Shrī Harivāyustutiḥ
Preface
॥श्री हरिवायुस्तुतिः॥
॥अथ श्री नखस्तुतिः॥
पान्त्वस्मान् पुरुहूतवैरि बलवन्मातङ्ग माद्यद्घटा। कुंभोच्चाद्रि विपाटनाधिकपटु प्रत्येक वज्रायिताः। श्रीमत्कंठीरवास्य प्रतत सुनखरा दारितारातिदूर। प्रद्ध्वस्तध्वांत शांत प्रवितत मनसा भावितानाकिवृंदैः॥१॥
लक्ष्मीकांत समंततोऽपिकलयन् नैवेशितुस्ते समम्। पश्याम्युत्तम वस्तु दूरतरतोपास्तं रसोयोऽष्टमः। यद्रोशोत्कर दक्ष नेत्र कुटिल प्रांतोत्थिताग्नि स्फुरत्। खद्योतोपम विस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः॥२॥
॥अथ श्री हरिवायुस्तुतिः॥
श्रीमद्विष्ण्वंघ्रि निष्ठा अतिगुणगुरुतम श्रीमदानंदतीर्थ। त्रैलोक्याचार्य पादोज्ज्वल जलजलसत् पांसवोऽस्मान्पुनंतु। वाचांयत्रप्रणेत्रीत्रिभुवनमहिता शारदा शारदेंदुः। ज्योत्स्नाभद्रस्मित श्रीधवळितककुभाप्रेमभारंबभार॥१॥
उत्कंठाकुंठकोलाहलजवविदिताजस्रसेवानुवृद्ध। प्राज्ञात्मज्ञान धूतांधतमससुमनो मौलिरत्नावळीनाम्। भक्त्युद्रेकावगाढ प्रघटनसघटात्कार संघृष्यमाण। प्रांतप्राग्र्यांघ्रि पीठोत्थित कनकरजः पिंजरारंजिताशाः॥२॥
जन्माधिव्याध्युपाधिप्रतिहतिविरहप्रापकाणां गुणानाम्। अग्र्याणां अर्पकाणां चिरमुदितचिदानंद संदोहदानाम्। एतेषामेशदोष प्रमुषितमनसां द्वेषिणां दूषकाणाम्। दैत्यानामार्थिमंधे तमसि विदधतां संस्तवेनास्मि शक्तः॥३॥
अस्याविष्कर्तुकामं कलिमलकलुषेऽस्मिन्जनेज्ञानमार्गम्। वन्द्यं चन्द्रेन्द्ररुद्र द्युमणिफणिवयोः नायकद्यैरिहाद्य। मध्वाख्यं मंत्रसिद्धं किमुतकृतवतो मारुतस्यावतारम्। पातारं पारमेष्ट्यं पदमपविपदः प्राप्तुरापन्न पुंसाम्॥४॥
उद्यद्विद्युत्प्रचंडां निजरुचि निकरव्याप्त लोकावकाशो। बिभ्रद्भीमो भुजेयोऽभ्युदित दिनकराभाङ्गदाढ्य प्रकाण्डे। वीर्योद्धार्यां गदाग्र्यामयमिह सुमतिंवायुदेवोविदध्यात्। अध्यात्मज्ञाननेता यतिवरमहितो भूमिभूषामर्णिमे॥५॥
संसारोत्तापनित्योपशमद सदय स्नेहहासांबुपूर। प्रोद्यद्विद्यावनद्य द्युतिमणिकिरण श्रेणिसंपूरिताशः। श्रीवत्सांकाधि वासोचित तरसरलश्रीमदानंदतीर्थ। क्षीरांभोधिर्विभिन्द्याद्भवदनभिमतंभूरिमेभूति हेतुः॥६॥
मूधर्न्येषोऽन्जलिमेर् दृढतरमिहते बध्यते बंधपाश। क्षेत्रेधात्रे सुखानां भजति भुवि भविष्यद्विधात्रे द्युभत्रेर्। अत्यंतं संततं त्वं प्रदिश पदयुगे हन्त संताप भाजाम्। अस्माकं भक्तिमेकां भगवत उतते माधवस्याथ वायोः॥७॥
