Chapter Three (तृतीयोध्यायः)
प्रतिष्ठां कारयन् विष्णोः कुर्यात् सुप्रतिमां बुधः। लोहैर्वा शिलया दार्वा मृदा वापि यथाक्रमम् ॥१॥
~~~
षण्णवत्यङ्गुलां योग आसीनामथवा स्थिताम्। शयानां वा मुमुक्षूणां व्याचक्षाणां निजां स्थितिम् ॥२॥
~~~
मुखादूर्ध्वं द्व्यङ्गुलोच्चां नवाङ्गुललसन्मुखाम्। सुवृत्तत्र्यङ्गुलग्रीवामा स्तनाच्च षडङ्गुलाम् ॥३॥
~~~
पञ्चादशाङ्गुलां नाभेरा सार्धदशकाङ्गुलाम्। वृषणादामूलतश्च सार्धद्व्यङ्गुलमायताम् ॥४॥
~~~
तावदा गुदतो दीर्घां चैत्यादाष्टादशाङ्गुलाम्। तथा द्व्यङ्गुलचैत्यां च द्वाविंशज्जङ्घया युताम् ॥५॥
~~~
आरभ्य गुल्फमध्यं च सहार्धचतुरङ्गुलाम्। षडङ्गुलोच्चप्रपदां सार्धद्व्यङ्गुलमेव च ॥६॥
प्रपदोच्चयुतामन्ते द्व्यङ्गुलप्रपदोच्छ्रयाम्। त्र्यङ्गुलद्व्यङ्गुलामर्धहीनमध्याङ्गुलामपि ॥७॥
~~~
त्रिपदाङ्गुलहीनान्यां ततस्तादृशतत्पराम्। पादोनोच्चाङ्गुष्ठनखां तदर्धतदनन्तराम् ॥८॥
~~~
क्रमशः पादहीनान्यां रक्तपादनखां शुभाम्। विस्तारः प्रपदस्यापि षडङ्गुल उदाहृतः ॥९॥
~~~
अङ्गुष्ठपरिणाहस्तु चतुरङ्गुल ईरितः। त्र्यङ्गुलं तु तदन्यस्य व्रीह्यार्धोनाः क्रमात् पराः ॥१०॥
~~~
दशाङ्गुलं जङ्घमूलं मध्यं तु त्र्यङ्गुलाधिकम्। सप्तादशाङ्गुलं तूर्ध्वं जानुरष्टादशाङ्गुलः ॥११॥
~~~
ऊर्वन्तोपि तथा ज्ञेयो मध्यं द्विर्द्वादशाङ्गुलम्। चतुरङ्गुलाधिकं मूलं गुह्यं सार्धचतुष्टयम् ॥१२॥
सार्धत्रयं परीणाहाद् वृषणं चतुरङ्गुलम्। सप्ताङ्गुलं परीणाहात् वृत्तं प्रोक्तं समस्तशः ॥१३॥
~~~
अष्टत्रिंशाङ्गुलं कट्याः परीणाह उदाहृतः। सुवृत्तत्वं तथा श्रोण्योः पीनत्वं च समस्तशः ॥१४॥
~~~
विस्तारश्च तथा कट्याः सुप्रतिष्ठितता पदोः। कट्याश्चैवाङ्गुलाधिक्यं नाभेरध उदाहृतम् ॥१५॥
~~~
नाभिः सार्धाङ्गुलश्चैव गम्भीरोर्धाङ्गुलोन्नतः। वृत्तः प्रदक्षिणश्चैव द्विचत्वारिंशदङ्गुलम् ॥१६॥
~~~
मध्यं स्तने परीणाहः षडङ्गुलमतोधिकः। एकोनविंशाङ्गुलं तदुरोविस्तारलक्षणम् ॥१७॥
~~~
पादोनमङ्गुलं चैव भुजाभ्यां सह सार्धकम्। अंसयोर्विस्तृतिश्चैव पृथगष्टाङ्गुला मता ॥१८॥
~~~
सप्ताङ्गुलोच्छ्रयः कक्षादुपरि स्कन्धयोर्मतः। अष्टत्रिंशाङ्गुलञ्चैव हस्तयोर्मानमुच्यते ॥१९॥
~~~
अष्टादशाङ्गुलो बाह्वोः परिणाह उदाहृतः। क्रमादूनं तदन्ते च सार्धाष्टाङ्गुलमीरितम् ॥२०॥
