Tantrasārasaṅgrahaḥ (तन्त्रसारसङ्ग्रहः)
Chapter Four (चतुर्थोध्यायः)
अथ विष्णूदिते तन्त्रसारे मन्त्रगणो हि यः। उदितः सङ्ग्रहेणासावुच्यतेऽखिलसाधकः ॥१॥
~~~
याष्टमस्तूयुतोन्तेन समेतश्चैव भूभृतः। बीजं नमश्च भगवान् सोद्देश्यो रूपसंयुतः ॥२॥
स एव तादृशो लोकत्रयपालो भुवःपतेः। भावं मे देहि दान्ते तु दापय स्वाहया युतः ॥३॥
~~~
मनुस्तस्यापरस्तारबीजोद्देशनमोयुतः। नमः सोद्देशभगवान् महाशब्दयुतश्च सः ॥ तादृशः स्वाहया युक्तो वराहस्यापरो मनुः ॥४॥
~~~
श्यामः सुदर्शनदराभयसद्वरेतो भूम्या युतोऽखिलनिजोक्तपरिग्रहैश्च। ध्येयो निजैश्च तनुभिः सकलैरुपेतः कोलो हरिः सकलवाञ्छितसिद्धयेऽजः ॥५॥
~~~
वैष्णवानां मुनिर्ब्रह्मा मन्त्राणां वर्णभेदतः। ज्ञेयं छन्दो देवतैकस्तत्तद्रूपो हरिः परः ॥६॥
~~~
प्रणवेन स्वनाम्ना च भूधरेण परात्मना। सर्वज्ञसर्वशक्तिभ्यां षडङ्गानि विदो विदुः ॥७॥
~~~
ज्ञानैश्वर्यप्रभानन्दतेजःशक्तिभिरेव वा। पूर्णात्ममध्यगैः सर्ववैष्णवाङ्गान्यथो विदुः ॥८॥
~~~
तिष्ठोदादिस्वजायायाः कारणं स्वाहया युतः। श्रीकरोष्टाक्षरो मन्त्रो गरुडारूढसंस्मृतिः ॥९॥
~~~
द्विर्भीषय त्रासय च प्रमर्दय तथैव च। प्रध्वंसयाथो रक्षेति पञ्चाङ्गश्चेत्युदाहृतः ॥१०॥
~~~
क्रूरं वीरं बृहद्विष्णुं दीप्यन्तं विश्वतोमुखम्। पुंमृगेन्द्रं भयकरं शुभं मृत्योश्च मारकम्। नमामि स्वयमित्येष द्वात्रिंशार्णो मनुर्हरेः ॥११॥
~~~
द्विर्जयस्योपरि निजं सोद्देशं सर्ववित् तथा। महातेजो बलं वीर्यं तादृशं स्वाहया युतम् ॥ चतुर्विंशाक्षरो मन्त्रो निखिलेष्टप्रदायकः ॥१२॥
~~~
विद्महे धीमहे पूर्वं स्वयं चैव महाबलः। प्रेरयेत्तन्न इत्येतन्मध्येनन्तः प्रकीर्तितः ॥१३॥
~~~
पादैर्व्यस्तैः समस्तैश्च पदैश्चाङ्गं प्रकीर्तितम्। पूर्वयोस्तत्र पूर्वं तु सर्वज्ञेन षडङ्गकम् ॥ तृतीयं तु द्विरावृत्तैः पादैरङ्गसमन्वितम् ॥१४॥
~~~
ध्यायेन्नृसिंहमुरुवृत्तरवित्रिनेत्रं जानुप्रसक्तकरयुग्ममथापराभ्याम्। चक्रं दरं च दधतं प्रियया समेतं तिग्मांशुकोट्यधिकतेजसमग्र्यशक्तिम् ॥१५॥
~~~
सर्वेष्वपि हि मन्त्रेषु द्व्याद्यनन्तान्तबाहुकः। चेतनान्तस्थमारभ्य सर्वगान्तस्थरूपवान् ॥१६॥
~~~
अनन्तरूपो ध्येयोत्र स्वगुरूक्तानुसारतः। यथायोग्यं यथाशक्ति तत्तदायुधभूषणः ॥१७॥
~~~
शङ्खचक्रगदापद्मखड्गखेटाः सशार्ङ्गकाः। शरो मुसलवज्रौ च हलः पाशाङ्कुशौ तथा ॥१८॥
शूलं च भिण्डिपालश्च पट्टिशोऽग्निर्वराभये। तर्कमुद्राक्षमाला च पुस्तकं च विदारणम् ॥ इत्यादीन्यखिलान्येव विष्णोश्चिन्त्यानि बाहुषु ॥१९॥
~~~
वियत्स इति युग्मार्णो विपरीतश्च स स्मृतः। स सर्गहीनो वेतश्च बिन्दुहीनोत्तरस्तथा ॥२०॥
~~~
त्रय एते महामन्त्राः पुरुषार्थचतुष्टये। कल्पवृक्षाः प्रिया विष्णोर्विशेषज्ञानदायकाः ॥२१॥
