Mundakōpanishad Bhāshya
Mundaka 2.06
एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति। प्रियां वाचमभिवदन्त्योऽर्चयन्त्यः एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥६॥
Bhāshya 2.06
भगवद्विषयत्वेन कृतः एष वः पुण्यः सुकृतः ब्रह्मलोकः - परब्रह्मलोकः।
"निष्कामं ज्ञानपूर्वं च निवृत्तमिति चोच्यते। निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्॥"
इति हि व्यासस्मृतिः।
"स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते॥"
इति च श्रुतिः।
"सहयज्ञाः प्रजाः सृष्ट्वा"
इत्युक्त्वा
"एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः। अघायुरिन्द्रियारामो मोघं पार्थ स जीवति॥"
इति च।
"यान्ति मद्याजिनोऽपि माम्"
इति च।
"अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च। न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते॥"
इति च।
'यस्त्वात्मरतिः' इत्युक्त्वाऽपि 'कुर्याद्विद्वांस्तथाऽसक्तः' इत्येवोक्तत्वाच्च।
"ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्। सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः॥"
इति च।
"लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ"
इत्युक्तत्वाच्च नाऽश्रमान्तरविरोधः।
त्रेतायां बहुधा सन्ततानि। कृते त्वेकप्रकारेणैव सन्ततानि।
"अग्निष्टोमादिभिर्यज्ञैः सर्वदेवस्थितं हरिम्। यजन्ति तांश्च कारित्वाद्वसुस्तस्मात् तथाऽयजत्॥ पृथक् पृथक् च त्रेतायां यजन्ते देवतागणान्। यथा कृते तथा प्राज्ञास्त्रेतायां बहुधा ततः॥"
इति पाद्मे।
"यमिन्द्रमाहुर्वरुणं यमाहुः र्यं मित्रमाहुर्यमु सत्यमाहुः। यो देवानां देवतमो जनित्रं वायोस्तस्मै सोममेभ्यो जुहोमि॥"
एवं वायोः पितरं विष्णुमेव यजन्ति देवैः सह ये कृते जनाः। एवं त्रेतायां केचिदन्ये पृथक्तानिष्ट्वाविष्णावर्पयन्ते न चान्यैः॥
इति ब्रह्माण्डे।

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.