साभ्रोष्णाभीशु शुभ्रप्रभमभयनभो भूरिभूभृद्विभूतिः। भ्राजिष्णुभूर्ऋर्भूणां भवनमपि विभोऽभेदिबभ्रेबभूवे। येनभ्रोविभ्रमस्ते भ्रमयतुसुभृशं बभ्रुवद्दुभृर्ताशान्। भ्रान्तिभेर्दाव भासस्त्वितिभयमभि भोभूर्क्ष्यतोमायिभिक्षून्॥८॥
येऽमुंभावंभजंते सुरमुखसुजनाराधितं ते तृतीयम्। भासंते भासुरैस्ते सहचरचलितैश्चामरैश्चारुवेशाः। वैकुण्ठे कण्ठलग्न स्थिरशुचि विलसत्कांति तारुण्यलीला। लावण्या पूर्णकांता कुचभरसुलभाश्लेषसम्मोदसांद्राः॥९॥
आनंदान्मंदमंदा ददति हि मरुतः कुंदमंदारनंद्यावतार्। ऽमोदान् दधानां मृदुपद मुदितोद्गीतकैः सुंदरीणाम्। वृंदैरावंद्य मुक्तेन्द्वहिमगु मदनाहींद्र देवेन्द्रसेव्ये। मौकुंदे मन्दरेऽस्मिन्नविरतमुदयन्मोदिनां देव देव॥१०॥
उत्तप्तात्युत्कटत्विट् प्रकटकटकट ध्वानसङ्घट्टनोद्यद्। विद्युद्व्यूढस्फुलिङ्ग प्रकर विकिरणोत्क्वाथिते बाधिताङ्गान्। उद्गाढंपात्यमाना तमसि तत इतः किंकरैः पंकिलेते। पंक्तिग्रार्व्णां गरिम्णां ग्लपयति हि भवद्वेषिणो विद्वदाद्य॥११॥
अस्मिन्नस्मद्गुरूणां हरिचरण चिरध्यान सन्मङ्गलानाम्। युष्माकं पाष्वर्भूमिं धृतरणरणिकः स्वगिर्सेव्यांप्रपन्नः। यस्तूदास्ते स आस्तेऽधिभवमसुलभ क्लेश निमूर्कमस्त। प्रायानंदं कथं चिन्नवसति सततं पंचकष्टेऽतिकष्टे॥१२॥
क्षुत् क्षामान् रूक्षरक्षो रदखरनखर क्षुण्णविक्षोभिताक्षान्। आमग्नानांधकूपे क्षुरमुखमुखरैः पक्षिभिविर्क्षताङ्गान्। पूयासृन्मूत्र विष्ठा क्रिमिकुलकलिलेतत्क्षणक्षिप्त शक्त्याद्यस्त्र। व्रातादिर्तान् स्त्वद्विष उपजिहते वज्रकल्पा जलूकाः॥१३॥
मातमेर्मातरिश्वन् पितरतुलगुरो भ्रातरिष्टाप्तबंधो। स्वामिन्सवार्न्तरात्मन्नजरजरयितः जन्ममृत्यामयानाम्। गोविंदे देहिभक्तिं भवतिच भगवन्नूजिर्तां निनिर्मित्ताम्। निव्यार्जां निश्चलां सद्गुणगण बृहतीं शाश्वतीमाशुदेव॥१४॥
विष्णोरत्त्युत्तमत्वादखिलगुणगणैस्तत्र भक्तिंगरिष्ठाम्। संश्लिष्टे श्रीधराभ्याममुमथ परिवारात्मना सेवकेषु। यः संधत्ते विरिंचि श्वसन विहगपानंत रुद्रेन्द्र पूवेर्। ष्वाध्यायंस्तारतम्यं स्फुटमवति सदा वायुरस्मद्गुरुस्तम्॥१५॥
तत्त्वज्ञान् मुक्तिभाजः सुखयिसि हि गुरो योग्यतातारतम्यात्। आधत्से मिश्रबुद्धिं स्त्रिदिवनिरयभूगोचरान्नित्यबद्धान्। तामिस्रांधादिकाख्ये तमसिसुबहुलं दुःखयस्यन्यथाज्ञान्। विष्णोराज्ञाभिरित्थं शृति शतमितिहासादि चाकणर्यामः॥१६॥
