Chapter Four (चतुर्थोध्यायः)
अथ विष्णूदिते तन्त्रसारे मन्त्रगणो हि यः। उदितः सङ्ग्रहेणासावुच्यतेऽखिलसाधकः ॥१॥
~~~
याष्टमस्तूयुतोन्तेन समेतश्चैव भूभृतः। बीजं नमश्च भगवान् सोद्देश्यो रूपसंयुतः ॥२॥
स एव तादृशो लोकत्रयपालो भुवःपतेः। भावं मे देहि दान्ते तु दापय स्वाहया युतः ॥३॥
~~~
मनुस्तस्यापरस्तारबीजोद्देशनमोयुतः। नमः सोद्देशभगवान् महाशब्दयुतश्च सः ॥ तादृशः स्वाहया युक्तो वराहस्यापरो मनुः ॥४॥
~~~
श्यामः सुदर्शनदराभयसद्वरेतो भूम्या युतोऽखिलनिजोक्तपरिग्रहैश्च। ध्येयो निजैश्च तनुभिः सकलैरुपेतः कोलो हरिः सकलवाञ्छितसिद्धयेऽजः ॥५॥
~~~
वैष्णवानां मुनिर्ब्रह्मा मन्त्राणां वर्णभेदतः। ज्ञेयं छन्दो देवतैकस्तत्तद्रूपो हरिः परः ॥६॥
~~~
प्रणवेन स्वनाम्ना च भूधरेण परात्मना। सर्वज्ञसर्वशक्तिभ्यां षडङ्गानि विदो विदुः ॥७॥
~~~
ज्ञानैश्वर्यप्रभानन्दतेजःशक्तिभिरेव वा। पूर्णात्ममध्यगैः सर्ववैष्णवाङ्गान्यथो विदुः ॥८॥
~~~
तिष्ठोदादिस्वजायायाः कारणं स्वाहया युतः। श्रीकरोष्टाक्षरो मन्त्रो गरुडारूढसंस्मृतिः ॥९॥
~~~
द्विर्भीषय त्रासय च प्रमर्दय तथैव च। प्रध्वंसयाथो रक्षेति पञ्चाङ्गश्चेत्युदाहृतः ॥१०॥
~~~
क्रूरं वीरं बृहद्विष्णुं दीप्यन्तं विश्वतोमुखम्। पुंमृगेन्द्रं भयकरं शुभं मृत्योश्च मारकम्। नमामि स्वयमित्येष द्वात्रिंशार्णो मनुर्हरेः ॥११॥
~~~
द्विर्जयस्योपरि निजं सोद्देशं सर्ववित् तथा। महातेजो बलं वीर्यं तादृशं स्वाहया युतम् ॥ चतुर्विंशाक्षरो मन्त्रो निखिलेष्टप्रदायकः ॥१२॥
~~~
विद्महे धीमहे पूर्वं स्वयं चैव महाबलः। प्रेरयेत्तन्न इत्येतन्मध्येनन्तः प्रकीर्तितः ॥१३॥
~~~
पादैर्व्यस्तैः समस्तैश्च पदैश्चाङ्गं प्रकीर्तितम्। पूर्वयोस्तत्र पूर्वं तु सर्वज्ञेन षडङ्गकम् ॥ तृतीयं तु द्विरावृत्तैः पादैरङ्गसमन्वितम् ॥१४॥
~~~
ध्यायेन्नृसिंहमुरुवृत्तरवित्रिनेत्रं जानुप्रसक्तकरयुग्ममथापराभ्याम्। चक्रं दरं च दधतं प्रियया समेतं तिग्मांशुकोट्यधिकतेजसमग्र्यशक्तिम् ॥१५॥
~~~
सर्वेष्वपि हि मन्त्रेषु द्व्याद्यनन्तान्तबाहुकः। चेतनान्तस्थमारभ्य सर्वगान्तस्थरूपवान् ॥१६॥
~~~
अनन्तरूपो ध्येयोत्र स्वगुरूक्तानुसारतः। यथायोग्यं यथाशक्ति तत्तदायुधभूषणः ॥१७॥
~~~
शङ्खचक्रगदापद्मखड्गखेटाः सशार्ङ्गकाः। शरो मुसलवज्रौ च हलः पाशाङ्कुशौ तथा ॥१८॥
शूलं च भिण्डिपालश्च पट्टिशोऽग्निर्वराभये। तर्कमुद्राक्षमाला च पुस्तकं च विदारणम् ॥ इत्यादीन्यखिलान्येव विष्णोश्चिन्त्यानि बाहुषु ॥१९॥
~~~
वियत्स इति युग्मार्णो विपरीतश्च स स्मृतः। स सर्गहीनो वेतश्च बिन्दुहीनोत्तरस्तथा ॥२०॥
~~~
त्रय एते महामन्त्राः पुरुषार्थचतुष्टये। कल्पवृक्षाः प्रिया विष्णोर्विशेषज्ञानदायकाः ॥२१॥
~~~