~~~
साङ्गुलस्तु तलः सार्धनवाङ्गुल उदाहृतः। समं तदुभयं ज्ञेयं तथैव तलविस्तृतिः ॥२१॥
~~~
अर्धाङ्गुलोन्नता मध्या द्वयोः सार्धाङ्गुलोन्नता। कनिष्ठिकायास्तस्यास्तु व्रीहिमात्राधिकः परः ॥२२॥
~~~
सार्धत्रयपरीणाहौ मध्यज्येष्ठावुदाहृतौ। अन्यौ व्रीहितदर्धोनावन्या सार्धद्वयाङ्गुला ॥२३॥
~~~
पादोनान्तपरीणाहाः सर्वे ज्येष्ठां विना स्मृताः। वक्षोविस्तारसदृशः परिणाहो गलस्य च ॥२४॥
~~~
ललाटकुक्षिकण्ठास्तु दीर्घरेखात्रयान्विताः। वृत्तो गलो बाहवश्च स्तनावङ्गुलयस्तथा ॥२५॥
~~~
रक्तास्तलनखाश्चैव नेत्रान्तोधर एव च। उत्तरोष्ठश्च जिह्वा च नखौ पादोनकाङ्गुलौ ॥२६॥
~~~
अर्धाङ्गुलौ तथा मध्यावन्येष्टांशक्रमोनकाः। नासिकया अधस्ताच्च नासिका च ललाटिका ॥२७॥
समा मानेन नासाया उच्चत्वेनैव मापने। अर्धाङ्गुलाधिकं सर्वं मुखस्य तु भविष्यति ॥२८॥
~~~
चतुरङ्गुलं तथैवास्यं सार्धव्रीह्यधरं स्मृतम्। उत्तरं व्रीहिमात्रं तु तदूर्ध्वं चाधरोपमम् ॥२९॥
~~~
सार्धाङ्गुलमधः प्रोक्तमधरादध एव च। आस्यपार्श्वद्वयं प्रोक्तमाकर्णात्तु षडङ्गुलम् ॥३०॥
~~~
सप्ताङ्गुलं नासिकायाः पार्श्वमा कर्णतः स्मृतम्। सपादाङ्गुलमुच्चा च नासिका परिकीर्तिता ॥३१॥
~~~
अर्धाङ्गुले पुटे तस्या मध्यं च समुदाहृतम्। नासिका व्रीहिविस्तारा चक्षुषी चाङ्गुलत्रये ॥३२॥
~~~
अङ्गुलं चैव विस्तीर्णे फुल्लेर्धं च तदन्यथा। चतुरङ्गुलौ भ्रुवौ चैव तथार्धाङ्गुलविस्तृतौ ॥३३॥
~~~
असंहतौ च निबिडौ तथा पक्ष्म सुनीलकम्। कर्णौ च त्र्यङ्गुलौ सार्धद्वयविस्तारसंयुतौ ॥३४॥
~~~
सकुण्डलं तावदेव विवरं सम्प्रकीर्तितम्। तथा द्व्यङ्गुलविस्तारो लताभ्यां सह कथ्यते ॥३५॥
~~~
कर्णपूरयुतौ कर्णावुत्पलाभ्यां च संयुतौ। नीलालकसहस्रेण युक्तं तन्मुखपङ्कजम् ॥३६॥
~~~
ललाटं सुविशालं च तथा सार्धनवाङ्गुलम्। विस्तारो मूर्ध्नि वृत्तं च शिरः छत्राकृतिः स्मृतम् ॥३७॥
~~~
दीर्घाश्च कुञ्चिताग्राश्च नीलाश्च केशा हरेर्मताः। मुखमानेन चैवोच्चं किरीटं केशवस्य हि ॥३८॥
~~~
कुण्डले मकराकारे वक्षश्चैव सकौस्तुभम्। सश्रीवत्सं दक्षिणतः पीनतुङ्गमुदाहृतम् ॥३९॥
~~~
हारग्रैवेयसहितमुपवीतयुतं तथा। बाहवश्च सकेयूरकङ्कणाङ्गदमुद्रिकाः ॥४०॥
~~~