~~~
तैरेव तु द्विरावृत्तैरङ्गमेषां प्रकीर्तितम्। श्वासरूपो जपो नित्यमुभयोर्विद्वदज्ञयोः ॥२२॥
~~~
एकविंशत्सहस्रात्मा सषट्शतमहर्निशम्। अर्पणीयो हरौ नित्यं प्रातर्योगो महानयम् ॥२३॥
~~~
अशेषदोषदहनस्तत्त्वज्ञानप्रदायकः। अष्टैश्वर्यप्रदश्चैव कृतादौ समुपासताम् ॥ तारयोगोप्येवमेव ब्रह्मादावेव वर्तते ॥२४॥
~~~
ध्यायेद्रवीन्दुकरमिन्दुसहस्रलक्षकान्तिं प्रियासहितमास्थितमिन्दुबिम्बे। शङ्खारिदोर्द्वयमुदर्कमहेन्दुबिम्बात् संसिच्यमानममृतेन रमाधिनाथम् ॥२५॥
~~~
अन्त्यस्य रक्तवर्णो वा ध्येयो विष्णुः सनातनः। विद्युद्वर्णोथवा ध्येयः शक्त्येतः पञ्चमन्त्रयुक् ॥२६॥
~~~
अष्टाक्षरो महामन्त्रः तैरेवाङ्गैः समन्वितः। अन्त्यध्यानयुतश्चैव निःशेषपुरुषार्थदः ॥२७॥
~~~
मूलं नः प्रतिषेधश्च सोद्देशो भगवानपि। विष्णुर्भोज्याधिपः स्वाहायुक्तोष्टादशवर्णकः ॥२८॥
~~~
अङ्गानि तत्पदैरेव मन्त्रचिन्तामणिः स्वयम्। यथेष्टभक्षभोज्यादिदाता मुक्तिप्रदायकः ॥२९॥
~~~
ध्यायेत् सुशुक्लमरविन्ददलायताक्षं सौवर्णपात्रदधिभोज्यमथामृतं च। दोर्भ्यां दधानमखिलैश्च सुरैः समेतं शीतांशुमण्डलगतं रमया समेतम् ॥३०॥
~~~
अमृतं स्वयमुद्देशयुक्तः सहृदयो मनुः। सतारोष्टाक्षरोङ्गानि पदैर्व्यस्तैः समस्तकैः ॥३१॥
~~~
उद्यद्रविप्रभमरीन्द्रदरौ गदां च ज्ञानं च बिभ्रतमजं प्रियया समेतम्। विश्वावकाशमभितः प्रतिभासयन्तं भासा स्वया स्मरत विष्णुमजादिवन्द्यम् ॥३२॥
~~~
त्रिविक्रमश्च सोद्देशो विश्वरूपश्च तत्परः। धीविदौ च महे विष्णुस्तन्नः प्रेरणमध्यगः ॥३३॥
~~~
स्वयमुद्देशसंयुक्तः तदाद्यर्णपुरःसरः। सनतिः षडक्षरो मन्त्री वर्णैरङ्गक्रिया मता ॥३४॥
~~~
अङ्गारवर्णमभितोण्डबहिःप्रभाभिर्व्याप्तं परश्वधधनुर्धरमेकवीरम्। ध्यायेदजेशपुरुहूतमुखैस्तुवद्भिरावीतमात्मपदवीं प्रतिपादयन्तम् ॥३५॥
~~~
श्यामं रवीन्द्वमितदीधितिकान्तियुक्तं ज्ञानं शरं च दधतं प्रियया समेतम्। स्वात्मस्वरूपममितं हनुमन्मुखेषु सन्दर्शयन्तमजितं स्मरतोरुगीर्भिः ॥३६॥
~~~
निजगोत्रं तु सोद्देशं पूर्वाक्षरपुरःसरम्। नत्यन्तं तारपूर्वं च मनुरष्टाक्षरो मतः ॥३७॥
~~~
ते च बीजे बीजभूते धर्मादीनामशेषतः। एते विजयदा मन्त्रा ज्ञानमोक्षप्रदायकाः ॥ हिरण्यरत्नराज्यादिसमभीष्टसुरद्रुमाः ॥३८॥
~~~
कृष्णो गोविच्च कामेतः सोद्देशो वल्लवीजनः। प्रियश्च तादृशस्वाहायुक्तोष्टादशवर्णकः ॥ पदैरङ्गानि सम्प्रीतिकाममोक्षप्रदो मनुः ॥३९॥
~~~
ध्यायेद्धरिन्मणिनिभं जगदेकनाथं सौन्दर्यसारमरिशङ्खवराभयानि। दोर्भिर्दधानमजितं सरसं च भैष्मीसत्यासमेतमखिलप्रदमिन्दिरेशम् ॥४०॥
~~~
सकामः स्वयमुद्देशी नत्यन्तोयं षडक्षरः। तदादिरपि सर्वेष्टचिन्तामणिरुदाहृतः ॥४१॥
~~~
