Taittirīyopaniṣat 02.05
तदप्येष श्लोको भवति। अन्नाद्वै प्रजाः प्रजायन्ते। याः काश्च पृथिवीग्ग् श्रिताः। अथो अन्नेनैव जीवन्ति। अथैनदपियन्त्यन्ततः। अन्नगं हि भूतानां ज्येष्ठम्। तस्मात् सर्वौषधमुच्यते। सर्वं वै तेऽन्नमाप्नुवन्ति। येऽन्नं ब्रह्मोपासते। अन्नगं हि भूतानां ज्येष्ठम्। तस्मात् सर्वौषधमुच्यते। अन्नाद् भूतानि जायन्ते। जातान्यन्नेन वर्धन्ते। अद्यतेत्ति च भूतानि। तस्मादन्नं तदुच्यत इति ॥५॥
Taittirīya Bhāshya 02.05
"स एष भगवान् विष्णुर्भूतस्रष्टा गुणाधिकः। स एवान्नात् पुनर्जातो ह्यजातोऽपि यतो विभुः॥
अन्नात्मनि शरीरेऽसौ व्यज्यते सुविवेकिभिः। अन्नस्य सारभूतोऽयं शरीरस्य च केशवः॥
अन्ननामा चान्नसंस्थः शरीरेषु च संस्थितः। अत्तृत्वात् सर्वलोकानामन्नमित्युच्यते हरिः॥
उपजीव्यश्च भूतानामिति चान्नं जनार्दनः। स ज्यायान् सर्वभूतेभ्यस्तस्मात् सर्वौषधं स्मृतः। संसारे दह्यमानानामाश्रयत्वात् स औषधम्॥
प्रचुरं मय इत्युक्तं प्रचुरात्ता यतो हरिः। प्रचुरैस्सेव्यते नित्यमतोऽन्नमय ईरितः॥
देहस्यैव शिरस्यस्य शिरो विष्णोः प्रतिष्ठितम्। बाह्वोः पक्षौ तथा मध्ये मध्यं पश्चात्तनौ तथा॥ पुच्छमित्येष भगवाननिरुद्धः स्वयं हरिः॥"