समध्यबन्धं मध्यं च नितम्बे पीतमम्बरम्। काञ्चीगुणश्च पदयोर्नूपुरे चातिसुस्वने ॥४१॥
~~~
अङ्गुलीयानि च पदोः कृतिभिः साधु कारयेत्। सोत्तरीयं च चक्राद्यैरायुधैश्च समन्वितम् ॥४२॥
~~~
अनुन्नतैरविरलैर्दन्तैर्युक्तं च सुस्मितम्। समदृष्टियुतं कार्यं श्लक्ष्णं चैव मनोहरम् ॥४३॥
~~~
प्रतिमार्थं व्रजन्पञ्चध्वनिभिर्मङ्गलैर्युतः। गत्वा शुचिस्थलं तत्र शिलां चैव परीक्षयेत् ॥४४॥
~~~
ध्वनिभेदेन विज्ञाय शिलां गर्भवतीं त्यजेत्। मूलमन्त्रं जपन् विष्णुं ध्यायंस्तिष्ठेदुपोषितः ॥४५॥
~~~
वार्क्षी चेद्यज्ञवृक्षस्य सारेणैव तु कारयेत्। बलिदानं च सङ्क्षेपविधानेनैव कथ्यते ॥४६॥
~~~
अस्य सङ्क्षेपशास्त्रत्वान्न विस्तारविरोधिता। दत्वोपहारं हरये तद्भूतेभ्यो बलिं हरेत् ॥४७॥
प्राच्येभ्यो विष्णुभूतेभ्य इत्याद्यखिलदिक्षु च। आदाय विष्णुभूतेभ्यो लोकपेभ्यस्तथा हरेः ॥४८॥
अनुज्ञामुद्धरेद् वृक्षं शिलां वा प्रतिमाकृते। प्रतिमां पिण्डिकां पीठं शिलाभिस्तु त्रिजातिभिः ॥४९॥
~~~
स्वरस्थूलत्वभेदेन पुंस्त्र्याद्या जातिभिः शिलाः। पुंशिला प्रतिमार्थं तु स्त्रीशिलां पीठक्लृप्तये ॥५०॥
~~~
वेदमङ्गलघोषेण वाद्यैस्तत्प्रतिमां हरेत्। प्रागुदक्प्रवणे देशे कुर्याद्देवालयं सुधीः ॥५१॥
~~~
रामावृते दक्षिणतः पश्चाद्गिर्यग्र एव वा। मध्ये वा ग्रामपुरयोर्विशाले सुशुचौ तथा ॥५२॥
ऐशानीं दिशमेकां तु विनोदकविवर्जिते। जलाशयस्य मध्ये वा शिलावृक्षादिवर्जिते ॥५३॥
श्मशानादिकदेशानां विदूरे सुमनोहरे। किष्कुद्वादशतोनूनं कुर्याद्देवालयस्थलम् ॥५४॥
~~~
द्विगुणं चतुर्गुणं वापि शतकिष्कुप्रमाणकम्। कृत्वा भूशोधनं सम्यक् सार्धपुंमानतस्त्वधः ॥५५॥
~~~
केशाङ्गारस्थिवल्मीकलोष्टाश्मादिविवर्जिते। हरिं तत्रापि सम्पूज्य बलिं दत्वा च पूर्ववत् ॥५६॥
~~~
मृद्दारुशैलैर्लोहैर्वा कुर्याद्देवालयं दृढम्। दीर्घाश्च कलमास्तिस्रस्तिर्यगष्टयवोदराः ॥५७॥
अङ्गुल्या मध्यरेखायाः समा लक्षणतः स्मृताः। स्वाङ्गुल्या मध्यरेखा तु प्रतिमादिषु लक्षणम् ॥५८॥
~~~
ह्रस्वमध्योच्चभेदेन तत्तन्मानं समस्तशः। प्रादेशहस्तपुरुषमानं सामान्यलक्षणम् ॥५९॥
~~~
प्रतिमाध्यर्धकं द्वारमूर्ध्वमध्यं च विस्तृतिः। प्रतिमार्धप्रमाणेन पीठस्योच्चत्वमिष्यते ॥६०॥
~~~
उन्नतिः पिण्डिकायास्तु चतुरङ्गुलमानतः। त्र्यङ्गुलं द्व्यङ्गुलं वापि गृहान्तःप्रतिमासमम् ॥६१॥
