Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 02.08 and 09
तस्माद्वा एतस्मात् प्राणमयात्। अन्योऽन्तर आत्मा मनोमयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधताम्। अन्वयं पुरुषविधः। तस्य यजुरेव शिरः । ऋग् दक्षिणः पक्षः। सामोत्तरः पक्षः । आदेश आत्मा। अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा ॥८॥
तदष्येश श्लोको भवति। यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्। न बिभेति कदाचनेति। तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥९॥
Taittirīya Bhāshya 02.08 and 09
... तस्मिन् सङ्कर्षणः स्थितः। शिरस्तस्य यजुर्नाम यज्ञानां हरणात् स्मृतम्॥
यजुःसंस्थं च बाहू तु ऋक्सामान्तःस्थितौ सदा। ऋगर्चनायाः स्वीकारात् साम दोषात् समीकृतेः॥
पञ्चरात्रगतं मध्यमादेशाख्यं सुविस्तृतेः। अथर्वाख्यं तथा पुच्छमधरं चाङ्गिनां रसः। मनोवाचामगम्यं तं ज्ञात्वाऽऽनन्दस्वरूपिणम् ॥
कुतश्चिन्न बिभेत्येव ...

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.