Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 01.14
भूरिति वा अयं लोकः। भुवः इत्यन्तरिक्षम्। सुवरित्यसौ लोकः। मह इत्यादित्यः। आदित्येन वाव सर्वे लोका महीयन्ते।
भूरिति वा अग्निः। भुव इति वायुः। सुवरित्यादित्यः। मह इति चन्द्रमाः। चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते।
भूरिति वा ऋचः। भुव इति सामानि। सुवरिति यजूंषि। मह इति ब्रह्म। ब्रह्मणा वाव सर्वे वेदा महीयन्ते।
भूरिति वै प्राणः। भुव इत्यपानः। सुवरिति व्यानः। मह इत्यन्नम्। अन्नेन वाव सर्वे प्राणा महीयन्ते।
ता वा एताश्चतस्रश्चतुर्धा। चतस्रश्चतस्रो व्याहृतयः। ता यो वेद। स वेद ब्रह्म। सर्वेऽस्मै देवा बलिमावहन्ति ॥१४॥
Taittirīya Bhāshya 01.14
"लोकज्योतिःप्राणवेदेष्वेकः स पुरुषोत्तमः। प्रत्येकशश्चातुरात्म्यात् षोडशात्मा प्रकीर्तितः॥
महीयते महति च स्वयं स भगवान् हरिः। पूज्यपूजकभेदोऽत्र नैव कश्चिदपीष्यते॥ नामप्रवृत्तिहेतुत्वात् नाम लोकादिकं हरेः। अयं समीपस्थतया त्वसौ प्राणे स्थितत्वतः॥
ईक्षणादन्तरिक्षं चाथादित्यस्थोऽदितेः सुतः। अग्निरग्नौ स्थितत्वाच्च वायुर्वयति यज्जगत्॥
चन्द्र आह्लादरूपत्वात् ऋगर्च्यत्वाज्जनार्दनः। यजुर्याज्यस्वरूपत्वात् साम चासौ समत्वतः॥
बृहत्वात् ब्रह्म वेदानां समुदायेऽखिले स्थितः। तत्सम्बन्धाद् वेदराशिर्ब्रह्मशब्देन कीर्तितः॥
प्रकृष्टनयनात् प्राणोऽपानोऽवाङ्नयनाद्धरिः। विविधं नयनाद्व्यानः सोऽन्नं सर्वोपजीव्यतः॥
एवं षोडशरूपोऽसौ चतुरात्मा व्यवस्थितः। महाचमसनामासौ यस्मादतिचमत्कृतिः॥
माहाचमस्यस्तज्ज्ञानी ब्रह्मा सम्परिकीर्तितः। एवं षोडशरूपाणां ज्ञानयोग्यश्चतुर्मुखः॥
स एव ब्रह्मवित् तस्मात् पूज्यते मुक्तिगोऽपि सन्। सर्वदेवैरतितरां यस्सम्यक् षोडशात्मवित्॥"
इति व्याहृतितत्त्वे।
"तस्य भूरिति शिरः। एकं शिरः। एकमेतदक्षरम्। भुव इति बाहू । द्वौ बाहू। द्वे एते अक्षरे। सुवरिति प्रतिष्टे। द्वे प्रतिष्ठे। द्वे एते अक्षरे॥"
इत्यादिश्रुतेः।
सर्वव्याहृतीनां प्रवेत्ता माहाचमस्यः चतुर्थीत्वेन एतां प्रवेदयत इति विशेषः। भूर्नामा स्फूर्तिरूपत्वात् भूरिवीर्यत्वतो भुवः। सुवः सुबलरूपत्वात् महः पूर्णत्वतो विभुः॥ तदेतच्चतुराकारं ब्रह्मोक्तं गुणबृंहणात्।
"स आत्मा सर्वदेवानां चतुरात्मा जनार्दनः। तस्य ब्रह्मादयो देवा अङ्गमागन्तुकत्वतः॥
वासुदेवादिरूपोऽसौ षोडशात्मा चतुश्चतुः। स एव सर्ववेदोक्तः सर्वविद्यासु चेश्वरः॥
प्रणवार्था व्याहृतयो व्याहृत्यर्था ऋगादयः। इतिहासपुराणं च पञ्चरात्रं च सर्वशः॥
सम्यग् व्याहरणात् विष्णोः श्रुता व्याहृतयस्त्विति। सर्ववेदोक्त सर्वस्वव्याहृतेर्व्याहृतित्वमु। विशेषेणाऽहरन्तीमं विष्णुमित्यथवा स्मृताः॥"
इति व्याहृति सारे ॥१४॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.