Taittirīyopaniṣat 01.01
ॐ शंन्नो मित्रः शं वरुणः। शंन्नो भवत्वर्यमा। शंन्न इन्द्रो बृहस्पतिः। शंन्नो विष्णुरुरुक्रमः। नमो ब्रह्मणे। नमस्ते वायो। त्वमेव प्रत्यक्षं ब्रह्मासि। त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि। ऋतं वदिष्यामि। सत्यं वदिष्यामि। तन्मामवतु। तद्वक्तारमवतु। अवतुमाम्। अवतु वक्तारम्। ॐ शान्तिः शान्तिः शान्तिः ॥१॥
Taittirīyopaniṣat 01.01
सत्यं ज्ञानमनन्तमानन्दं ब्रह्म सर्वशक्त्येकम्। सर्वैर्देवैरीड्यं विष्ण्वाख्यं सर्वदैमि सुप्रेष्टम् ॥
"आदित्यसंस्थिताद्विषणोः श्रुत्वा ब्रह्मा यथा हरिम्। तुष्टाव तत्प्रकारेण व्रुणोक्तेन वै भृगुः॥
विष्णुम्स्तौत् तथा प्राह शन्नोमित्रादिका श्रुतिः। यदुवाच हरिस्सोर्यमंडलस्थः परः पुमान्॥
ब्रह्मा तदाह वरुणे वरुणो भृगवेऽपि तु। श्न्नोमित्रादिभिर्वाक्यैस्थैरेव हरिमस्तुवत्॥
भृगुः पंचात्मकं पूर्णमन्नादिमयमच्युतम्। मुक्तगीतावसानैस्तु स्तुतस्तेन जनार्दनः। सुप्रीतः प्रददौ ज्नानं स्वात्मभक्तिं च शास्वतीम्॥"
इत्यादि यजुस्संहितायाम्।
"भृगुवाक्यतया वायुनमस्कारादिकं हरिः। प्रोवाच ब्रह्म्णे चैवं वचस्सु बहुदर्शिषु॥"
इति च॥