~~~
उच्चं पर्यक् च क्रमश उच्चत्वं मध्यतः स्मृतम्। तावदुच्चं बहिश्चैव यद्येकशिखरं भवेत् ॥६२॥
~~~
अर्धोच्चमथवापि स्यादधस्तात् प्रतिमोन्नतम्। ततो द्विगुणमानं वा सार्धप्रतिममेव वा ॥६३॥
~~~
शिखान्तरे तु प्रतिमामानं तद्गल उच्यते। तत्त्रिपादं तदर्धं वा तदध्यर्धमथापि वा ॥६४॥
~~~
वर्तुलं पद्मसदृशं हस्तिपृष्टसमं तथा। चतुरस्रं चाष्टकोणं विमानं परिकीर्तितम् ॥६५॥
~~~
प्रतिमाया दशगुणं विंशद्गुणमथापि वा। वर्तुलं शिखरं त्वेकं किरीटाकृतिमद्भवेत् ॥६६॥
~~~
सभयापि समेतं वा पृथक्सभमथापि वा। द्विसभं त्रिसभं वापि सगोपुरमथापि वा ॥६७॥
प्राकारवृत्तयुक्तं वा सप्तप्राकारमेव वा। सद्मवृत्तं किष्कुमात्रं बहिर्वा चतुरस्रकम् ॥६८॥
~~~
ततः परं किष्कुमात्रं सभाया अन्तरं यदि। ततस्तावत् तृतीयायाः सार्धमेव ह्युदाहृतम् ॥६९॥
~~~
किष्कुत्रयं च शक्राद्यैः स्थानं तद्वृत्ततः स्मृतम्। ततस्तु मण्टपं कुर्यात् प्रतिष्ठायाः सुलक्षणम् ॥७०॥
~~~
पूजयेद्वास्तुपुरुषस्योपरिस्थांस्तु सर्वदा। देवान् ब्रह्मादिकान् वास्तुर्वराहस्य हरेः सुतः ॥७१॥
~~~
पातितो दैवतैर्भूमौ चतुरस्राकृतिः स्थितः। कृत्वाष्टकाष्टकोष्ठानि मध्ये ब्रह्मा चतुष्टये ॥७२॥
पूज्यो द्वये द्वये शक्रो यमो वरुण एव च। सोमश्च पूज्याः कोणेषु वह्न्याद्याः कोणदेवताः ॥७३॥
~~~
पुनस्त्रये त्रये कामं धातारं सविधातृकम्। स्कन्दं च पूजयेत् कोणे सूर्यं चैव विनायकम् ॥७४॥
~~~
कालं कुबेरं च बहिः प्रत्येकं दिक्षु पूजयेत्। हारिं हरिं गभीरं च गाहनं गहनं गुहम् ॥७५॥
~~~
भानुमङ्गारकं चैव पूर्वस्यां दिशि पूजयेत्। दारुणं विदरिं द्योतं प्रद्योतं द्योतनं हरिम् ॥७६॥
~~~
मृत्युं शनैश्चरं चैव दक्षिणस्यां प्रपूजयेत्। पुष्करं क्षरणं क्षारिं विक्षणं क्षोभणं क्षणम् ॥७७॥
~~~
चार्वङ्गं भार्गवं चैव पश्चिमायां प्रपूजयेत्। चारं विचारं प्रचरं सञ्चारं चरणं चरम् ॥७८॥
~~~
बृहस्पतिं बुधं चैवाप्युत्तरस्यां प्रपूजयेत्। एवमेव विमानस्य कृतेः प्रागपि पूजयेत् ॥७९॥
~~~
सप्तपर्णमयं साधु कारयेन्मण्डपं ततः। सप्तहस्तं द्विषड्ढस्तमथवा द्विगुणं ततः ॥८०॥
चतुर्गुणं वा सम्यक् तु चतुरस्रं सहाजिरम्। अन्यच्च मण्टपं दीर्घं पञ्चहस्तं तु कारयेत् ॥८१॥
~~~
