Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 01.03
सह नौ यशः। सह नौ ब्रह्मवर्चसम्। अथातः सं हिताया उपनिषदं व्याख्यास्यामः। पञ्चस्वधिकरणेषु। अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम्। ता महासंहिता इत्याचक्षते ॥३॥
Taittirīya Bhāshya 01.03
"नारायणादिरूपाणि लोकादिषु च पञ्चसु। अनिरुद्धावसानानि ध्येयानि चतुरात्मना॥
वासुदेवादिकान्येव तानि पूर्वोत्तरार्णयोः। संहितायास्तथा संधौ संधाने चापि क्रुत्स्नशः॥
यो वेदैतानि रूपाणि सर्वभूगसमन्वितः। प्राप्नोति वैष्ण्वं स्थानं मुक्तः स्वर्गाभिधं परम्॥"

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.