यादिश्रुतिभ्यः।
नचावान्तरसत्यत्वमिदम्।
“यो वेद निहितं गुहायां परमे व्योमन्। सोऽश्नुते सर्वान् कामान् सहब्रह्मणा विपश्चिता” - तैत्तिरीयोपनिषत् २/१
“एतमानन्दमयमात्मानमुपसङ्क्रम्य। इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन्। एतत् साम गायन्नास्ते” - तैत्तिरीयोपनिषत् ३/१०
“ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु। ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः॥” - ऋग्वेदसंहिता १०/७१/११
“परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” - छान्दोग्योपनिषत् ८/४/२
“स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा” - छान्दोग्योपनिषत् ८/४/३
“यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत् तत् केन कं जिघ्रेत् तत् केन कं विजानीयात् येनेदं सर्वं विजानाति तं च केन विजानीयाद् विज्ञातारमरे केन विजानीयात्” - बृहदारण्यकोपनिषत् ६/५/१५
“यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति” - काठकोपनिषत् २/१/१५
“तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति” - आथर्वणोपनिषत् ३/१/३
“अमृतस्यैष सेतुः” - आथर्वणोपनिषत् २/२/६
“अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः। आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे॥” - ऋग्वेदसंहिता १०/७१/७
“ईशमाश्रित्य तिष्ठन्ति मुक्ताः संसारसागरात्। यथेष्टभोगभोक्तारो ब्रह्मान्ता उत्तरोत्तरम्॥”
इति मोक्षानन्तरं भेदश्रुतिभ्यः।
“इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥” - भगवद्गीता १४/२
इति भगवद्वचनम्।
“जगद्व्यापारवर्जम्” - ब्रह्मसूत्रम् ४/४/१७
“प्रकरणादसन्निहितत्वाच्च” - ब्रह्मसूत्रम् ४/४/१८
इत्यादि च।
“अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा” - बृहदारण्यकोपनिषत् ६/५/१४
इति तद्धर्माणामप्यनुच्छित्तेः प्रस्तुतत्वात्,
“अत्रैव मा भगवान् मोहान्तमापिपन्न प्रेत्य सञ्ज्ञाऽस्ति” - बृहदारण्यकोपनिषत् ६/५/१४
इति सञ्ज्ञानाशस्य दोषत्वेनोक्तत्वात्,
“यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्” - बृहदारण्यकोपनिषत् ६/५/१५
इति ह्याक्षेप एव।
नहि भोगाभावो
“विज्ञातारमरे केन विजानीयात्” - बृहदारण्यकोपनिषत् ६/५/१५
इति विज्ञातुरविज्ञानं चापेक्षितम्।
“अहमित्येव यो वेद्यः स जीव इति कीर्तितः। स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोः॥”
इति परमश्रुतिः।
“मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्” - भारतम् १२/३०७/८३
इति मोक्षधर्मे।
“नतु तद्द्वितीयमस्ति” - बृहदारण्यकोपनिषत् ६/३/२३-३०
इति च यत् तद् ब्रह्म द्वैतत्वेन न पश्यति तदेव द्वितीयं नेत्याह।
“यत् ततोऽन्यद् विभक्तत्वेनैव पश्येत्”
इति वाक्यशेषात्।
“नहि द्रष्टुदृर्ष्टेर्विपरिलोपो विद्यते” - बृहदारण्यकोपनिषत् ६/३/२३
इति हेतोश्च।
“कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति” - आथर्वणोपनिषत् ३/२/७
इत्यत्राप्येकीभावो मत्यैक्यं क्षीराब्ध्यादिस्थिततद्रूपापेक्षया सानैक्यं वा।
“कामेन मे काम आगाद्धृदयाद्धृदयं मृत्योः। यदमीषामदः प्रियं तदैतूप मामभि॥” - तैत्तिरीयारण्यकम् ३/१५
“ब्रह्ममत्यनुकूला मे मतिर्मुक्तौ भविष्यति। अतः प्रायोऽनुकूलत्वमिदानीमपिसंस्थितम्॥”,
“येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम्” - आथर्वणोपनिषत् ३/१/६
“एतमानन्दमयमात्मानमुपसङ्क्रामति” - तैत्तिरीयोपनिषत् २/८
इत्यादिश्रुतिभ्यः।
स्वरूपैक्याभिप्राये
“कर्माणि विज्ञानमयश्च” - आथर्वणोपनिषत् ३/२/७
इति न युज्यते। नहि तत्पक्षेऽपि कर्मणां ब्रह्मैक्यं मुक्तावस्ति। निवृत्त्यभिप्राये च पञ्चदशकलानामपि समत्वात्,
“गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु” - आथर्वणोपनिषत् ३/२/७
इत्यन्यासां कलानां गमनमुक्त्वा कर्मणां विज्ञानात्मनश्चैकीभावकथनं व्यर्थं स्यात्। विशेषाभावात्। नच ज्ञाननिवृत्तस्य रजतस्य शुक्त्यैकीभावव्यवहारोऽस्ति।
“परेऽव्यये” - आथर्वणोपनिषत् ३/२/७
इत्यधिकरणत्वकथनं च भेदज्ञापकम्। अन्यथा
“पर एव भवन्ति”
इति निर्देशः स्यात्।
“जीवस्य परमैक्यं तु बुद्धिसारूप्यमेव तु। एकस्थाननिवासो वा व्यक्तिस्थानमपेक्ष्य सः। न स्वरूपैकता तस्य मुक्तस्यापि विरूपतः। स्वातन्त्र्यपूर्णतेऽल्पत्वपारतन्त्र्ये विरूपता॥”
इति परमश्रुतिः।
“ब्रह्म वेद ब्रह्मैव भवति” - आथर्वणोपनिषत् ३/२/९
इत्यादि च
“सम्पूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवेत्”
इतिवत्।
बृंहितो भवतीत्यर्थः। नहि ब्राह्मणपूजकः स एव ब्राह्मणो भवति।
“ब्रह्माणि जीवाः सर्वेऽपि परब्रह्माणि मुक्तिगाः। प्रकृतिः परमं ब्रह्म परमं महदच्युतः। तस्मान्न मुक्ता नच सा न क्वचिद् विष्णुवैभवम्। प्राप्नुवन्ति स एवैकः स्वतन्त्रः पूर्णषड्गुणः॥”
इति परमश्रुतिः।
“परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति” - ऋग्वेदसंहिता ७/९९/१
