Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 02.06 and 07
तस्माद्वा एतस्मादन्नरसमयात्। अन्योऽन्तर आत्मा प्राणमयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधताम्। अन्वयं पुरुषविधः। तस्य प्राण एव शिरः। व्यानो दक्षिणः पक्षः। अपान उत्तरः पक्षः। आकाश आत्मा। पृथिवी पुच्छं प्रतिष्ठा ॥६॥
तदप्येष श्लोको भवति। प्राणं देवा अनु प्राणंति। मनुष्याः पशवश्च ये। प्राणो हि भूतानामायः। तस्मात्सर्वायुषमुच्यते। सर्वमेव त आयुर्यंति। ये प्राणं ब्रह्मोपासते। प्राणो हि भूतानामायुः। तस्मात्सर्वायुषमुच्यत इति। तसैष एव शारीर आत्मा। यः पूर्वस्य ॥७॥
Taittirīya Bhāshya 02.07
"त्स्याऽतरं परं रूपमभिन्नमपि भिन्नवत्। प्रद्युम्नाख्यं प्राणमयं प्रणेत्रुत्वात् प्रकीर्तितम्॥
शिरस्तस्य प्राणगतं प्राण इत्येव नामतः। व्यानाख्यो दक्शिणः पक्शो व्यानगश्चोत्तरस्थथा॥
शिरस्तस्य प्राणगतं प्राण इत्येव नामतः। व्यानाख्यो दक्शिणः पक्शो व्यानगश्चोत्तरस्थथा। अपानाख्योऽपानगत आकाशस्थं च मध्यमम्। आकाशाख्यं तथा पुच्छं प्रुथिव्यां प्रुथिविनामकम्॥
विशेषाच्चेष्टयेत्यस्माद् व्यानाख्यो दक्शिनणः करः। यस्मादपनयेद्दोषानपानस्सव्य उच्यते॥
आकाशस्त्ववकाशत्वात् मध्यदेहो महात्मनः। प्रुथ्वी पुच्छमस्योक्तं सर्वव्यापि प्रधारणात्॥
स येष जगतामायः..."

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.