तैरेव तु द्विरावृत्तैरङ्गमेषां प्रकीर्तितम्। श्वासरूपो जपो नित्यमुभयोर्विद्वदज्ञयोः ॥२२॥
~~~
एकविंशत्सहस्रात्मा सषट्शतमहर्निशम्। अर्पणीयो हरौ नित्यं प्रातर्योगो महानयम् ॥२३॥
~~~
अशेषदोषदहनस्तत्त्वज्ञानप्रदायकः। अष्टैश्वर्यप्रदश्चैव कृतादौ समुपासताम् ॥ तारयोगोप्येवमेव ब्रह्मादावेव वर्तते ॥२४॥
~~~
ध्यायेद्रवीन्दुकरमिन्दुसहस्रलक्षकान्तिं प्रियासहितमास्थितमिन्दुबिम्बे। शङ्खारिदोर्द्वयमुदर्कमहेन्दुबिम्बात् संसिच्यमानममृतेन रमाधिनाथम् ॥२५॥
~~~
अन्त्यस्य रक्तवर्णो वा ध्येयो विष्णुः सनातनः। विद्युद्वर्णोथवा ध्येयः शक्त्येतः पञ्चमन्त्रयुक् ॥२६॥
~~~
अष्टाक्षरो महामन्त्रः तैरेवाङ्गैः समन्वितः। अन्त्यध्यानयुतश्चैव निःशेषपुरुषार्थदः ॥२७॥
~~~
मूलं नः प्रतिषेधश्च सोद्देशो भगवानपि। विष्णुर्भोज्याधिपः स्वाहायुक्तोष्टादशवर्णकः ॥२८॥
~~~
अङ्गानि तत्पदैरेव मन्त्रचिन्तामणिः स्वयम्। यथेष्टभक्षभोज्यादिदाता मुक्तिप्रदायकः ॥२९॥
~~~
ध्यायेत् सुशुक्लमरविन्ददलायताक्षं सौवर्णपात्रदधिभोज्यमथामृतं च। दोर्भ्यां दधानमखिलैश्च सुरैः समेतं शीतांशुमण्डलगतं रमया समेतम् ॥३०॥
~~~
अमृतं स्वयमुद्देशयुक्तः सहृदयो मनुः। सतारोष्टाक्षरोङ्गानि पदैर्व्यस्तैः समस्तकैः ॥३१॥
~~~
उद्यद्रविप्रभमरीन्द्रदरौ गदां च ज्ञानं च बिभ्रतमजं प्रियया समेतम्। विश्वावकाशमभितः प्रतिभासयन्तं भासा स्वया स्मरत विष्णुमजादिवन्द्यम् ॥३२॥
~~~
त्रिविक्रमश्च सोद्देशो विश्वरूपश्च तत्परः। धीविदौ च महे विष्णुस्तन्नः प्रेरणमध्यगः ॥३३॥
~~~
स्वयमुद्देशसंयुक्तः तदाद्यर्णपुरःसरः। सनतिः षडक्षरो मन्त्री वर्णैरङ्गक्रिया मता ॥३४॥
~~~
अङ्गारवर्णमभितोण्डबहिःप्रभाभिर्व्याप्तं परश्वधधनुर्धरमेकवीरम्। ध्यायेदजेशपुरुहूतमुखैस्तुवद्भिरावीतमात्मपदवीं प्रतिपादयन्तम् ॥३५॥
~~~
श्यामं रवीन्द्वमितदीधितिकान्तियुक्तं ज्ञानं शरं च दधतं प्रियया समेतम्। स्वात्मस्वरूपममितं हनुमन्मुखेषु सन्दर्शयन्तमजितं स्मरतोरुगीर्भिः ॥३६॥
~~~
निजगोत्रं तु सोद्देशं पूर्वाक्षरपुरःसरम्। नत्यन्तं तारपूर्वं च मनुरष्टाक्षरो मतः ॥३७॥
~~~
ते च बीजे बीजभूते धर्मादीनामशेषतः। एते विजयदा मन्त्रा ज्ञानमोक्षप्रदायकाः ॥ हिरण्यरत्नराज्यादिसमभीष्टसुरद्रुमाः ॥३८॥
~~~
कृष्णो गोविच्च कामेतः सोद्देशो वल्लवीजनः। प्रियश्च तादृशस्वाहायुक्तोष्टादशवर्णकः ॥ पदैरङ्गानि सम्प्रीतिकाममोक्षप्रदो मनुः ॥३९॥
~~~
ध्यायेद्धरिन्मणिनिभं जगदेकनाथं सौन्दर्यसारमरिशङ्खवराभयानि। दोर्भिर्दधानमजितं सरसं च भैष्मीसत्यासमेतमखिलप्रदमिन्दिरेशम् ॥४०॥
~~~
सकामः स्वयमुद्देशी नत्यन्तोयं षडक्षरः। तदादिरपि सर्वेष्टचिन्तामणिरुदाहृतः ॥४१॥
~~~