“ब्रह्मेशानादिभिर्देवैर्यत् प्राप्तुं नैव शक्यते। तद्‌ यत्स्वभावः कैवल्यं स भवान् केवलो हरे॥”
इति च।
“यथाऽपियन्ति तेजांसि महातेजसि भास्करे। पृथक्पृथक्स्थितान्यह्नि स्वरूपैरपि सर्वशः। परे ब्रह्मणि जीवाख्यब्रह्माण्यप्यपियन्ति हि। मुक्तौ पृथक्स्थितान्येव तदन्येषामदर्शनम्। अप्ययोऽयं समुद्दिष्टो न स्वरूपैकता क्वचित्॥”
इति नारायणश्रुतिः।
अतः सर्वागमविरुद्धमेव जीवेश्वरैक्यम्।
तथैव सर्वयुक्तिविरुद्धं च।
न तावदेकजीववादो युज्यते।
एकाज्ञानपरिकल्पितत्वे च सर्वस्य सर्वमिदं परिकल्पितमिति जानतः पुनः शिष्यादिबोधनं न युज्यते। नहि स्वप्नोऽयमिति निश्चित्य स्वाप्नपुत्रदायार्थं यतते। स्वप्ने तु स्वाप्नत्वाज्ञानादेव यतते।
नच बहूनां दृश्यमानत्वादस्याज्ञानपरिकल्पितमिदमिति निश्चयो युज्यते। स्वप्ने तु प्रबोधानन्तरमेकस्यावशिष्टत्वान्निश्चयः। नचात्र तथाऽस्ति।
तस्यतस्य तथातथा प्रतिपत्तव्यमित्यङ्गीकारे वस्तुनि विकल्पासम्भवादकल्पितमित्येव स्यात्। नच तथा प्रतिपत्तव्यमित्यत्र प्रमाणमस्ति।
शिष्याज्ञानपरिकल्पितमित्यङ्गीकारे तस्यैवाचार्यभावे स्वयमेव कल्पितो भवतीति सम्यग्ग्रन्थाधिगमस्यैवानर्थहेतुत्वं स्यात्। नच कस्यचिन्मुक्तिः। ग्रन्थाधिगमे तस्यैव शिष्याज्ञानपरिकल्पितत्वप्राप्तेः।
स चैकजीवो यदि भेदवादी भवति तस्य तत्रैव दार्ढ्यान्न कदाचिद् भेदनिवृत्तिरिति न कस्यापि मुक्तिः स्यात्। तेन यथा कल्पितं तथैव भवतीति तेनैकजीववादिनां नित्यनिरयकल्पने स एव स्यात्।
नचैकजीवाज्ञानपरिकल्पितं समस्तमित्यत्र किञ्चिन्मानम्।
“प्रपञ्चो यदि विद्येत निवर्तेत न संशयः। मायामात्रमिदं द्वैतमद्वैतं परमार्थतः॥” - माण्डूकोपनिषत् २/९
इत्यस्य चायमर्थः।
प्रपञ्चो यदि विद्येत भवेत उत्पद्येत, तर्हि निवर्तेत, नच निवर्तते, तस्मादनादिरेवायम्। प्रकृष्टः पञ्चविधो भेदः प्रपञ्चः। नचाविद्यमानोऽयम्, मायामात्रत्वात्। मायेति भगवत्प्रज्ञा, सैव मानत्राणकर्त्री यस्य तन्मायामात्रम्। परमेश्वरेण ज्ञातत्वाद् रक्षितत्वाच्च न द्वैतं भ्रान्तिकल्पितमित्यर्थः। नहीश्वरस्य भ्रान्तिः। तर्हि
“अद्वैतः सर्वभावानाम्”
इति व्यपदेशः कथम्? इत्यत आह- अद्वैतं परमार्थत इति। परमार्थापेक्षया ह्यद्वैतम्। सर्वस्मादुत्तमोऽर्थः स एक एवेत्यर्थः। अन्यथा
“अद्वैतः सर्वभावानाम्”
इति व्यर्थं स्यात्। सर्वभावानां मध्ये तस्यैकस्यैवाद्वैतत्वमित्युक्ते समाधिकराहित्यमेवोक्तं स्यात्। अन्येषां समाधिकभावः।