दृष्टार्थ एव मन्त्राणां कलौ वीर्यं तिरस्कृतम्। तत्राप्युद्दीप्तवीर्या हि मन्त्रा अत्र प्रकीर्तिताः ॥ वासिष्ठवृष्णिप्रवरमन्त्रास्तत्रापि वीर्यदाः ॥४२॥
~~~
स्वयं वेदपदारूढः पूर्ववर्णपुरःसरः। नत्यन्तोष्टाक्षरो मन्त्रो प्रियो विज्ञानगोपतेः ॥४३॥
~~~
व्याख्याश्रीसर्वविज्ञानकवितादिगुणप्रदः। वादे विजयदो नित्यं यथा युद्धे नृकेसरी ॥४४॥
~~~
विज्ञानरोचिः परिपूरितान्तबाह्याण्डकोशं हरितोपलाभम्। तर्काभयेतं विधिशर्वपूर्वगीर्वाणविज्ञानदमानतोस्मि ॥४५॥
~~~
ज्ञानानन्दपुरःपूर्णो विद्महे धीमहे तथा। तन्नः प्रेरणमध्ये तु व्यासो मन्त्राधिपाधिपः ॥४६॥
~~~
आदिबीजं स्थिरादोषज्ञानबीजं विमुक्तिदम्। सर्वपापक्षयकरं सर्वव्याधिविनाशनम् ॥४७॥
~~~
ध्यायेच्छशाङ्कशतकोट्यतिसौख्यकान्तिं संसिच्यमानममृतोरुघटैः सुरेशैः। वर्णाभिमानिभिरजेशमुखैः सहैव पञ्चाशता प्रतिगिरन्तमशेषविद्याः ॥४८॥
~~~
सोद्देशस्तु स्वयं दीर्घपूर्वाद्यार्णो नमोयुतः। सर्वविद्याप्रदोष्टार्णः प्रतिवादिजयप्रदः ॥ विमुक्तिसाधनः कीर्तिबुद्धिस्थैर्यप्रदः सदा ॥४९॥
~~~
वन्दे तुरङ्गवदनं शशिबिम्बसंस्थं चन्द्रावदातममितात्मकरैः समन्तात्। अण्डान्तरं बहिरपि प्रतिभासयन्तं शङ्खाक्षपुस्तकसुबोधयुताब्जबाहुम् ॥५०॥
नस्तो मुखादपि निरन्तरमुद्गिरन्तं विद्या अशेषत उताब्जभवेशमुख्यैः। संसेव्यमानमतिभक्तिभरावनम्रैर्लक्ष्म्यामृतेन सततं परिषिच्यमानम् ॥५१॥
~~~
स्वयमुद्देशवान् पूर्ववर्णपूर्वो नमोयुतः। सतारोष्टाक्षरश्चैव नवार्णश्च मनू स्मृतौ ॥५२॥
~~~
प्रोद्यद्दिवाकरसमानतनुं सहस्रसूर्योरुदीधितिभिराप्तसमस्तलोकम्। ज्ञानाभयाङ्कितकरं कपिलं च दत्तं ध्यायेदजादिसमितिं प्रतिबोधयन्तम् ॥५३॥
~~~
अधृष्यताज्ञानमोक्षप्रदौ भक्तेष्विमौ सदा। सूक्तं दीर्घतमोदृष्टं विष्णोर्नु कं इति प्रभोः ॥५४॥
सर्वार्थदं गार्त्समदं यो जात इति चापरम्। वासिष्ठं च परो मात्रयेति ज्ञानविमुक्तिदम् ॥५५॥
भौवनीयं सर्वकाममोक्षदं य इमेत्यपि। एवमेवाखिला वेदा ज्ञातव्या विष्णुतत्पराः ॥५६॥
~~~
स्वदृष्टं सूक्तमखिलं कामदं हरितुष्टिदम्। वाचोम्भृण्याः श्रियोङ्गानि श्रीर्लक्ष्मीर्मेन्दिरा रमा ॥५७॥
~~~
कौशेयपीतवसनामरविन्दनेत्रां पद्मद्वयाभयवरोद्यतपद्महस्ताम्। उद्यच्छतार्कसदृशीं परमाङ्कसंस्थां ध्यायेद्विधीशनुतपादयुगां जनित्रीम् ॥५८॥
~~~
लज्जाबीजं च तद्बीजं तस्या एवाभिधायकम्। पाशाङ्कुशौ रक्तवस्त्रं लज्जाबीजे विशिष्यते ॥५९॥
~~~
अमध्ययुग्मस्वरगतेनैवाङ्गमुदाहृतम्। सत्ताबीजं च दुर्बीजं तद्वदेव प्रकीर्तितम् ॥६०॥
~~~
वर्णः श्यामो विशेषोत्र ताम्बूलं नीलमुत्पलम्। शङ्खचक्रौ तर्जनश्च शूलमित्यपरत्र च ॥६१॥
~~~
नमोन्तं स्वेन सहितस्तदेवान्यो मनुः स्मृतः। दुर्गा त्रिष्टुप् कश्यपोक्ता तत्र वर्णोग्निवत् स्मृतः ॥६२॥