दृष्टार्थ एव मन्त्राणां कलौ वीर्यं तिरस्कृतम्। तत्राप्युद्दीप्तवीर्या हि मन्त्रा अत्र प्रकीर्तिताः ॥ वासिष्ठवृष्णिप्रवरमन्त्रास्तत्रापि वीर्यदाः ॥४२॥
~~~
स्वयं वेदपदारूढः पूर्ववर्णपुरःसरः। नत्यन्तोष्टाक्षरो मन्त्रो प्रियो विज्ञानगोपतेः ॥४३॥
~~~
व्याख्याश्रीसर्वविज्ञानकवितादिगुणप्रदः। वादे विजयदो नित्यं यथा युद्धे नृकेसरी ॥४४॥
~~~
विज्ञानरोचिः परिपूरितान्तबाह्याण्डकोशं हरितोपलाभम्। तर्काभयेतं विधिशर्वपूर्वगीर्वाणविज्ञानदमानतोस्मि ॥४५॥
~~~
ज्ञानानन्दपुरःपूर्णो विद्महे धीमहे तथा। तन्नः प्रेरणमध्ये तु व्यासो मन्त्राधिपाधिपः ॥४६॥
~~~
आदिबीजं स्थिरादोषज्ञानबीजं विमुक्तिदम्। सर्वपापक्षयकरं सर्वव्याधिविनाशनम् ॥४७॥
~~~
ध्यायेच्छशाङ्कशतकोट्यतिसौख्यकान्तिं संसिच्यमानममृतोरुघटैः सुरेशैः। वर्णाभिमानिभिरजेशमुखैः सहैव पञ्चाशता प्रतिगिरन्तमशेषविद्याः ॥४८॥
~~~
सोद्देशस्तु स्वयं दीर्घपूर्वाद्यार्णो नमोयुतः। सर्वविद्याप्रदोष्टार्णः प्रतिवादिजयप्रदः ॥ विमुक्तिसाधनः कीर्तिबुद्धिस्थैर्यप्रदः सदा ॥४९॥
~~~
वन्दे तुरङ्गवदनं शशिबिम्बसंस्थं चन्द्रावदातममितात्मकरैः समन्तात्। अण्डान्तरं बहिरपि प्रतिभासयन्तं शङ्खाक्षपुस्तकसुबोधयुताब्जबाहुम् ॥५०॥
नस्तो मुखादपि निरन्तरमुद्गिरन्तं विद्या अशेषत उताब्जभवेशमुख्यैः। संसेव्यमानमतिभक्तिभरावनम्रैर्लक्ष्म्यामृतेन सततं परिषिच्यमानम् ॥५१॥
~~~
स्वयमुद्देशवान् पूर्ववर्णपूर्वो नमोयुतः। सतारोष्टाक्षरश्चैव नवार्णश्च मनू स्मृतौ ॥५२॥
~~~
प्रोद्यद्दिवाकरसमानतनुं सहस्रसूर्योरुदीधितिभिराप्तसमस्तलोकम्। ज्ञानाभयाङ्कितकरं कपिलं च दत्तं ध्यायेदजादिसमितिं प्रतिबोधयन्तम् ॥५३॥
~~~
अधृष्यताज्ञानमोक्षप्रदौ भक्तेष्विमौ सदा। सूक्तं दीर्घतमोदृष्टं विष्णोर्नु कं इति प्रभोः ॥५४॥
सर्वार्थदं गार्त्समदं यो जात इति चापरम्। वासिष्ठं च परो मात्रयेति ज्ञानविमुक्तिदम् ॥५५॥
भौवनीयं सर्वकाममोक्षदं य इमेत्यपि। एवमेवाखिला वेदा ज्ञातव्या विष्णुतत्पराः ॥५६॥
~~~
स्वदृष्टं सूक्तमखिलं कामदं हरितुष्टिदम्। वाचोम्भृण्याः श्रियोङ्गानि श्रीर्लक्ष्मीर्मेन्दिरा रमा ॥५७॥
~~~
कौशेयपीतवसनामरविन्दनेत्रां पद्मद्वयाभयवरोद्यतपद्महस्ताम्। उद्यच्छतार्कसदृशीं परमाङ्कसंस्थां ध्यायेद्विधीशनुतपादयुगां जनित्रीम् ॥५८॥
~~~
लज्जाबीजं च तद्बीजं तस्या एवाभिधायकम्। पाशाङ्कुशौ रक्तवस्त्रं लज्जाबीजे विशिष्यते ॥५९॥
~~~
अमध्ययुग्मस्वरगतेनैवाङ्गमुदाहृतम्। सत्ताबीजं च दुर्बीजं तद्वदेव प्रकीर्तितम् ॥६०॥
~~~
वर्णः श्यामो विशेषोत्र ताम्बूलं नीलमुत्पलम्। शङ्खचक्रौ तर्जनश्च शूलमित्यपरत्र च ॥६१॥
~~~
नमोन्तं स्वेन सहितस्तदेवान्यो मनुः स्मृतः। दुर्गा त्रिष्टुप् कश्यपोक्ता तत्र वर्णोग्निवत् स्मृतः ॥६२॥