“विकल्पो विनिवर्तेत कल्पितो यदि केनचित्” - माण्डूकोपनिषत् २/१०
इति वाक्यशेषाच्च न कल्पितत्वमस्येति ज्ञायते। निवर्तत इत्यङ्गीकारे निवर्तेत विद्येतेति च प्रसङ्गरूपेण कथनं यदिशब्दौ च न युज्यन्ते। विद्येतेत्यस्य चोत्पत्त्यर्थानङ्गीकारे यद्यदस्ति तत्तन्निवर्तत इति व्याप्त्यभावान्निवर्तेतेति न युज्यते। अतः प्रपञ्चस्यानादिसत्यत्वपरमिदं वाक्यम्। अत उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यत इत्याह। अज्ञात एव द्वैतं न विद्यते। अज्ञानिनां पक्ष एव द्वैतं न विद्यत इत्यर्थः।
“जीवेश्वरभिदा चैव जडेश्वरभिदा तथा। जीवभेदो मिथश्चैव जडजीवभिदा तथा। मिथश्च जडभेदोऽयं प्रपञ्चो भेदपञ्चकः। सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात्। नच नाशं प्रयात्येष नचासौ भ्रान्तिकल्पितः। कल्पितश्चेन्निवर्तेत नचासौ विनिवर्तते। द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम्। मतं हि ज्ञानिनामेतन्मितं त्रातं च विष्णुना। तस्मात् सत्यमिति प्रोक्तं परमो हरिरेव तु॥”
इति परमश्रुतिः।
मैत्रेयीशाखायां च
“अथ ज्ञानोपसर्गाः” - मैत्रायण्युपनिषत् ७/८
इत्युक्त्वा
“अथ ये चान्ये मिथ्यातर्कैर्दृष्टान्तैः कुहकेन्द्रजालैर्वैदिकेषु परिस्थातुमिच्छन्ति तैः सह न संवसेत् प्राकाश्या ह्येते तस्करा अर्स्वग्याइति ह्याह- ‘नैरात्म्यवादकुहकैर्मिथ्यादृष्टान्तहेतुभिः। भ्राम्यल्ँलोको न जानाति वेदविद्यान्तरं तु यत्॥' इति।” - मैत्रायण्युपनिषत् ७/८
आत्मसम्बन्धि किमपि नास्तीति वादो नैरात्म्यवादः।
भ्रान्तिकल्पितत्वे च जगतः, सत्यं जगद् द्वयमपेक्षितम्। नहि सत्यशुक्तेः, सत्यरजतस्य, तयोः सादृश्यस्य चाभावे भ्रान्तिर्भवति।
स्वप्नेऽपि वासनारूपं सत्यमेव जगन्मनसि स्थितं बहिःष्ठत्वेन दृश्यते। देहात्मनोरप्येकदेशस्थत्वादिसादृश्यमस्त्येव। ‘शङ्खः पीतः’, ‘नभो नीलम्’ इत्यादिष्वपि पीतादयोऽन्यत्र विद्यन्त एव। तत्सादृश्यं च द्रव्यत्वादिकं किञ्चिच्छङ्खादीनां चास्त्येव। अतो न कुत्रापि सदृशसत्यवस्तुद्वयं विना भ्रमः।
नचात्मन्यनात्मभ्रमः क्वापि दृष्टः। नहि कश्चिद् “अहमहं न भवामि” इति भ्रान्तो दृश्यते। आत्मन्यनात्मभ्रम एवायं प्रपञ्च इति तैरुच्यते। तं विनैवानात्मन्यात्मभ्रमकल्पनेऽनात्मनः सत्यत्वं स्यात्। तदा चाद्वितीयत्वकल्पनेऽनात्मैवास्ति, नात्मेति भवति। आत्माज्ञानात्मकत्वे च जगत आत्मनो भिन्नत्वेन न दृश्येत। नहि शुक्तेर्भेदेन रजतं दृश्यते भ्रान्तौ। नचैकमेव युगपद् बहुधा दृश्यते भ्रान्तौ। नचात्मनि भेदभ्रमः क्वापि दृष्टः। नच कुत्रापि मिथ्योपाधिकृतो भेदो दृष्टः।