~~~
त्रिनेत्रत्वं च दुर्गायाः प्रायः सर्वत्र कथ्यते। पादैः समस्तेन तथा षड्वर्णेनाङ्गमुच्यते ॥६३॥
~~~
रमाया एव रूपाणि त्वेतानि हि विदो विदुः। मुख्यतो जामदग्न्यस्तु देवतास्य मनोः स्मृतः ॥६४॥
~~~
हिरण्यगर्भसूक्तं च भृगुदृष्टं प्रकीर्तितम्। ब्रह्मधातृविरिञ्चाजपाद्मैरङ्गमुदाहृतम् ॥६५॥
~~~
ध्यायेन्निषण्णमजमच्युतनाभिपद्मे प्रोद्यद्दिवाकरसमूहनिकाशमग्र्यम्। मातृप्रकारकरमुत्तमकान्तिमद्भिर्वक्त्रैः सृजन्तमखिलैः परमार्थविद्याः ॥६६॥
~~~
स्वयमुद्देशनतिमांस्तस्य पञ्चाक्षरो मनुः। स्वयमेवापरोष्टार्णस्तादृशः सम्प्रकीर्तितः ॥६७॥
~~~
बळाद्यं भृगुणा दृष्टं प्राणाग्नेः सूक्तमुच्यते। प्राणाद्यैः पञ्चभिस्तस्याप्यङ्गान्युक्तानि सूरिभिः ॥६८॥
~~~
उद्यद्रविप्रकरसन्निभमच्युताङ्के स्वासीनमस्य नुतिनित्यवचःप्रवृत्तिम्। ध्यायेद् गदाभयकरं सुकृताञ्जलिं तं प्राणं यथेष्टतनुमुन्नतकर्मशक्तिम् ॥६९॥
~~~
प्राणाद्याः पञ्चमन्त्राश्च तस्य देवस्य वाचकाः। उच्यते हरिरप्येतैः साक्षान्नारायणादिकः ॥७०॥
~~~
ब्रह्माण्या अपि भारत्या गौरीर्यस्त इति श्रुतौ। मन्त्रौ दीर्घतमोदृष्टौ सर्वाभीष्टप्रदायकौ ॥७१॥
~~~
उद्यद्दिवाकरसमूहनिभां स्वभर्तुरङ्केस्थितामभयसद्वरबाहुयुग्माम्। मुद्रां च तत्त्वदृशये वरपुस्तकं च दोर्युग्मकेन दधतीं स्मरतात्मविद्याम् ॥७२॥
~~~
पादैर्व्यस्तैः समस्तैश्च तदङ्गानि विदो विदुः। स्वयमुद्देशनत्यन्तौ मन्त्रौ द्वावपरौ तयोः ॥७३॥
~~~
मन्त्राः ह्येते हरेः प्रीतिदायकाः सर्वकामदाः। इष्टं देवं हरिः साक्षाल्लक्ष्मीर्भाग्यस्य देवता ॥ गुरुर्ब्रह्माऽथ वायुर्वा विद्यादेव्यौ प्रकीर्तिते ॥७४॥
~~~
तस्मादेते प्रिया विष्णोरन्तरङ्गतया सदा। ज्ञेयाश्चैव प्रपूज्याश्च विष्णोः प्रीतिमभीप्सता ॥७५॥
~~~
उद्देशनतियुङ्मन्त्रः स्वयमेव शिवस्य तु। वर्णैरेतैस्तदङ्गानि वामदेवो मुनिः स्मृतः ॥ पङ्क्तिशब्दार्थविज्ञाने न हि छन्दसि संशयः ॥७६॥
~~~
ध्येयः पञ्चमुखो रुद्रः स्फटिकामलकान्तिमान्। विद्युच्छुभ्रासितरजःश्यामान्यस्य मुखानि च ॥ जटावबद्धेन्दुकलः प्रियायुङ् नागभूषणः ॥७७॥
~~~
मन्त्रेष्वेतेषु सर्वेषु वाच्यस्तारेण केशवः। अन्तर्यामितया ध्येयः सर्वदेवेषु सर्वदा ॥७८॥
~~~
स एव वनितालिङ्गः पार्वत्याः मनुरुच्यते। गौरी वराभयकरा ध्येया पीताम्बरा च सा ॥७९॥
~~~
स्वयमुद्देशनत्यन्तः पूर्वपूर्वः षडक्षरः। सनत्कुमारदृष्टोयं मन्त्रः शेषस्य कामदः ॥८०॥
~~~
दधानो हलसौनन्दौ श्वेतवर्णः कृताञ्जलिः। सहस्रमूर्धाद्वितीयकर्णभूषः प्रियायुतः ॥ वनमाली नीलवासा ध्येयो विष्णोस्तु पृष्ठतः ॥८१॥
~~~
व्यत्यस्तपक्षितारौ च स्वाहान्तो गारुडो मनुः। काश्यपोऽस्य मुनिर्ध्येयो सुधापूर्णं हिरण्मयम् ॥८२॥