~~~
त्रिनेत्रत्वं च दुर्गायाः प्रायः सर्वत्र कथ्यते। पादैः समस्तेन तथा षड्वर्णेनाङ्गमुच्यते ॥६३॥
~~~
रमाया एव रूपाणि त्वेतानि हि विदो विदुः। मुख्यतो जामदग्न्यस्तु देवतास्य मनोः स्मृतः ॥६४॥
~~~
हिरण्यगर्भसूक्तं च भृगुदृष्टं प्रकीर्तितम्। ब्रह्मधातृविरिञ्चाजपाद्मैरङ्गमुदाहृतम् ॥६५॥
~~~
ध्यायेन्निषण्णमजमच्युतनाभिपद्मे प्रोद्यद्दिवाकरसमूहनिकाशमग्र्यम्। मातृप्रकारकरमुत्तमकान्तिमद्भिर्वक्त्रैः सृजन्तमखिलैः परमार्थविद्याः ॥६६॥
~~~
स्वयमुद्देशनतिमांस्तस्य पञ्चाक्षरो मनुः। स्वयमेवापरोष्टार्णस्तादृशः सम्प्रकीर्तितः ॥६७॥
~~~
बळाद्यं भृगुणा दृष्टं प्राणाग्नेः सूक्तमुच्यते। प्राणाद्यैः पञ्चभिस्तस्याप्यङ्गान्युक्तानि सूरिभिः ॥६८॥
~~~
उद्यद्रविप्रकरसन्निभमच्युताङ्के स्वासीनमस्य नुतिनित्यवचःप्रवृत्तिम्। ध्यायेद् गदाभयकरं सुकृताञ्जलिं तं प्राणं यथेष्टतनुमुन्नतकर्मशक्तिम् ॥६९॥
~~~
प्राणाद्याः पञ्चमन्त्राश्च तस्य देवस्य वाचकाः। उच्यते हरिरप्येतैः साक्षान्नारायणादिकः ॥७०॥
~~~
ब्रह्माण्या अपि भारत्या गौरीर्यस्त इति श्रुतौ। मन्त्रौ दीर्घतमोदृष्टौ सर्वाभीष्टप्रदायकौ ॥७१॥
~~~
उद्यद्दिवाकरसमूहनिभां स्वभर्तुरङ्केस्थितामभयसद्वरबाहुयुग्माम्। मुद्रां च तत्त्वदृशये वरपुस्तकं च दोर्युग्मकेन दधतीं स्मरतात्मविद्याम् ॥७२॥
~~~
पादैर्व्यस्तैः समस्तैश्च तदङ्गानि विदो विदुः। स्वयमुद्देशनत्यन्तौ मन्त्रौ द्वावपरौ तयोः ॥७३॥
~~~
मन्त्राः ह्येते हरेः प्रीतिदायकाः सर्वकामदाः। इष्टं देवं हरिः साक्षाल्लक्ष्मीर्भाग्यस्य देवता ॥ गुरुर्ब्रह्माऽथ वायुर्वा विद्यादेव्यौ प्रकीर्तिते ॥७४॥
~~~
तस्मादेते प्रिया विष्णोरन्तरङ्गतया सदा। ज्ञेयाश्चैव प्रपूज्याश्च विष्णोः प्रीतिमभीप्सता ॥७५॥
~~~
उद्देशनतियुङ्मन्त्रः स्वयमेव शिवस्य तु। वर्णैरेतैस्तदङ्गानि वामदेवो मुनिः स्मृतः ॥ पङ्क्तिशब्दार्थविज्ञाने न हि छन्दसि संशयः ॥७६॥
~~~
ध्येयः पञ्चमुखो रुद्रः स्फटिकामलकान्तिमान्। विद्युच्छुभ्रासितरजःश्यामान्यस्य मुखानि च ॥ जटावबद्धेन्दुकलः प्रियायुङ् नागभूषणः ॥७७॥
~~~
मन्त्रेष्वेतेषु सर्वेषु वाच्यस्तारेण केशवः। अन्तर्यामितया ध्येयः सर्वदेवेषु सर्वदा ॥७८॥
~~~
स एव वनितालिङ्गः पार्वत्याः मनुरुच्यते। गौरी वराभयकरा ध्येया पीताम्बरा च सा ॥७९॥
~~~
स्वयमुद्देशनत्यन्तः पूर्वपूर्वः षडक्षरः। सनत्कुमारदृष्टोयं मन्त्रः शेषस्य कामदः ॥८०॥
~~~
दधानो हलसौनन्दौ श्वेतवर्णः कृताञ्जलिः। सहस्रमूर्धाद्वितीयकर्णभूषः प्रियायुतः ॥ वनमाली नीलवासा ध्येयो विष्णोस्तु पृष्ठतः ॥८१॥
~~~
व्यत्यस्तपक्षितारौ च स्वाहान्तो गारुडो मनुः। काश्यपोऽस्य मुनिर्ध्येयो सुधापूर्णं हिरण्मयम् ॥८२॥