वंदेऽहं तं हनूमानिति महितमहापौरुषो बाहुशालि। ख्यातस्तेऽग्र्योऽवतारः सहित इह बहुब्रह्मचयार्दि धर्मैः। सस्नेहानां सहस्वानहरहरहितं निर्दहन् देहभाजाम्। अंहोमोहापहो यः स्पृहयति महतीं भक्तिमद्यापि रामे॥१७॥
प्राक्पंचाशत्सहस्रैव्यर्वहितमहितं योजनैः पवर्तं त्वम्। यावत्संजीवनाद्यौषध निधिमधिकप्राणलंकामनैषिः। अद्राक्षीदुत्पतंतं तत उत गिरिमुत्पाटयंतं गृहीत्वा। यांतं खे राघवांघ्रौ प्रणतमपि तदैकक्षणे त्वांहिलोकः॥१८॥
क्षिप्तः पश्चात्सत्सलीलं शतमतुलमते योजनानां स। उच्चस्तावद्विस्तार वंश्च्यापि उपललवैव व्यग्रबुद्ध्या त्वयातः। स्वस्वस्थानस्थिताति स्थिरशकल शिलाजाल संश्लेष नष्ट। छेदांकः प्रागिवाभूत् कपिवरवपुषस्ते नमः कौशलाय॥१९॥
दृष्ट्वा दृष्टाधिपोरः स्फुटितकनक सद्वमर् घृष्टास्थिकूटम्। निष्पिष्टं हाटकाद्रि प्रकट तट तटाकाति शङ्को जनोऽभूत्। येनाजौ रावणारिप्रियनटनपटुमुर्ष्टिरिष्टं प्रदेष्टुम्। किंनेष्टे मे स तेऽष्टापदकट कतटित्कोटि भामृष्ट काष्ठः॥२०॥
देव्यादेश प्रणीति दृहिण हरवरावद्य रक्षो विघाता। ऽद्यासेवोद्यद्दयाद्रर्ः सहभुजमकरोद्रामनामा मुकुंदः। दुष्प्रापे पारमेष्ठ्ये करतलमतुलं मूधिर्विन्यस्य धन्यम्। तन्वन्भूयः प्रभूत प्रणय विकसिताब्जेक्षणस्त्वेक्षमाणः॥२१॥
जघ्नेनिघ्नेनविघ्नो बहुलबलबकध्वंस नाद्येनशोचत्। विप्रानुक्रोश पाशैरसु विधृति सुखस्यैकचक्राजनानाम्। तस्मैतेदेव कुमर्ः कुरुकुलपतये कमर्णाचप्रणामान्। किमीर्रं दुमर्तीनां प्रथमं अथ च यो नमर्णा निमर्माथ॥२२॥
निमृर्द्नन्नत्य यत्नं विजरवर जरासंध कायास्थिसन्धीन्। युद्धे त्वं स्वध्वरे वापशुमिवदमयन् विष्णु पक्षद्विडीशम्। यावत्प्रत्यक्ष भूतं निखिलमखभुजं तपर्यामासिथासौ। तावत्यायोजि तृप्त्याकिमुवद भघवन् राजसूयाश्वमेधे॥२३॥
क्ष्वेलाक्षीणाट्टहासहं तवरणमरिहन्नुद्गदोद्दामबाहोः। बह्वक्षौहिण्य नीकक्षपण सुनिपुणं यस्य सवोर्त्तमस्य। शुष्रूशाथर्ं चकथर् स्वयमयमथ संवक्तुमानंदतीथर्। श्रीमन्नामन्समथर्स्त्वमपि हि युवयोः पादपद्मं प्रपद्ये॥२४॥
दृह्यंतींहृदृहं मां दृतमनिल बलाद्रावयंतीमविद्या। निद्रांविद्राव्य सद्यो रचनपटुमथापाद्यविद्यासमुद्र। वाग्देवी सा सुविद्या द्रविणद विदिता द्रौपदी रुद्रपत्न्यात्। उद्रिक्ताद्रागभद्रा द्रहयतु दयिता पूवर्भीमाज्ञयाते॥२५॥
याभ्यां शुश्रूषुरासीः कुरुकुल जनने क्षत्रविप्रोदिताभ्याम्। ब्रह्मभ्यां बृंहिताभ्यां चितसुख वपुषा कृष्णनामास्पदाभ्याम्। निभेर्दाभ्यां विशेषाद्विवचन विशयाभ्यामुभाभ्याममूभ्याम्। तुभ्यं च क्षेमदेभ्यः सरिसिजविलसल्लोचनेभ्यो नमोऽस्तु॥२६॥