त्रिचतुष्कोष्ठकं तत्र मध्ये प्रागायतं शुभम्। कारयेन्मण्डलं साधु हस्तमात्रं तु विस्तृतम् ॥८२॥
~~~
तत्र द्वादशपात्राणि स्थापयेत् पालिकादिकम्। पालिकास्तु चतुर्विंशत्यङ्गुलोच्छ्रयसंयुताः ॥८३॥
~~~
अष्टादशाङ्गुलाश्चैव तथा पञ्चमुखा इति। द्वादशाङ्गुलकाश्चैव शरावाः पश्चिमानुगाः ॥८४॥
~~~
तत्र विष्णुं चतुर्मूर्तिं पूजयेद्भक्तितस्त्रिशः। सप्तधान्यानि तेष्वेव पूरयेदङ्कुरार्थतः ॥८५॥
~~~
तत्र नित्यं बलिं दद्याद्विष्णवे दशरात्रकम्। ब्रह्मशङ्करगीर्वाणपितृगन्धर्वयक्षकैः ॥८६॥
भूतैश्च पायसेनैव तथा पद्माक्षतेन च। अन्नापूपेन पुष्पान्नैरन्नलाजाक्षतैरपि। सक्तुभिश्च क्रमेणैव देवान्तं पायसेन वा ॥८७॥
~~~
तदैव प्रतिमायाश्च कारयेदधिवासनम्। पञ्चगव्ये सप्तरात्रं क्षिप्त्वा पुरुषसूक्ततः ॥८८॥
~~~
वेदांश्च चतुरः सम्यक् पारयेयुर्द्विजोत्तमाः। प्राच्यादिद्वारगौ द्वौ द्वावेकैकं तु दशावराः ॥ यथालब्धं यथावित्तमथवा विष्णुतत्पराः ॥८९॥
~~~
त्रयोदशात्र कुण्डानि परितः कारयेद् बुधः। उक्तलक्षणयुक्तानि प्रधानं त्वग्निकोणके। साक्षात्तु कोणगाद्धस्तमात्रमन्तरतः सुधीः ॥९०॥
~~~
आज्याहुतिं तेषु कुर्यात् प्रत्येकं लक्षसङ्ख्यया। प्रत्येकमयुतं वापि प्रधाने लक्षसङ्ख्यकम् ॥९१॥
~~~
अर्धं तदर्धमथवा मूलमन्त्रेण मन्त्रवित्। पञ्चविंशतितत्वार्थे प्रधाने जुहुयात् पुरः ॥९२॥
~~~
प्रत्येकं तु सहस्रं वा प्रत्येकं शतमेव वा। शतं पुरुषसूक्तेन गायत्र्या च सहस्रकम्। कृत्वा जलाधिवासं च पूर्वं वा पञ्चगव्यतः ॥९३॥
~~~
चक्राब्जं भद्रकं वापि मण्टपे मण्डलं शुभम्। पद्मं वृत्तत्रयं चक्रं राशयो वीथिका तथा ॥९४॥
शोभोपशोभिकाश्चैव चक्राब्जस्य तु लक्षणम्। चतुरस्रं विना चक्रं विशेषो भद्रके स्मृतः ॥९५॥
~~~
सहस्रमर्धं पादं वा कलशांस्तत्र पूजयेत्। शतं तदर्धं पादं वा वित्ताभावे निगद्यते ॥९६॥
~~~
क्वाथेन क्षीरवृक्षाणां तथा पञ्चामृतैरपि। पञ्चगव्येन शुद्धेन जलेन च पृथक् पृथक् ॥९७॥
~~~
पूरयेत् कलशान् मध्यं शुद्धोदेनैव पूरयेत्। ब्राह्मस्यैव चतुर्दिक्षु गन्धोदानां चतुष्टयम् ॥९८॥
~~~
चतुर्दले सिते पद्मचतुष्के मण्डले स्थिते। पूर्वादिक्रमयोगेन रसक्वाथशुभोदकान् ॥९९॥
~~~
गन्धांश्च स्थापयेत् पञ्चगव्यं शुद्धान्तरे न्यसेत्। पृथक् चतुर्दलं पद्मं रक्तं कृत्वाल्पकं सुधीः ॥१००॥