दधानः कुम्भमभयं पीतशुक्लारुणो हरिः। कृष्णश्चाजानुतो नाभेः कण्ठात् कादन्त एव च ॥८३॥
~~~
प्रियायुक् पुरतो विष्णोः पक्षतुण्डसमन्वितः। जङ्गमस्थावरविषहृदयं सर्वकामदः ॥८४॥
~~~
मन्त्राश्च लोकपालानां नमोन्तः सर्वकामदाः। पीतरक्तासितश्वेतरक्तशुक्लाश्च वर्णतः ॥८५॥
~~~
सप्रियाः साभयाः वज्रशक्तिदण्डासिपाशिनः। गदाकुमुदशूलर्ष्टिखङ्गिनो भूषणोज्ज्वलाः ॥८६॥
~~~
अग्निश्च स्वयमुद्देशी सनमः स्कन्दवाचकः। कौशिकोस्य मुनिर्वह्निवर्णः षण्मुख उज्ज्वलः। धनुःशक्तिधरो ध्येयो कामदो भयनाशनः ॥८७॥
~~~
ह्रस्वः कृपालुः सेतश्च स्वयमन्यः स्वयं तथा। सतारोष्टाक्षरः सौरः क्रमव्युत्क्रमतः पदैः ॥८८॥
अङ्गानि पद्मयुगलधरो ध्येयोरुणो रविः। सर्वव्याधिहरः श्रीदो वृष्टिदोयं मनुः स्मृतः ॥८९॥
~~~
मोनयदासाप्रप्रक्षि व्यत्यस्तो विघ्नराण्मनुः। रक्ताम्बरो रक्ततनू रक्तमाल्यानुलेपनः ॥९०॥
~~~
महोदरो गजमुखः पाशदन्ताङ्कुशाभये। बिभ्रद्ध्येयो विघ्नहरः कामदस्त्वरया ह्ययम् ॥९१॥
~~~
तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन्। एक एव महाशक्तिः कुरुते सर्वमञ्जसा ॥९२॥
~~~
स्वयमुद्देशवान् पूर्वपूर्वो हृदयसंयुतः। धान्वतरो महामन्त्रः संसृतिव्याधिनाशनः ॥ अत्रोक्तसर्वमन्त्राणां नायकोपलसन्निभः ॥९३॥
~~~
चन्द्रौघकान्तिममृतात्मकरैर्जगन्ति सञ्जीवयन्तममितात्मसुखं परेशम्। ज्ञानं सुधाकलशमेव च सन्दधानं शीतांशुमण्डलगतं स्मरतात्मसंस्थम् ॥९४॥
~~~
मूर्ध्नि स्थितादमुत एव सुधां स्रवन्तीं भ्रूमध्यगाच्च तत एव च तालुसंस्थात्। हार्दाच्च नाभिसदनादधरस्थिताच्च ध्यात्वाभिपूरिततनुर्दुरितानि हन्यात् ॥९५॥
~~~
अज्ञानदुःखभयरोगमहाविषाणि योगोयमाशु विनिहन्ति सुखं च दद्यात्। उन्मादविभ्रमहरः परश्च सान्द्रस्वानन्दमेव पदमापयति स्म नित्यम् ॥९६॥
~~~
ध्यात्वैव हस्ततलगं स्वमृतं स्रवन्तं देवं स यस्य शिरसि स्वकरं निधाय। आवर्तयेन्मनुमिमं स च वीतरोगः पापादपैति मनसा यदि भक्तिनम्रः ॥९७॥
~~~
शतं सहस्रमयुतं लक्षं वारोगसङ्क्षयात्। इममेव जपेन्मन्त्रं साधूनां दुःखशान्तये ॥९८॥
~~~
ज्वरदाहादिशान्त्यर्थं तर्पयेन्मनुनामुना। ध्यात्वा हरिं जले सप्तरात्राज्जूर्तिर्विनश्यति ॥९९॥
~~~
अयुतामृतसमिद्धोमाद् गोघृतक्षीरसंयुतात्। सर्वरोगा विनश्यन्ति विमुखो न हरेर्यदि ॥१००॥
~~~
भूताभिचारशान्त्यर्थमपामार्गाहुतिक्रिया। द्विगुणामृतया पश्चात् केवलेन घृतेन वा ॥१०१॥
~~~
आयुर्विवृद्धये नित्यं जन्मनक्षत्र एव वा। चतुश्चतुर्भिदूर्वाभिः क्षीराज्याक्ताभिरिष्यते ॥१०२॥
~~~
सर्वक्रिया हरौ भक्ते हरिभक्तैः स्वनुष्ठिताः। गुरुभक्तैः सदाचारैः फलन्त्यद्धा न चान्यथा ॥१०३॥
~~~
ब्रह्मान्ताः गुरवश्चैव सम्प्रदायप्रवर्तकाः। तत्तद्गुणानुसारेण पूज्याः मान्याश्च सर्वशः ॥१०४॥
