Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 01.02
ॐ शिक्षां व्याख्यास्यामः। वर्णस्वरः। मात्रा बलम्। साम सन्तानः। इत्युक्तः शीक्षाध्यायः ॥२॥
Taittirīyopaniṣat 01.02
वरणीयो वर्णः। स्वरतेस्तु स्वरः। मानात् त्राता मात्रा। बलरूपः। समश्च सर्वरूपेषु। सन्ततश्च।
वर्णादिवाचकं रूपं ज्नेयं वरणादिनामकम्। विष्णोर्वर्णादिसंस्थं च पुंसु तत्तत्क्रियाप्रदम्॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.