नच ज्ञानाज्ञानयोरपि मिथ्याकल्पितत्वं दृष्टम्। तद्विषयस्यैवान्यथात्वं भ्रान्तौ।
एवमाद्यनन्तयुक्तिविरुद्धोऽयं पक्षः। ग्रन्थबहुत्वं स्यादित्येवोपरम्यते।
नच सत्यत्वाङ्गीकारे कश्चिद् दोषः।
बहुजीववादिपक्षेऽपि भेदस्य मिथ्यात्वाङ्गीकारे, एते दोषा भवन्त्येव।
मिथ्योपाधिकृतं हि तेषामपि बहुत्वम्। नच मिथ्योपाधिकृतो भेदः क्वापि दृष्टः।
आत्मन्यनात्मकल्पनारूपत्वान्मिथ्योपाधिरेव न युज्यते।
मायामयी सृष्टिरपि तत्सदृशस्यान्यस्य विद्यमानत्व एव दृष्टा। द्रव्यत्वादिसादृश्ययुतं किञ्चिदधिष्ठानमाश्रित्यैव च।
“अधिष्ठानं च सदृशं तथ्यवस्तुद्वयं विना। न भ्रान्तिर्भवति क्वापि स्वप्नमायादिकेष्वपि। मानस्यां वासनायां तु बहिर्वस्तुत्वकल्पनम्। स्वाप्नो भ्रमश्च मायायां कर्तृदेहादिवस्तुषु। चतुरङ्गबलत्वादिकल्पनं भ्रम इष्यते। न भ्रान्तिकल्पितं विश्वमतो विष्णुबलाश्रयम्॥”
इति ब्रह्मवैवर्ते।
“नच मायाविना माया दृश्यते विश्वमीश्वरः। सदा पश्यति तेनेदं न मायेत्यवधार्यताम् ॥”
इति च।
“अपरोक्षदृशो मिथ्या-दर्शनं न क्वचिद् भवेत्। सर्वापरोक्षविद् विष्णुर्विश्वदृक् तन्न तन्मृषा ॥”
इति च।
यदिचैकमेव ब्रह्मोपाधिभेदात् संसरति मुच्यते च, तदा संसारिणां सर्वदा विद्यमानत्वात् सर्वदा संसार्येव ब्रह्म, अतस्तद्भावोऽपि न मुक्तिः। सर्वदोपाधिसम्बद्धत्वात् तस्य।
नच शुद्धस्य नोपाधिसम्बन्ध इति वाच्यम्। उपाधिसम्बद्धस्योपाधिसम्बन्धकल्पनेऽनवस्थाप्रसङ्गात्। नच तेनैव सम्बन्धेन सम्बद्धस्य। आत्माश्रयप्रसङ्गात्।
इतश्च मिथ्योपाधिर्न युज्यते। अज्ञानसिद्धौ मिथ्योपाधिसिद्धिः, अज्ञानं विना मिथ्यात्वासिद्धेः। नच मिथ्योपाधिं विनाऽज्ञानसिद्धिः, मिथ्योपाधिभिन्नस्यैवाज्ञत्वात्।
शुद्धस्यैवाज्ञत्वे मुक्तस्याप्यज्ञत्वप्रसक्तेः।
स्वाभाविकत्वात् सत्यत्वात् सद्वितीयत्वप्रसक्तेश्च।
स्वाभाविकस्य चानिवृत्त्यङ्गीकारादनिवृत्तिप्रसक्तेश्च। सत्यस्य चानिवृत्तिरिति हि तत्पक्षः।
अतश्चान्योन्याश्रयता। अज्ञानसिद्धौ मिथ्योपाधिसिद्धिः, मिथ्योपाधिसिद्धौ जीवसिद्धिः, जीवसिद्धौ तदाश्रयाज्ञानसिद्धिः – इति चक्रकं वा।
नच शुद्धमेव भ्रान्त्याऽज्ञमिति युक्तम्। अज्ञानसिद्धौ भ्रमसिद्धिः, तत्सिद्धावज्ञानसिद्धिः – इत्यन्योन्याश्रयत्वात्।
“अनागता अतीताश्च यावन्तः सहिताः क्षणाः। अतीतानागताश्चैव यावन्तः परमाणवः। ततोऽप्यनन्तगुणिता जीवानां राशयः पृथक्॥”