~~~
सर्वेभ्योऽप्यधिका भक्तिर्विष्णौ स्यादतिनिश्चला। लक्ष्मीब्रह्मादिषु ततः क्रमेण स्यात् सुभाविता। एवं विद्याः फलिष्यन्ति नान्यथा तु कथञ्चन ॥१०५॥
~~~
शुभान् ध्यायन्ति ये कामान् गुरुदेवप्रसादजान्। इतरानात्मपापोत्थांस्तेषां विद्या फलिष्यति ॥१०६॥
~~~
मुक्तावपि च संसारे नात्मनो विष्णुतां क्वचित्। ब्रह्मरुद्रादिभावं वा साम्यं वाधिक्यमेव वा ॥१०७॥
अतद्वशत्वमथवा यः स्मरेत् स तु सिद्धिभाक्। नान्यथा सिद्धिमाप्नोति कल्पकोटिशतैरपि ॥१०८॥
~~~
स्मृत्वा गुरुं पूर्वगुरुमादिमूलगुरूंस्तथा। देवतां वासुदेवं च विद्याभ्यासी तु सिद्धिभाक् ॥१०९॥
~~~
अवज्ञाता गुरूणां च देवतानां न सिद्ध्यति। प्रयाति च तमो घोरं मन्त्रावज्ञाकृदेव च ॥११०॥
~~~
यस्तारतम्यवेत्ता स्याद् गुरूणां देवतास्वपि। भक्तिमान् गुरुदेवेषु तद्भक्तेषु च सिद्ध्यति ॥१११॥
~~~
गुरुदेवप्रतीपानां विमुखस्तत्प्रिये रतः। अकामक्रोधलोभश्च न चिरात् सिद्धिमाप्नुयात् ॥११२॥
~~~
सकामेभ्योमितगुणा याकामैस्तु कृता क्रिया। तस्मादकाम एवालं भजेद्विष्णुं सनातनम् ॥११३॥
~~~
अयं मे हस्त इति च मन्त्रः पूर्वोक्तवत्स्मृतः। अत्रोक्तास्तु क्रियाः सर्वमन्त्रेष्वप्युपलक्षणम् ॥११४॥
~~~
विजयस्तम्भनादीनि नारसिंहैर्विशेषतः। जामदग्न्यैश्च कार्याणि राघवैर्यादवैरपि ॥ वाराहैः स्तम्भनं क्षिप्रं श्रीकराः कथिताः पुरा ॥११५॥
~~~
बहुबाहुं महाकायमुद्युक्तं चोद्यतायुधम्। स्मरन् विजयमाप्नोति स्तम्भनादींश्च कारयेत् ॥११६॥
~~~
वसुपूर्णकरं रत्नपर्वतस्थं विभावयन्। वसुसिद्धिमवाप्नोति सेव्यमानमजादिभिः ॥ श्रिया विभूतिभिर्युक्तं भावयन् भूतिमाप्नुयात् ॥११७॥
~~~
यद्यन्मनोगतं तस्य तत्तदाप्नोत्यसंशयम्। तथा तथा हरिं ध्यायन् क्रियास्तास्ताश्च साधयन् ॥११८॥
~~~
श्रिये पद्मानि जुहुयात् सम्प्रीत्या उत्पलानि च। शरान् जयाय जुहुयादभिमन्त्र्य प्रयोजयेत् ॥११९॥
~~~
विद्यायै मन्त्रितं वारि वचां वा तुलसीमपि। ब्राह्मीं घृतं सुवर्णं वा शतावृत्त्या तु नित्यशः ॥१२०॥
~~~
अकुर्वंश्च क्रिया भक्त्या निरपेक्षो भजन् हरिम्। सर्वमेतदवाप्नोति विशेषेण न संशयः ॥१२१॥
~~~
सृष्टिस्थितलयन्यासाः प्रातिलोम्यानुलोम्यतः। स्थित्यन्ता एव वर्णानां श्रेष्ठा एव चतुर्दश ॥ संहृत्यन्ता मोक्षिणां तु एकविंशतिरेव वा ॥१२२॥
~~~
पादहृत्केषु नाभ्यास्ययुक्तं च सललाटकम्। सनासिकादृग्जान्वोश्च सश्रोत्रं सोरुकं तथा ॥१२३॥
सोरस्कं च सकण्ठं च सभुजद्वयमेव च। सगण्डयुग्मं सालीकं सतुण्डं क्रोडकं तथा ॥१२४॥
~~~
समूलं च सगुह्यं च सपार्श्वद्वयमेव च। सदोर्द्वयं व्यापकं च गलपार्श्वद्वयं तथा ॥१२५॥
ककुत्स्तनद्वयेनापि पृष्ठभागेन सर्वशः। न्यासो यथाक्रमं प्रोक्तो मन्त्रेष्वेतेषु कृत्स्नशः ॥१२६॥
