Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 01.16 and 17
भूरित्यग्नौ प्रतितिष्ठति। भुव इति वायौ। सुवरित्यादित्ये। मह इति ब्रह्मणि। आप्नोति स्वाराज्यम्। आप्नोति मनसस्पतिम्। वाक्पतिश्चक्षुष्पतिः। श्रोत्रपतिर्विज्ञान पतिः। एतत्ततो भवति ॥१६॥
आकाशशरीरं ब्रह्म। सत्यात्म प्राणारामं मन आनन्दम्। शान्तिसमृद्धममृतम्। इति प्राचीनयोग्योपास्व ॥१७॥
Taittirīya Bhāshya 01.16 and 17
अनिरुद्धस्तु भूर्नामा हुताशे संव्यवस्थितः। प्रद्युम्नो भगवान् वायौ भुव इत्येव कीर्तितः॥
सङ्कर्षणः सुवार्नामा सूर्ये तिष्ठति केशवः। महोनामा वासुदेवो ब्रह्मणिस्थश्चतुर्मुखे॥
स वासुदेवः स्वाराज्यं व्याप्यास्मिन् मनसस्पतौ। अनिरुद्धे च संव्याप्तः ततो वागादिनां पतिः॥
वागादिषु स्थितो नित्यं भवत्येष जनार्दनः। स्वव्यापी च जगद्व्यापी नित्यैश्वर्यात् स ईश्वरः॥
आकाशवद् व्याप्तदेहः सत्यात्मा गुणपूर्तितः। वायोर्विशेषरमको बलानन्दस्वरूपवान्॥
ज्ञानानन्द स्वरूपोऽसौ शान्तिनामा सुखोन्नतेः। अन्तगत्वात् स्वतः पूर्तेः समृद्धं तत् प्रकीर्तितम्॥
इत्युपास्व प्राथमिको योग्यस्त्वं मदुपासने। प्राधान्यादिति पूर्वं हि प्राह विष्णुश्चतुर्मुखम्॥
इति ब्रह्मसारे॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.