Second Section (द्वितीयः परिच्छेदः)
ॐ॥
“ब्रह्मा शिवः सुराद्याश्च शरीरक्षरणात् क्षराः। लक्ष्मीरक्षरदेहत्वादक्षरा तत्परो हरिः। स्वातन्त्र्यशक्तिविज्ञानसुखाद्यैरखिलैर्गुणैः। निस्सीमत्वेन ते सर्वे तद्वशाः सर्वदैव च। सर्गस्थितिक्षययतिप्रकाशावृतिबन्धनम्। सर्वक्षराणामेकः स कुर्यात् सात्त्विकमोक्षणम्। सर्गस्थितियतिज्योतिर्नित्यानन्दप्रदोऽक्षरे। चेष्टाप्रदश्च सर्वेषामेक एव परो हरिः। तस्य नान्योऽस्ति सर्गादिकर्ता निर्दोषकश्च सः॥”
इति परमश्रुतिः।
“ब्रह्मशेषसुपर्णेशशक्रसूर्यगुहादयः। सर्वे क्षरा अक्षरा तु श्रीरेका तत्परो हरिः॥”
इति स्कान्दे।
“यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषि तं सुमेधाम्। अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ। अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश। अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे॥” - ऋग्वेदसंहिता १०/१२५/५-७
“यमन्तःसमुद्रे कवयोऽवयन्तितदक्षरे परमे प्रजाः। यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम्। यदोषधीभिः पुरुषान् पशूंश्च विवेश भूतानि चराचराणि। अतः परं नान्यदणीयसं हि परात् परं यन्महतो महान्तम्। यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात्। तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्॥” - महानारायणोपनिषत् १/३-६
“अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः। विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्॥”,ऋग्वेदसंहिता ७/४०/५“चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत। मुखादिन्द्रश्चाग्निश्च प्राणाद् वायुरजायत॥” - ऋग्वेदसंहिता १०/९०/१३
“एको नारायण आसीन्न ब्रह्मा नेशानो नाग्नीषोमौ नेमे द्यावापृथिवी” - महोपनिषत् १
“एको नारायण आसीन्न ब्रह्मा न च शङ्करः। स मुनिर्भूत्वा समचिन्तयत् तत एते व्यजायन्त। विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्रा इति॥”,
“वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः। नेन्द्रसूर्यौ नच गुहो न सोमो न विनायकः॥’
इत्यादिश्रुतिभ्यश्च।
“यस्मात् परं नापरमस्ति किञ्चित्” - श्वेताश्वतरोपनिषत् ३/९
इत्यत्राप्यपरमस्तीत्येवार्थः। अन्यथा
“तेनेदं पूर्णम्” - श्वेताश्वतरोपनिषत् ३/९
“ततो यदुत्तरतरं तदरूपमनामयम्” - श्वेताश्वतरोपनिषत् ३/१०
इति वाक्यशेषविरोधात्।
“तेनेदम्” - श्वेताश्वतरोपनिषत् ३/९
इत्युक्तमेव
“ततः” - श्वेताश्वतरोपनिषत् ३/१०
इति परामृश्यते। अन्यथा
“यस्मात् परं न” - श्वेताश्वतरोपनिषत् ३/९
इत्युक्तिविरोधात्।
“नामानि सर्वाणि यमाविशन्ति तं वै विष्णु परममुदाहरन्ति”,
“अस्यैव सर्वनामानि व्यतिरिक्तस्य सर्वतः। यः स्वतन्त्रः सदैवैकः स विष्णुः परमो मतः॥”
इत्यादिश्रुतिभ्योऽन्यनामान्यस्यैवेति नान्येषां सर्वेश्वरत्वादिकमुच्यते। सर्ववेदेष्वप्यस्यादोषवचनादादावभावावचनाच्च तद्वचनाच्चान्येषां सर्वेषां वेदेषु सर्वेषु। तेषां सर्वनामत्वानुक्तेश्च।
“उत्पत्तिर्वासुदेवस्य प्रादुर्भावो नचापरः। देहोत्पत्तिस्तदन्येषां ब्रह्मादीनां तदीरणात्। देहोऽनादिर्हरेर्नित्योब्रह्मादीनामनित्यका। मुख्योत्पत्तिस्तदन्येषां प्रादुर्भावो हरेर्जनिः॥”
इति परमश्रुतेश्च।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्विष्णुतत्त्वनिर्णये द्वितीयः परिच्छेदः समाप्तः ॥