गच्छन् सौगंधिकाथर्ं पथि स हनुमतः पुच्छमच्छस्य। भीमः प्रोद्धतुर्ं नाशकत्स त्वमुमुरुवपुषा भीषयामास चेति। पूर्णज्ञानौजसोस्ते गुरुतमवपुषोः श्रीमदानंदतीथर्। क्रीडामात्रं तदेतत् प्रमदद सुधियां मोहक द्वेषभाजाम्॥२७॥
बह्वीः कोटीरटीकः कुटलकटुमतीनुत्कटाटोप कोपान्। द्राक्चत्वं सत्वरत्वाच्चरणद गदया पोथयामासिथारीन्। उन्मथ्या तत्थ्य मिथ्यात्व वचन वचनान् उत्पथस्थांस्तथाऽयान्। प्रायच्छः स्वप्रियायै प्रियतम कुसुमं प्राण तस्मै नमस्ते॥२८॥
देहादुत्क्रामितानामधिपति रसतामक्रमाद्वक्रबुद्धिः। क्रुद्धः क्रोधैकवश्यः क्रिमिरिव मणिमान् दुष्कृती निष्क्रियाथर्म्। चक्रे भूचक्रमेत्य क्रकचमिव सतां चेतसः कष्टशास्त्रं। दुस्तकर्ं चक्रपाणेगुर्णगण विरहं जीवतां चाधिकृत्य॥२९॥
तद्दुत्प्रेक्षानुसारात्कतिपय कुनरैरादृतोऽन्यैविर्सृष्टो। ब्रह्माहं निगुर्णोऽहं वितथमिदमिति ह्येषपाशंडवादः। तद्युक्त्याभास जाल प्रसर विषतरूद्दाहदक्षप्रमाण। ज्वालामालाधरोऽग्निः पवन विजयते तेऽवतारस्तृतीयः॥३०॥
आक्रोशंतोनिराशा भयभर विवशस्वाशयाच्छिन्नदपार्। वाशंतो देशनाशस्विति बत कुधियां नाशमाशादशाऽशु। धावंतोऽश्लीलशीला वितथ शपथ शापा शिवाः शांत शौयार्ः। त्वद्व्याख्या सिंहनादे सपदि ददृशिरे मायि गोमायवस्ते॥३१॥
त्रिष्वप्येवावतारेष्वरिभिरपघृणं हिंसितोनिविर्कारः। सवर्ज्ञः सवर्शक्तिः सकलगुणगणापूर्ण रूपप्रगल्भः। स्वच्छः स्वच्छंद मृत्युः सुखयसि सुजनं देवकिं चित्रमत्र। त्राता यस्य त्रिधामा जगदुतवशगं किंकराः शंकराद्याः॥३२॥
उद्यन्मंदस्मित श्रीमृर्दु मधुमधुरालाप पीयूषधारा। पूरासेकोपशांता सुखसुजन मनोलोचना पीयमानं। संद्रक्ष्येसुंदरं संदुहदिह महदानंदं आनंदतीथर्। श्रीमद्वक्तेंद्रु बिंबं दुरतनुदुदितं नित्यदाहं कदानु॥३३॥
प्राचीनाचीणर् पुण्योच्चय चतुरतराचारतश्चारुचित्तान्। अत्युच्चां रोचयंतीं शृतिचित वचनांश्राव कांश्चोद्यचुंचून्। व्याख्यामुत्खात दुःखां चिरमुचित महाचायर् चिंतारतांस्ते। चित्रां सच्छास्त्रकतार्श्चरण परिचरां छ्रावयास्मांश्चकिंचित्॥३४॥
पीठेरत्नोकपक्लृप्ते रुचिररुचिमणि ज्योतिषा सन्निषण्णम्। ब्रह्माणं भाविनं त्वां ज्वलति निजपदे वैदिकाद्या हि विद्याः। सेवंते मूतिर्मत्यः सुचरितचरितं भाति गंधवर् गीतं। प्रत्येकं देवसंसत्स्वपि तव भघवन्नतिर्तद्द्योवधूषु॥३५॥