~~~
पञ्चाशत्वे तु गन्धोदं सर्वमध्ये निधापयेत्। ब्राह्मस्य पुरतस्त्वेकं शार्वं संस्थापयेद् बृहत् ॥१०१॥
~~~
अष्टदिक्ष्वष्टपद्मेषु पञ्चकं पञ्चकं न्यसेत्। अनेन क्रमयोगेन कलशा अखिला अपि ॥१०२॥
तत्तद्द्रव्यमयास्तत्र तत्र स्थाप्यास्तु बाह्यतः। तदैवाङ्कुरपात्राणि परितस्तत्र विन्यसेत् ॥१०३॥
~~~
कुशोदकं च कार्पूरं कौङ्कुमं चान्दनं तथा। तुहिनोदं हरिद्रोदमौशीरं कोष्ठसार्षपम् ॥१०४॥
नदीसङ्गमजं चैव ताडाकं कौप्यमेव वा। निर्झरोदमिति प्रोक्ता विशेषकलशास्त्विमे ॥ शुद्धोदद्वयमप्येतन्महातीर्थसमुद्भवम् ॥१०५॥
~~~
चतुर्विंशतिमूर्तीनां वर्णमूर्तीस्तथापरः। आवाहयेच्छतत्वे तु क्रमव्युत्क्रमतस्तु ताः ॥१०६॥
~~~
वर्णमूर्तीः पुनश्चैव द्विचतुर्वारमेव च। सहस्रकलशादित्वे जपेन्मन्त्रांश्च शक्तितः ॥१०७॥
~~~
ततस्तु पञ्चघोषैश्च वेदघोषैस्तथादरात्। आनीय प्रतिमां स्नानं कारयेत् प्रणवेन तु ॥१०८॥
मन्त्रैः पुरुषसूक्तान्तैः विश्वतश्चक्षुषा तथा। पुनश्चाष्टाक्षरेणैव प्रणवेन च भक्तितः ॥१०९॥
~~~
स्नापयित्वा गन्धजलैर्गन्धपुष्पादिभिः पुनः। अलङ्कृत्य स्थापयेत्तु प्रतिमां प्रणवेन तु ॥११०॥
~~~
जपेदष्टाक्षरं मन्त्रं तत्तन्मूर्तिमनुं तथा। अष्टोत्तरशतं मन्त्री ध्यायेत् तेजोमयीं पुनः ॥१११॥
प्रतिमां प्रतिमान्तस्थां तन्मध्ये परमं वपुः। चिदानन्दरसं पूर्णगुणसम्पूर्णमुत्तमम् ॥११२॥
~~~
पञ्चविंशतितत्त्वानां देवतास्तदनन्तरम्। स्थापयेत् प्रतिमामध्ये परितः केशवस्य तु ॥११३॥
~~~
तत्रात्वाहार्षसूक्तं च घर्मसूक्तं च वैष्णवम्। सूक्तं च विश्वकर्मीयं पौरुषं सूक्तमेव च ॥११४॥
जप्त्वा चैव निजं मन्त्रं पुनरष्टाक्षरं सुधीः। प्रणवं च जपेद्विष्णुं ध्यायन्नुत्तमरूपिणम् ॥११५॥
~~~
ततस्तु कलशैर्बाह्यक्रमेणैव जनार्दनम्। स्नापयेदुक्तमन्त्रैस्तु मध्यमं प्रणवेन तु ॥११६॥
अष्टार्णेन निजेनापि तथा पुरुषसूक्ततः। आवाहनं च स्नपनं पञ्चगव्येन मध्यवत्। पूर्वाद्युत्तरपर्यन्तः कलशक्रम उच्यते ॥११७॥
~~~
जप्त्वा पुनश्च तन्मन्त्रान् पूजयेच्च विधानतः। द्वारलोकपतिभ्यश्च बलिं दत्वा यथाक्रमम् ॥११८॥
वस्त्ररत्नहिरण्याद्यैरलङ्कृत्य विभूतितः। गुरवे दक्षिणां दद्यात् कोटिं लक्षं सहस्रकम् ॥११९॥
~~~