दधानः कुम्भमभयं पीतशुक्लारुणो हरिः। कृष्णश्चाजानुतो नाभेः कण्ठात् कादन्त एव च ॥८३॥
~~~
प्रियायुक् पुरतो विष्णोः पक्षतुण्डसमन्वितः। जङ्गमस्थावरविषहृदयं सर्वकामदः ॥८४॥
~~~
मन्त्राश्च लोकपालानां नमोन्तः सर्वकामदाः। पीतरक्तासितश्वेतरक्तशुक्लाश्च वर्णतः ॥८५॥
~~~
सप्रियाः साभयाः वज्रशक्तिदण्डासिपाशिनः। गदाकुमुदशूलर्ष्टिखङ्गिनो भूषणोज्ज्वलाः ॥८६॥
~~~
अग्निश्च स्वयमुद्देशी सनमः स्कन्दवाचकः। कौशिकोस्य मुनिर्वह्निवर्णः षण्मुख उज्ज्वलः। धनुःशक्तिधरो ध्येयो कामदो भयनाशनः ॥८७॥
~~~
ह्रस्वः कृपालुः सेतश्च स्वयमन्यः स्वयं तथा। सतारोष्टाक्षरः सौरः क्रमव्युत्क्रमतः पदैः ॥८८॥
अङ्गानि पद्मयुगलधरो ध्येयोरुणो रविः। सर्वव्याधिहरः श्रीदो वृष्टिदोयं मनुः स्मृतः ॥८९॥
~~~
मोनयदासाप्रप्रक्षि व्यत्यस्तो विघ्नराण्मनुः। रक्ताम्बरो रक्ततनू रक्तमाल्यानुलेपनः ॥९०॥
~~~
महोदरो गजमुखः पाशदन्ताङ्कुशाभये। बिभ्रद्ध्येयो विघ्नहरः कामदस्त्वरया ह्ययम् ॥९१॥
~~~
तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन्। एक एव महाशक्तिः कुरुते सर्वमञ्जसा ॥९२॥
~~~
स्वयमुद्देशवान् पूर्वपूर्वो हृदयसंयुतः। धान्वतरो महामन्त्रः संसृतिव्याधिनाशनः ॥ अत्रोक्तसर्वमन्त्राणां नायकोपलसन्निभः ॥९३॥
~~~
चन्द्रौघकान्तिममृतात्मकरैर्जगन्ति सञ्जीवयन्तममितात्मसुखं परेशम्। ज्ञानं सुधाकलशमेव च सन्दधानं शीतांशुमण्डलगतं स्मरतात्मसंस्थम् ॥९४॥
~~~
मूर्ध्नि स्थितादमुत एव सुधां स्रवन्तीं भ्रूमध्यगाच्च तत एव च तालुसंस्थात्। हार्दाच्च नाभिसदनादधरस्थिताच्च ध्यात्वाभिपूरिततनुर्दुरितानि हन्यात् ॥९५॥
~~~
अज्ञानदुःखभयरोगमहाविषाणि योगोयमाशु विनिहन्ति सुखं च दद्यात्। उन्मादविभ्रमहरः परश्च सान्द्रस्वानन्दमेव पदमापयति स्म नित्यम् ॥९६॥
~~~
ध्यात्वैव हस्ततलगं स्वमृतं स्रवन्तं देवं स यस्य शिरसि स्वकरं निधाय। आवर्तयेन्मनुमिमं स च वीतरोगः पापादपैति मनसा यदि भक्तिनम्रः ॥९७॥
~~~
शतं सहस्रमयुतं लक्षं वारोगसङ्क्षयात्। इममेव जपेन्मन्त्रं साधूनां दुःखशान्तये ॥९८॥
~~~
ज्वरदाहादिशान्त्यर्थं तर्पयेन्मनुनामुना। ध्यात्वा हरिं जले सप्तरात्राज्जूर्तिर्विनश्यति ॥९९॥
~~~
अयुतामृतसमिद्धोमाद् गोघृतक्षीरसंयुतात्। सर्वरोगा विनश्यन्ति विमुखो न हरेर्यदि ॥१००॥
~~~
भूताभिचारशान्त्यर्थमपामार्गाहुतिक्रिया। द्विगुणामृतया पश्चात् केवलेन घृतेन वा ॥१०१॥
~~~
आयुर्विवृद्धये नित्यं जन्मनक्षत्र एव वा। चतुश्चतुर्भिदूर्वाभिः क्षीराज्याक्ताभिरिष्यते ॥१०२॥
~~~
सर्वक्रिया हरौ भक्ते हरिभक्तैः स्वनुष्ठिताः। गुरुभक्तैः सदाचारैः फलन्त्यद्धा न चान्यथा ॥१०३॥
~~~
ब्रह्मान्ताः गुरवश्चैव सम्प्रदायप्रवर्तकाः। तत्तद्गुणानुसारेण पूज्याः मान्याश्च सर्वशः ॥१०४॥