इति वत्सश्रुतेर्न संसारिणां परिसमाप्तिरस्मत्पक्षे।
“परमाणुप्रदेशेऽपि ह्यनन्ताः प्राणिराशयः। सूक्ष्मत्वादीशशक्त्यैव स्थूला अपि हि संस्थिताः। सहस्रयोजनसभां प्रभावाद् विश्वकर्मणः। अनन्ता राशयोऽनन्ताः प्रजानामधिसंस्थिताः॥”
इति स्कान्दे।
नच मिथ्यावस्तुनो दुर्घटत्वमेव भूषणम्।
दृष्टस्य वस्तुनो मिथ्यात्वकल्पनस्य दृष्टिसकाशाद् बलवत्प्रमाणयुक्त्यपेक्षत्वात्। तदभावे सत्यत्वं दृष्ट्यैव सिद्ध्यति। नह्यन्नादिकं भोग्यं दृष्ट्वा भोक्तुं सत्यत्वे प्रमाणान्तरमपेक्षते। किन्तु? नेदमन्नमिति केनचिदुक्ते कथमिदमन्नत्वेन दृश्यमानमन्नं न भवतीति प्रमाणान्तरमपेक्षते।
नच प्रत्यक्षदृष्टस्य ततो बलवत्प्रत्यक्षमागमं विनाऽनुमानादिनैव बाधो दृष्टः। दूरस्थवृक्षह्रस्वत्वादौ प्रत्यक्षापटुत्वस्य निश्चितत्वाद् युक्त्या तत्र दीर्घत्वनिश्चयः। प्रत्यक्षस्य हि दूरे मन्दग्राहित्वं परिमाणादावन्यथात्वं च ततो बलवत्प्रत्यक्षेणैव निश्चितम्। नच जगत्प्रत्यक्षस्य मिथ्यात्वं केनापि प्रमाणेन निश्चितम्। विशेषतश्च ज्ञानाज्ञानसुखदुःखात्मभेदादिविषयस्यानुभवस्य न मिथ्यात्वं दृष्टम्।
अतश्च संसारस्य सत्यत्वात् सत्यस्य चानिवृत्त्यङ्गीकारान्न मोक्षः स्यात्।
अनुभवसिद्धस्य बलवदनुभवं विना युक्तित एव मिथ्यात्वाङ्गीकारे, आत्मनोऽपि मिथ्यात्वं स्यात्। युक्तिश्च – सर्वस्यान्यस्य मिथ्यात्वाङ्गीकारात्, द्विधा कल्पने कल्पनागौरवमिति।
आत्माधिष्ठानभ्रमस्यैवादृष्टेस्तस्याधिष्ठानत्वमपि न युज्यते।
दुर्घटत्वस्य भूषणत्वे दुर्घटमप्यात्ममिथ्यात्वं स्यादेव। प्रतीतेरप्यविद्याकार्यत्वाङ्गीकारात्, तस्याश्च दुर्घटत्वस्य भूषणत्वात्, सत्यस्य च युक्त्यपेक्षत्वात्, घटादीनां द्रष्टृत्वम्, आत्मनश्च जडत्वम्, द्रष्टुरभावे च प्रतीतिः, अधिष्ठानं विनैव भ्रम इत्यादि विरुद्धं सर्वमपि स्यात्।
उपाधिभेदाङ्गीकारे हस्तपादाद्युपाधिभेदेऽपि तद्गतसुखदुःखादिभोक्तुर्यथा भेदो न प्रतीयते, एवमेव शरीरादिभेदे भोक्तुर्भेदो न दृश्येत। सर्वदेहगतसुखदुःखादिकमेकेनैव भुज्येत।
यथाचैकाङ्गुल्याद्यपगमेऽपि न मुक्तिः, एवमेकोपाध्यपगमेऽपि तस्यैवानन्तोपाधिसम्बद्धत्वान्न मुक्तिः स्यात्।
“उद्यतायुधदोर्दण्डाः पतितस्वशिरोक्षिभिः। पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन्युधि॥”
इति भारतवचनान्न विश्लेषाद् विशेषः।