शतमर्धं तदर्धं वा निःस्वो भक्त्या क्षमापयेत्। तदर्धमृत्विजां चैव तदर्धं पारणाकृताम् ॥१२०॥
~~~
आश्वभ्यः आश्वपाकेभ्यो दद्यादन्नं समस्तशः। पुरस्तात्परतश्चैव सप्तरात्रं निरन्तरम् ॥१२१॥
~~~
सुवर्णरजतवस्त्ररत्नाद्यैरागताभ्यागतानपि। पूजयेच्छक्तितो भक्त्या प्रीयतां भगवानिति ॥१२२॥
~~~
गीतनृत्यैश्च वाद्यैश्च पुराणैरितिहासकैः। सूक्तैर्मङ्गलघोषैश्च वैदिकैर्दिनसप्तकम् ॥१२३॥
नयेत् ततो महाराजविभूत्यावभृथं सुधीः। कारयेद् देवदेवस्य स्वाध्यायैर्गीतनृत्तकैः ॥१२४॥
~~~
महानदीसङ्गमे तु तीर्थे चातिप्रशस्तके। स्नापयेत् पूर्ववन्मन्त्रैः पुंसूक्तान्तैः स्मरन् हरिम् ॥१२५॥
~~~
ततः पूर्ववदागत्य प्रवेश्य पुरुषोत्तमम्। पूजयित्वा विधानेन दत्वा दानानि शक्तितः ॥१२६॥
गुरुं च भक्त्या सम्पूज्य स्वीकुर्यादाशिषस्ततः। शतप्रस्थादनूनं तु नैवेद्यं पायसोत्तरम् ॥१२७॥
~~~
दिनेष्वेतेषु दातव्यं सघृतं ससितादिकम्। पश्चादपि यथाशक्ति पूजा कार्या हरेः सदा ॥१२८॥
~~~
जीर्णालयोद्धृतौ चैव तत्त्वमन्त्रान् स्वकं तथा। प्रातिलोम्येन जप्त्वैव मूर्तौ सङ्कोचयेद्धरिम् ॥१२९॥
~~~
उक्तेनैव विधानेन तदर्धविभवैः सुधीः। पादमात्रैरपि हरिं स्नापयित्वा यथोदितम् ॥१३०॥
एतेनैव विधानेन कृत्वा देवालयं पुनः। स्नापयेत् पुण्डरीकाक्षं द्विगुणेन प्रवाहणात् ॥१३१॥
~~~
विभवेनानुलोमेन जपेन्मन्त्रान् पुनस्तथा। आराधयेज्जगन्नाथं ध्यायन् भक्त्या यथोदितम् ॥१३२॥
~~~
यात्रापि पूर्ववत् तत्राप्युत्सवेषु च सर्वशः। कलशोक्तविधानेन पूजा बलिहृतिस्तथा ॥१३३॥
~~~
उत्सवेषु सदा कार्या कलशश्चोत्सवादनु। यात्रा स्नानं च कर्तव्यं सम्यगुक्तविधानतः ॥१३४॥
~~~
चोरचण्डालपतितश्वोदक्यादिप्रवेशने। शवाद्युपहतौ चैव पूजाविच्छेदने तथा ॥१३५॥
स्नपनोक्तेन मार्गेण प्रायश्चित्तकृतिः स्मृता। सर्वत्र विष्णुगायत्र्या होमः स्यादयुतावरः ॥१३६॥
~~~
नावाव्याद्याभिधानानु विग्रहे धीमहे तथा। प्रचोदयात् तृतीयाधस्तन्नो गायत्रिनामिका ॥१३७॥
~~~
दुर्गाशिवस्कन्दसूर्यविनायकमुखानपि। स्थापयेदुक्तमार्गेण तत्तन्मन्त्रैः स्मरन् हरिम् ॥१३८॥
~~~
गोलकद्वितयं विष्णोस्त्रितयं वापि कीर्तिमान्। अन्यदेवप्रतिष्ठासु तदन्तश्चिन्तयेद्धरिम् ॥१३९॥
~~~
विष्णुस्मृतिविहीना तु पूजा स्यादासुरी तथा। गृह्णन्ति देवता नैतां ततः स्याद्देशविप्लवः ॥ व्याधिचोरादिभिस्तस्मादन्तर्ध्येयो हरिः सदा ॥१४०॥