~~~
सर्वेभ्योऽप्यधिका भक्तिर्विष्णौ स्यादतिनिश्चला। लक्ष्मीब्रह्मादिषु ततः क्रमेण स्यात् सुभाविता। एवं विद्याः फलिष्यन्ति नान्यथा तु कथञ्चन ॥१०५॥
~~~
शुभान् ध्यायन्ति ये कामान् गुरुदेवप्रसादजान्। इतरानात्मपापोत्थांस्तेषां विद्या फलिष्यति ॥१०६॥
~~~
मुक्तावपि च संसारे नात्मनो विष्णुतां क्वचित्। ब्रह्मरुद्रादिभावं वा साम्यं वाधिक्यमेव वा ॥१०७॥
अतद्वशत्वमथवा यः स्मरेत् स तु सिद्धिभाक्। नान्यथा सिद्धिमाप्नोति कल्पकोटिशतैरपि ॥१०८॥
~~~
स्मृत्वा गुरुं पूर्वगुरुमादिमूलगुरूंस्तथा। देवतां वासुदेवं च विद्याभ्यासी तु सिद्धिभाक् ॥१०९॥
~~~
अवज्ञाता गुरूणां च देवतानां न सिद्ध्यति। प्रयाति च तमो घोरं मन्त्रावज्ञाकृदेव च ॥११०॥
~~~
यस्तारतम्यवेत्ता स्याद् गुरूणां देवतास्वपि। भक्तिमान् गुरुदेवेषु तद्भक्तेषु च सिद्ध्यति ॥१११॥
~~~
गुरुदेवप्रतीपानां विमुखस्तत्प्रिये रतः। अकामक्रोधलोभश्च न चिरात् सिद्धिमाप्नुयात् ॥११२॥
~~~
सकामेभ्योमितगुणा याकामैस्तु कृता क्रिया। तस्मादकाम एवालं भजेद्विष्णुं सनातनम् ॥११३॥
~~~
अयं मे हस्त इति च मन्त्रः पूर्वोक्तवत्स्मृतः। अत्रोक्तास्तु क्रियाः सर्वमन्त्रेष्वप्युपलक्षणम् ॥११४॥
~~~
विजयस्तम्भनादीनि नारसिंहैर्विशेषतः। जामदग्न्यैश्च कार्याणि राघवैर्यादवैरपि ॥ वाराहैः स्तम्भनं क्षिप्रं श्रीकराः कथिताः पुरा ॥११५॥
~~~
बहुबाहुं महाकायमुद्युक्तं चोद्यतायुधम्। स्मरन् विजयमाप्नोति स्तम्भनादींश्च कारयेत् ॥११६॥
~~~
वसुपूर्णकरं रत्नपर्वतस्थं विभावयन्। वसुसिद्धिमवाप्नोति सेव्यमानमजादिभिः ॥ श्रिया विभूतिभिर्युक्तं भावयन् भूतिमाप्नुयात् ॥११७॥
~~~
यद्यन्मनोगतं तस्य तत्तदाप्नोत्यसंशयम्। तथा तथा हरिं ध्यायन् क्रियास्तास्ताश्च साधयन् ॥११८॥
~~~
श्रिये पद्मानि जुहुयात् सम्प्रीत्या उत्पलानि च। शरान् जयाय जुहुयादभिमन्त्र्य प्रयोजयेत् ॥११९॥
~~~
विद्यायै मन्त्रितं वारि वचां वा तुलसीमपि। ब्राह्मीं घृतं सुवर्णं वा शतावृत्त्या तु नित्यशः ॥१२०॥
~~~
अकुर्वंश्च क्रिया भक्त्या निरपेक्षो भजन् हरिम्। सर्वमेतदवाप्नोति विशेषेण न संशयः ॥१२१॥
~~~
सृष्टिस्थितलयन्यासाः प्रातिलोम्यानुलोम्यतः। स्थित्यन्ता एव वर्णानां श्रेष्ठा एव चतुर्दश ॥ संहृत्यन्ता मोक्षिणां तु एकविंशतिरेव वा ॥१२२॥
~~~
पादहृत्केषु नाभ्यास्ययुक्तं च सललाटकम्। सनासिकादृग्जान्वोश्च सश्रोत्रं सोरुकं तथा ॥१२३॥
सोरस्कं च सकण्ठं च सभुजद्वयमेव च। सगण्डयुग्मं सालीकं सतुण्डं क्रोडकं तथा ॥१२४॥
~~~
समूलं च सगुह्यं च सपार्श्वद्वयमेव च। सदोर्द्वयं व्यापकं च गलपार्श्वद्वयं तथा ॥१२५॥
ककुत्स्तनद्वयेनापि पृष्ठभागेन सर्वशः। न्यासो यथाक्रमं प्रोक्तो मन्त्रेष्वेतेषु कृत्स्नशः ॥१२६॥
~~~
