Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 01.15
स य एषोऽन्तर्हृदय आकाशः। तस्मिन्नयं पुरुषो मनोमयः। अमृतो हिरण्मयः। अन्तरेण तालुके। य एषस्तन इवावलम्बते। सेन्द्रयोनिः। यत्रासौ केशान्तो विवर्तते। व्यपो ह्यशीर्षकपाले ॥१५॥
Taittirīya Bhāshya 01.15
"य एष हृदयाकाशस्त्वनिरुद्धस्तु तद्गतः। प्रद्युम्नस्तालुमध्यस्थो लम्बिन्यामिन्द्रनामकः॥
व्याख्यः सुपर्णरूपत्वात् केशान्ते वर्तते तु यः। सङ्कर्षणः सुपर्णात्मा वासुदेवो वृपः स्मृतः॥ यस्माद् व्यपगत स्थाता जगति प्रलये विभुः। अशीर्षककपालोऽसौ कपालादुपरि स्थितः॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.