~~~
प्रतिमायामात्मनि च न्यासोयं सन्निधानकृत्। बीजान्तःसाध्यमध्यं च विभक्तदलमन्त्रयुक् ॥१२७॥
वर्णानुप्रतिलोमेन वृत्तं भूपुरसंयुतम्। बीजसन्दृब्धकोणं च यन्त्रं रक्षादिसाधनम् ॥१२८॥
~~~
समं तत्सर्वमन्त्रेषु जप्तं धार्यं तु वा भुवि। विलिख्य मण्डले वा तत्पूजयेद्धरिमञ्जसा ॥१२९॥
~~~
प्रतिमोक्तलक्षणैर्यावद्युक्त आचार्य उत्तमः। सर्ववित् तपसा युक्त आज्ञाशक्तियुतो हरेः ॥१३०॥
यावद्भक्तो यथा लब्धैर्गुणैर्युक्तोथ वैष्णवः। गुरुः सत्सम्प्रदायज्ञस्तारतम्येन सिद्धिदः ॥१३१॥
~~~
उत्तमादुत्तमा सिद्धिर्धर्ममोक्षेषु स्फुटम्। तस्मादुत्तम आचार्ये लब्धे नातोवरं व्रजेत् ॥१३२॥
~~~
एकस्य शिष्यतां प्राप्य तदाज्ञां न विना समम्। अवरं वा व्रजेदुच्चगुणश्चेन्नैव दुष्यति ॥१३३॥
~~~
विशेषतो गुणश्च स्याद् देवेष्वप्येवमेव हि। तस्मादुत्तममाचार्यं देवेशं चाश्रयेद्धरिम् ॥१३४॥
~~~
अपरोक्षदृशेरेव यस्मान्मोक्षो न चान्यथा। अपरोक्षदृशिश्चैव श्रवणान्मननादनु ॥ सम्यङ्निश्चिततत्त्वस्य निदिध्यासनया भवेत् ॥१३५॥
~~~
द्विविधा सा च सम्प्रोक्ता विष्णुशास्त्रावमर्शनम्। एकं ध्यानं हरेरन्यच्चत्वार्यङ्गानि तस्य च ॥ यमाश्च नियमाश्चासा प्राणायाम इतीरितः ॥१३६॥
~~~
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ। यमाः शौचं तपस्तुष्टिः स्वाध्यायो हरिपूजनम् ॥ नियमा वीरपद्मे च स्वस्तिकाद्यानि चासनम् ॥१३७॥
~~~
रेचकः पूरकश्चैव कुम्भकश्च त्रिधा स्मृतः। प्राणायामः स्मृतिं विष्णोर्विना नियम उच्यते ॥१३८॥
~~~
अधीतिस्मृतियुक्तो हि निदिध्यासनमेव हि। प्राणायामेपि विष्णोर्यत्स्मरणं ध्यानमेव हि ॥१३९॥
~~~
आसा शौचं प्राणायामो निष्परिग्रहपूर्वकाः। तपआद्याः क्रमात् सर्व उत्तरोत्तरतोधिकाः ॥ सर्वस्माच्छ्रवणाद्यास्तु मुख्या मुक्तिप्रसाधने ॥१४०॥
~~~
अज्ञस्य श्रवणं श्रेष्ठमयुक्तेर्मननं तथा। ध्यानं निश्चिततत्त्वस्य तस्माच्छास्त्रावमर्शनम् ॥१४१॥
वरं दशगुणं तस्मात् व्याख्यैकस्य शतोत्तरा। अपरोक्षदृशाप्येषा कर्तव्या विष्णुतुष्टिदा ॥१४२॥
~~~
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति। भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥१४३॥
~~~
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः। भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥१४४॥
~~~
शौचासने त्वङ्गमात्रं न पृथङ्धर्मकारणम्। प्राणायामादयस्तुष्टिपर्यन्ता द्विगुणाधिकाः ॥१४५॥
~~~
स्वाध्यायो कोटिगुणस्ततोनन्तगुणा हरेः। पूजातस्त्रिगुणं ध्यानमिति धर्मक्रमः स्मृतः ॥१४६॥
~~~
ऊर्वोरधः पदोरूर्ध्वं त्रिभागेनेति च त्रिधा। आसनत्रयमुद्दिष्टं मन्त्रस्मरणपूर्वकम् ॥१४७॥
~~~