किञ्चोपाधिरात्मन एकदेशं ग्रसति, उत सर्वमात्मानम्? एकदेशाङ्गीकारे सावयवत्वम्। सावयवस्य चानित्यत्वं तैरङ्गीकृतम्। सर्वग्रासे च नोपाधिर्भेदकः स्यात्। उपाधिकृतांशकल्पने तदुपाधिकृतत्वे, आत्माश्रयत्वम्। उपाध्यन्तरकल्पने, अनवस्था।
नचेश्वरस्य सर्वगतत्वादौपाधिकभेदो ब्रह्मणा भवति। नहि देशतः कालतश्चापरिच्छिन्नयोरौपाधिकभेदो दृष्टः।
सर्वोपाधिगतत्वाच्चैकस्यैवेश्वरस्य, भेदस्य मिथ्यात्वात्, हस्तपादादिभेदेऽपि भोक्तुरेकत्ववत् सर्वसुखदुःखादिभोक्तृत्वमीश्वरस्यैव स्यात्।
देशतः कालतश्चापरिच्छिन्नयोरौपचारिकभेदाभावादेव दुःखिनोऽन्यच्छुद्धं ब्रह्म न सिद्ध्यति। अतः स्वाभाविकः संसार इत्यनिवृत्तिरेव स्यात्।
किञ्च। विशिष्टस्य शुद्धस्य वा संसारः? शुद्धस्य संसार इत्युक्ते स्वव्याहतिः। विशिष्टस्येत्युक्ते विशिष्टोऽन्यः, स एव वा? स एव चेत्, उक्तो दोषः। अन्यश्चेत्, नित्योऽनित्यो वा? अनित्यश्चेत्, नाश एव तस्य न मोक्षः। नित्यत्वे च, भेदस्य सत्यत्वम्, मोक्षेऽपि तस्य भावात्। स्वरूपमात्रस्याभेद उपाधिभिन्न एवेत्यङ्गीकारे स्वरूपमेवोपाधिसम्बद्धमिति न तस्य शुद्धत्वम्। अशुद्धस्वभावस्य न कदाचिच्छुद्धत्वमिति च तत्पक्षः।
उपाधिमिथ्यात्वाङ्गीकारे चान्योन्याश्रयत्वादिदोषा उक्ताः।
नचानादिकर्मभेदाद् भेदः। औपाधिकभेदसिद्धौ कर्मभेदसिद्धिः, तत्सिद्धौ च तत्सिद्धिरित्यन्योन्याश्रयत्वात्।
अतोऽनन्तदोषदुष्टत्वाद् ग्रन्थबहुत्वं स्यादित्येवोपरम्यते।
अतः सर्वप्रमाणविरुद्धत्वान्नाभेदे श्रुतितात्पर्यम्।
सर्वशब्दावाच्यस्य लक्षणाऽपि न दृष्टेति न तस्य शास्त्रगम्यत्वम्।
अतोऽवाच्यत्वादज्ञेयत्वाच्छून्यमेव तदिति प्राप्तम्।
नच स्वेनापि ज्ञेयत्वं तैरुच्यते। कर्तृकर्मविरोध इति हि ते वदन्ति।
नच स्वरूपमन्यद् वा ज्ञेयं ज्ञातारं च विना ज्ञानं दृष्टम्। अतो ज्ञातृज्ञेयाभावाज्ज्ञानस्यापि शून्यतैव। अतः शून्यवादान्न कश्चिद् विशेषः। नच ज्ञातृज्ञेयरहितं ज्ञानं क्वापि दृष्टम्।
अप्राप्तत्वाच्चेश्वरभेदस्य नाभेदे श्रुतितात्पर्यं युज्यते।
“सर्वोत्तमं सर्वदोषव्यपेतं गुणैरशेषैः पूर्णमन्यं समस्तात्। वैलक्षण्याज्ज्ञापयितुं प्रवृत्ताः सर्वे वेदा मुख्यतो नैव चान्यत्॥”
इति महोपनिषदि।
अतः सदागमैरेव सर्वस्माद् भिन्नत्वेन सर्वस्माद् विशिष्टत्वेन च ज्ञेयो भगवान् नारायण इति सिद्धम्।
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचितश्रीमद्विष्णुतत्त्वनिर्णये प्रथमः परिच्छेदः॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.