प्रतिमायामात्मनि च न्यासोयं सन्निधानकृत्। बीजान्तःसाध्यमध्यं च विभक्तदलमन्त्रयुक् ॥१२७॥
वर्णानुप्रतिलोमेन वृत्तं भूपुरसंयुतम्। बीजसन्दृब्धकोणं च यन्त्रं रक्षादिसाधनम् ॥१२८॥
~~~
समं तत्सर्वमन्त्रेषु जप्तं धार्यं तु वा भुवि। विलिख्य मण्डले वा तत्पूजयेद्धरिमञ्जसा ॥१२९॥
~~~
प्रतिमोक्तलक्षणैर्यावद्युक्त आचार्य उत्तमः। सर्ववित् तपसा युक्त आज्ञाशक्तियुतो हरेः ॥१३०॥
यावद्भक्तो यथा लब्धैर्गुणैर्युक्तोथ वैष्णवः। गुरुः सत्सम्प्रदायज्ञस्तारतम्येन सिद्धिदः ॥१३१॥
~~~
उत्तमादुत्तमा सिद्धिर्धर्ममोक्षेषु स्फुटम्। तस्मादुत्तम आचार्ये लब्धे नातोवरं व्रजेत् ॥१३२॥
~~~
एकस्य शिष्यतां प्राप्य तदाज्ञां न विना समम्। अवरं वा व्रजेदुच्चगुणश्चेन्नैव दुष्यति ॥१३३॥
~~~
विशेषतो गुणश्च स्याद् देवेष्वप्येवमेव हि। तस्मादुत्तममाचार्यं देवेशं चाश्रयेद्धरिम् ॥१३४॥
~~~
अपरोक्षदृशेरेव यस्मान्मोक्षो न चान्यथा। अपरोक्षदृशिश्चैव श्रवणान्मननादनु ॥ सम्यङ्निश्चिततत्त्वस्य निदिध्यासनया भवेत् ॥१३५॥
~~~
द्विविधा सा च सम्प्रोक्ता विष्णुशास्त्रावमर्शनम्। एकं ध्यानं हरेरन्यच्चत्वार्यङ्गानि तस्य च ॥ यमाश्च नियमाश्चासा प्राणायाम इतीरितः ॥१३६॥
~~~
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ। यमाः शौचं तपस्तुष्टिः स्वाध्यायो हरिपूजनम् ॥ नियमा वीरपद्मे च स्वस्तिकाद्यानि चासनम् ॥१३७॥
~~~
रेचकः पूरकश्चैव कुम्भकश्च त्रिधा स्मृतः। प्राणायामः स्मृतिं विष्णोर्विना नियम उच्यते ॥१३८॥
~~~
अधीतिस्मृतियुक्तो हि निदिध्यासनमेव हि। प्राणायामेपि विष्णोर्यत्स्मरणं ध्यानमेव हि ॥१३९॥
~~~
आसा शौचं प्राणायामो निष्परिग्रहपूर्वकाः। तपआद्याः क्रमात् सर्व उत्तरोत्तरतोधिकाः ॥ सर्वस्माच्छ्रवणाद्यास्तु मुख्या मुक्तिप्रसाधने ॥१४०॥
~~~
अज्ञस्य श्रवणं श्रेष्ठमयुक्तेर्मननं तथा। ध्यानं निश्चिततत्त्वस्य तस्माच्छास्त्रावमर्शनम् ॥१४१॥
वरं दशगुणं तस्मात् व्याख्यैकस्य शतोत्तरा। अपरोक्षदृशाप्येषा कर्तव्या विष्णुतुष्टिदा ॥१४२॥
~~~
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति। भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥१४३॥
~~~
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः। भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥१४४॥
~~~
शौचासने त्वङ्गमात्रं न पृथङ्धर्मकारणम्। प्राणायामादयस्तुष्टिपर्यन्ता द्विगुणाधिकाः ॥१४५॥
~~~
स्वाध्यायो कोटिगुणस्ततोनन्तगुणा हरेः। पूजातस्त्रिगुणं ध्यानमिति धर्मक्रमः स्मृतः ॥१४६॥
~~~
ऊर्वोरधः पदोरूर्ध्वं त्रिभागेनेति च त्रिधा। आसनत्रयमुद्दिष्टं मन्त्रस्मरणपूर्वकम् ॥१४७॥
~~~
द्विगुणोत्तरं रेचकादि षोडशादिक्रमेण तु। मात्राणां ह्रस्ववर्णस्य कालो मात्रेति शब्द्यते ॥१४८॥