द्विगुणोत्तरं रेचकादि षोडशादिक्रमेण तु। मात्राणां ह्रस्ववर्णस्य कालो मात्रेति शब्द्यते ॥१४८॥
~~~
क्रमेणैवाभ्यसेन्मात्रावृद्धिमेकाग्रधीः पुनः। रेचयित्वा दक्षिणतः पूरयित्वा च वामतः ॥ कुम्भकश्च सुषुम्नायां विष्णुं वायुं च संस्मरेत् ॥१४९॥
~~~
मूलाधारं समारभ्य त्वामूर्धानमृजुस्थिता। मध्ये सुषुम्ना विज्ञेया वज्रिकार्या प्रकाशिनी ॥१५०॥
वैद्युता ब्रह्मनाडीति सैव पञ्चप्रभेदिनी। पृष्ठवामाग्रदक्षान्तर्भेदास्तेषु च क्रमेण तु ॥१५१॥
हरिर्नीलः सितः पिङ्गो लोहितश्चात्र केशवः। प्रद्युम्नादिस्वरूपेण ध्येयः सिद्धिमभीप्सता ॥१५२॥
~~~
मूले च नाभौ हृदयेन्द्रयोनिभ्रूमध्यमूर्धि द्विषडन्तकेषु। चतुःषडष्टद्विचतुर्द्विषट्कदलेषु पद्मेषु सितारुणेषु ॥ पञ्चात्मकोसौ भगवान् सदैव ध्येयो हृदन्तान्यरुणानि तानि ॥१५३॥
~~~
त्रिकोणवह्नौ च षडस्रवायौ द्विस्तावदस्ररविवृत्तशशित्रिवह्नौ। वृत्ते विधावपि विचिन्त्यमिदं दशार्ध रूपं सितं तदखिलं हृदयात् परस्थम् ॥१५४॥
~~~
इडा च पिङ्गला चैव वज्रिका धारिणी तथा। सुषुम्नायाश्चतुर्दिक्षु वज्रिकाद्यासु तत्र च ॥ चतुर्मूर्तिः स भगवान् हृदये संव्यवस्थितः ॥१५५॥
~~~
द्वासप्ततिसहस्राणि नाड्योन्यास्तु प्रधानतः। बृहतीसहस्रस्पर्शानामृचां वाच्योत्र केशवः ॥१५६॥
~~~
रूपाणां लक्षणं तेषां रहस्यत्वान्न कथ्यते। विष्णुना ब्रह्मणे प्रोक्तं ग्रन्थसङ्कोचतस्तथा ॥१५७॥
~~~
खण्डस्मृतिर्धारणा स्यादखण्डा ध्यानमुच्यते। अप्रयत्नात् समाधिश्च दर्शनं चिरया तया ॥ अथवा सततं शास्त्रविमर्शेन भविष्यति ॥१५८॥
~~~
परमस्नेहसंयुक्तयथार्थज्ञानतो भवेत्। सा भक्तिरिति विज्ञेया साधनं भोगमोक्षयोः ॥१५९॥
~~~
मुख्यमेषैव नान्यत् स्यात् सर्वं व्यर्थं तया विना। सैकाप्यभीष्टफलदा मोक्षो दर्शनयुक्तया ॥१६०॥
~~~
दर्शनं तु तया हीनं व्यर्थमन्यत् किमुच्यते। योग्यं तु दर्शनं नैव तया हीनं भविष्यति ॥१६१॥
~~~
आनन्दचित्सदितिपूर्वगुणैः समस्तैर्मर्त्यादिभिर्विधिपरैर्भगवान् क्रमेण। ध्यातोधिकैरधिगुणोधिकमेव सौख्यं मुक्तौ ददाति सततं परमस्वरूपः ॥१६२॥
~~~
निर्दोषाखिलसम्पूर्णगुणेन हरिणा स्वयम्। ब्रह्मणे कथितात् तन्त्रसारादुद्धृत्य सादरम् ॥ आनन्दतीर्थमुनिना कृतो ग्रन्थोयमञ्जसा ॥१६३॥
~~~
ग्रन्थोयं पाठमात्रेण सकलाभीष्टसिद्धिदः। किमु ज्ञानादनुष्ठानादुभयस्मात् पुनः किमु ॥१६४॥
~~~
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत्। वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥१६५॥
~~~
अशेषदोषोज्झितपूर्णसद्गुणं सदा विशेषापगतोरुरूपम्। नमामि नारायणमप्रतीपं सदा प्रियेभ्यः प्रियमादरेण ॥१६६॥
~~~
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते तन्त्रसारसङ्ग्रहे चतुर्थोध्यायः॥