~~~
विष्णुभक्तिविहीनस्य गतिः स्यान्न तु शुभा क्वचित्। भक्तस्याप्यन्यदेवेषु तस्माद् ध्येयो हरिः सदा ॥१४१॥
~~~
संस्मृतो भगवान् विष्णुः सर्वमङ्गलमङ्गलः। समस्ताभीष्टदायी स्यात् तेन ध्येयोखिलैर्जनैः ॥१४२॥
~~~
पुरुषोव्यक्तं च महानहङ्कारो मनस्तथा। दशेन्द्रियाणि शब्दाद्याः भूतेताः पञ्चविंशतिः ॥१४३॥
~~~
तत्त्वाख्याः कालमाये च नियतिर्मतिरेव च। विद्या कला प्रवृत्तिश्च द्वात्रिंशत्तत्त्वसङ्ग्रहः ॥१४४॥
~~~
स्फूर्तिः संवित् प्रतिष्ठा च शक्तिरित्यपराणि च। महालक्ष्मीस्वरूपाणि ह्येकादश विदो विदुः। विष्णोरपि हि रूपाणि तन्नाम्नैकादशैव तु ॥१४५॥
प्रधानोपमवर्णानि द्विभुजान्यप्यशेषतः। कृताञ्जलिपुटान्येव प्रधानं तं हरिं प्रति ॥१४६॥
~~~
सर्वाण्येतानि तत्त्वानि ब्रह्मा तु पुरुषः स्मृतः। महांश्चाव्यक्तनाम्नी तु ब्रह्माणी सम्प्रकीर्तिता ॥१४७॥
~~~
एवं वायुरपि ज्ञेयो भारती चापि तत्त्रयम्। रुद्रोहङ्कार उद्दिष्टः स्कन्देन्द्रौ मन उच्यते ॥१४८॥
~~~
अहङ्कारः शेषवीन्द्रावपि विद्वद्भिरीरितौ। दिग्वायुसूनुसूर्याश्च वरुणश्चाश्विनावपि ॥१४९॥
वह्निदक्षाविन्द्रसूनुर्मित्रश्चैव मनुस्तथा। इन्द्रियाख्याः शब्दनामा बृहस्पतिरुदाहृतः ॥१५०॥
~~~
अन्ये तु सूनवो वायो रुद्रस्यापि प्रकीर्तिताः। एतेषु भगवान् विष्णुः प्रधानतनुरेव तु ॥१५१॥
~~~
ध्येयः परात्मनोर्मध्ये तत्त्वनाम तदर्थयोः। जपे न्यासे नमोन्तस्तु स्वाहान्तो होमकर्मणि ॥१५२॥
~~~
त्रिचतुष्षड्दशावृत्तिरेतेषां तु हुतादिके। न्यासोङ्गुलीषूरुबाहुमध्येषु व्युत्क्रमे स्मृतः ॥ क्रमे विपर्ययेणात्र शक्त्यादित्वं प्रकीर्तितम् ॥१५३॥
~~~
ऋषिच्छन्दोदेवताङ्गध्यानानुक्तौ प्रधानवत्। ज्ञेया मन्त्राः समस्तास्ते पृथङ्मोक्षादिदायकाः ॥१५४॥
~~~
तन्त्रमार्गास्तु हरिणा ह्यसङ्ख्याः कीर्तिता अपि। तेष्वयं सुगमो मार्गः सफलश्चानुतिष्ठताम् ॥१५५॥
~~~
यावतो ह्यननुष्ठाने कर्मपूर्तिर्न विद्यते। तावत् समस्तं कथितं ह्यस्मिंस्तन्त्रे यथाविधि ॥१५६॥
~~~
प्रीयतेनेन मार्गेण पूजितो मुक्तिदो भवेत्। कामदश्च स्वभक्तानां भगवान् पुरुषोत्तमः ॥१५७॥
~~~
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते तन्त्रसारसङ्ग्रहे तृतीयोध्यायः॥