~~~
क्रमेणैवाभ्यसेन्मात्रावृद्धिमेकाग्रधीः पुनः। रेचयित्वा दक्षिणतः पूरयित्वा च वामतः ॥ कुम्भकश्च सुषुम्नायां विष्णुं वायुं च संस्मरेत् ॥१४९॥
~~~
मूलाधारं समारभ्य त्वामूर्धानमृजुस्थिता। मध्ये सुषुम्ना विज्ञेया वज्रिकार्या प्रकाशिनी ॥१५०॥
वैद्युता ब्रह्मनाडीति सैव पञ्चप्रभेदिनी। पृष्ठवामाग्रदक्षान्तर्भेदास्तेषु च क्रमेण तु ॥१५१॥
हरिर्नीलः सितः पिङ्गो लोहितश्चात्र केशवः। प्रद्युम्नादिस्वरूपेण ध्येयः सिद्धिमभीप्सता ॥१५२॥
~~~
मूले च नाभौ हृदयेन्द्रयोनिभ्रूमध्यमूर्धि द्विषडन्तकेषु। चतुःषडष्टद्विचतुर्द्विषट्कदलेषु पद्मेषु सितारुणेषु ॥ पञ्चात्मकोसौ भगवान् सदैव ध्येयो हृदन्तान्यरुणानि तानि ॥१५३॥
~~~
त्रिकोणवह्नौ च षडस्रवायौ द्विस्तावदस्ररविवृत्तशशित्रिवह्नौ। वृत्ते विधावपि विचिन्त्यमिदं दशार्ध रूपं सितं तदखिलं हृदयात् परस्थम् ॥१५४॥
~~~
इडा च पिङ्गला चैव वज्रिका धारिणी तथा। सुषुम्नायाश्चतुर्दिक्षु वज्रिकाद्यासु तत्र च ॥ चतुर्मूर्तिः स भगवान् हृदये संव्यवस्थितः ॥१५५॥
~~~
द्वासप्ततिसहस्राणि नाड्योन्यास्तु प्रधानतः। बृहतीसहस्रस्पर्शानामृचां वाच्योत्र केशवः ॥१५६॥
~~~
रूपाणां लक्षणं तेषां रहस्यत्वान्न कथ्यते। विष्णुना ब्रह्मणे प्रोक्तं ग्रन्थसङ्कोचतस्तथा ॥१५७॥
~~~
खण्डस्मृतिर्धारणा स्यादखण्डा ध्यानमुच्यते। अप्रयत्नात् समाधिश्च दर्शनं चिरया तया ॥ अथवा सततं शास्त्रविमर्शेन भविष्यति ॥१५८॥
~~~
परमस्नेहसंयुक्तयथार्थज्ञानतो भवेत्। सा भक्तिरिति विज्ञेया साधनं भोगमोक्षयोः ॥१५९॥
~~~
मुख्यमेषैव नान्यत् स्यात् सर्वं व्यर्थं तया विना। सैकाप्यभीष्टफलदा मोक्षो दर्शनयुक्तया ॥१६०॥
~~~
दर्शनं तु तया हीनं व्यर्थमन्यत् किमुच्यते। योग्यं तु दर्शनं नैव तया हीनं भविष्यति ॥१६१॥
~~~
आनन्दचित्सदितिपूर्वगुणैः समस्तैर्मर्त्यादिभिर्विधिपरैर्भगवान् क्रमेण। ध्यातोधिकैरधिगुणोधिकमेव सौख्यं मुक्तौ ददाति सततं परमस्वरूपः ॥१६२॥
~~~
निर्दोषाखिलसम्पूर्णगुणेन हरिणा स्वयम्। ब्रह्मणे कथितात् तन्त्रसारादुद्धृत्य सादरम् ॥ आनन्दतीर्थमुनिना कृतो ग्रन्थोयमञ्जसा ॥१६३॥
~~~
ग्रन्थोयं पाठमात्रेण सकलाभीष्टसिद्धिदः। किमु ज्ञानादनुष्ठानादुभयस्मात् पुनः किमु ॥१६४॥
~~~
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत्। वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥१६५॥
~~~
अशेषदोषोज्झितपूर्णसद्गुणं सदा विशेषापगतोरुरूपम्। नमामि नारायणमप्रतीपं सदा प्रियेभ्यः प्रियमादरेण ॥१६६॥
~~~
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते तन्त्रसारसङ्ग्रहे चतुर्थोध्यायः॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.