सानुक्रोषैरजस्रं जनिमृति निरयाद्यूमिर्मालाविलेऽस्मिन्। संसाराब्धौनिमग्नांशरणमशरणानिच्छतो वीक्ष्यजंतून्। युष्माभिः प्राथिर्तः सन् जलनिधिशयनः सत्यवत्यां महषेर्ः। व्यक्तश्चिन्मात्र मूतिर्नखलु भगवतः प्राकृतो जातु देहः॥३६॥
अस्तव्यस्तं समस्तशृति गतमधमैः रत्नपूगं यथांधैः। अथर्ं लोकोपकृत्यैः गुणगणनिलयः सूत्रयामास कृत्स्नम्। योऽसौ व्यासाभिधानस्तमहमहरहः भक्तितस्त्वत्प्रसादात्। सद्यो विद्योपलब्ध्यै गुरुतममगुरुं देवदेवं नमामि॥३७॥
आज्ञामन्यैरधायार्ं शिरसि परिसरद्रश्मि कोटीरकोटौ। कृष्णस्याक्लिष्ट कर्मादधदनु सराणादथिर्तो देवसङ्घैः। भूमावागत्य भूमन्नसुकरमकरोब्रर्ह्मसूत्रस्य भाष्यम्। दुभार्ष्यं व्यास्यदस्योमर्णिमत उदितं वेदसद्युक्तिभिस्त्वम्॥३८॥
भूत्वाक्षेत्रे विशुद्धे द्विजगणनिलये रौप्यपीठाभिधाने। तत्रापि ब्रह्मजातिस्त्रिभुवन विशदे मध्यगेहाख्य गेहे। पारिव्राज्याधि राजः पुनरपि बदरीं प्राप्य कृष्णं च नत्वा। कृत्वा भाष्याणि सम्यक् व्यतनुत च भवान् भरताथर्प्रकाशम्॥३९॥
वंदे तं त्वां सुपूर्ण प्रमतिमनुदिना सेवितं देववृन्दैः। वंदे वंदारुमीशे श्रिय उत नियतं श्रीमदानंदतीथर्म्। वंदे मंदाकिनी सत्सरिदमल जलासेक साधिक्य सङ्गम्। वंदेऽहं देव भक्त्या भव भय दहनं सज्जनान्मोदयंतम्॥४०॥
सुब्रह्मण्याख्य सूरेः सुत इति सुभृशं केशवानंदतीथर्। श्रीमत्पादाब्ज भक्तः स्तुतिमकृत हरेवार्युदेवस्य चास्य। त्वत्पादाचार्दरेण ग्रथित पदल सन्मालया त्वेतयाये। संराध्यामूनमंति प्रततमतिगुणा मुक्तिमेते व्रजंति॥४१॥
इति श्री त्रिविक्रमपण्डिताचायर् विरचितं श्री हरिवायुस्तुतिः संपूर्णम्
॥अथ श्री नखस्तुतिः॥
पान्त्वस्मान् पुरुहूतवैरि बलवन्मातङ्ग माद्यद्घटा। कुंभोच्चाद्रि विपाटनाधिकपटु प्रत्येक वज्रायिताः। श्रीमत्कंठीरवास्य प्रतत सुनखरा दारितारातिदूर। प्रद्ध्वस्तध्वांत शांत प्रवितत मनसा भावितानाकिवृंदैः॥१॥
लक्ष्मीकांत समंततोऽपिकलयन् नैवेशितुस्ते समम्। पश्याम्युत्तम वस्तु दूरतरतोपास्तं रसोयोऽष्टमः। यद्रोशोत्कर दक्ष नेत्र कुटिलः प्रांतोत्थिताग्नि स्फुरत्। खद्योतोपम विस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः॥२॥
इति श्रीमदानंदतीथर्भगवत्पादाचायर्विरचितं श्रीनृसिंहनखस्तुतिः संपुर्णम्॥
भारतीरमणमुख्यप्राणांतर्गत श्रीकृष्णापर्णमस्तु॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.