महैतरेयोपनिषत् भाष्यम् (Mahaitarēyōpaniṣat Bhāshya)
MI.Upanishad 1.02
उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थं इयमेव पृथिवी। तो हीदं सर्वमुत्तिष्ठति यदिदं किञ्च। तस्याग्निरर्कः। अन्नमशीतयः अन्नेन हीदं सर्वमश्नुते। अन्तरिक्षमेवोक्थम्। अन्तरिक्षं वा अनु पतन्ति अन्तरिक्षमनु धावयन्ति। तस्य वायुरर्कः। अन्नमशीतयः अन्नेन हीदं सर्वमश्नुते।
असावेव द्यौरुक्थम्। अमुतः प्रदानाद्धीदं सर्वमुत्तिष्ठति यदिदं किञ्च। तस्यासावादित्योऽर्कः। अन्नमशीतयः अन्नेन हीदं सर्वमश्नुते। इत्यधिदैवतम्।
अथाध्यात्मम्। प्रुरुष एवोक्थम्। अयमेव महान् प्रजापतिरहमुक्थमश्तस्मीति विद्यात्।
तस्य मुखमेवोक्थम्। यथा प्रुथिवी तथा। तस्यवागर्कः। अन्नमशीतयः अन्नेन हीदं सर्वमश्नुते। नासिके एवोक्थं यथांतरिक्षं तथा। त्स्य प्राणोर्कः। अन्नमशीतयः अन्नेन हीदं सर्वमश्नुते। तदेतद् ब्रध्नस्य विष्पपं यदेतन्नासिकायै विनतमिव​। ललाटमेवोक्थं यथा द्यौस्तथा। तस्य चक्षुरर्कः। अन्नमशीतयः अन्नेन हीदं सर्वमश्नुते।
स्मानमाशीतयोऽध्यात्मं चैवाधिदैवतं चान्नमेव​. अन्नेन हीमानि सर्वाणि भूतानि समनंती। अन्नेनेमं लोकं जयत्यन्नेनामुम्। तस्मात् समानमशीतयोऽध्यात्मं चाधि दैवतं चान्नमेव​।
तदिमन्नमन्नादमियमेव प्रुथिवी। इतो हीदं सर्वमुत्तिष्टति यदिदं किंच​। यद्ध किंचेदं प्रेता इ तदसौ सर्वमत्ति। यदु किंचातः प्रैती तदियं सर्वमत्ति। सेयमित्याद्याऽत्त्री। अत्ता हवा अद्यो भवति। न तस्येशेऽयं नाद्याद् यद्वैनं नाद्युः ॥२॥
MI.Bāshya 1.02
"उत्थापनादुक्थनामा स एव पृथिवीस्थितः। प्रथितः पृथिवीनामा सोऽन्तरिक्षाभिधोऽत्रगः॥
अन्तरीक्ष्यो यतो द्युस्थो द्युनामाऽतिप्रकाशनात्। अध्यात्मे च निविष्टोऽसौ पुरुषाख्यो जनार्दनः॥
पूरुषु स्थितत्वात् स महान् प्रजानां पतिरेव च।अहमुक्थमिति ह्येतां विद्यामनुभवत्यसौ॥
पृथक् पृथक् च तस्याङ्गान्युक्थानि जगदीशितुः। अग्निवातदिनेशानामुत्थानानि पृथक् पृथक्॥
वदनं नासिका नेत्रमित्येतानि परात्मनः। तृचाऽशीतिविभिन्नस्य शस्त्रस्यान्नत्वहेतुतः॥ विष्णोस्तृचाशीतिवत् स्यात् प्रसिद्धान्नमिति स्फुटम्। अन्नाभिमानिदेवश्च तृचाशीत्याश्च देवता॥
सोम एव ततश्चान्नमशीतय इतरितम्। अदनाऽऽघ्राणदृष्ट्याख्यभोगत्रयविभागतः॥
मुखनासाचक्षुषां तद् भोग्यमन्नं हरेः श्रुतम्। अरणं गमनं यस्मादर्कः शीघ्रगतित्वतः॥
श्येन एव तदाकारा चितिरर्कपदोदिता। सुपर्णप्रतिमा सा यत् तदारूढो जनार्दनः॥
तस्मात् तस्यार्क इति सा प्रोच्यते वैदिकैः पदैः। योऽसौ चितिगतो वीन्द्रः सोऽग्निवातरविष्वपि॥
तथा वाक् प्राणचक्षुःषु तस्मात्तेऽर्काः प्रकीर्तिताः। तेषु स्थिते सुपर्णे च रूपभेदैः पृथक् पृथक्॥
स्थितो विष्णुस्तदर्कास्ते तस्मादेव प्रकीर्तिताः। व्याप्तत्वाज्जीवदेहेषु मुखे विष्णोर्मुखं स्मृतम्॥
नासयोर्नासिके विष्णोरक्ष्णोरेव तदक्षिणी। जीववाक् प्राणचक्षुःषु तद्वागाद्यास्ततः स्थिताः॥
विष्णोर्वाग् भार्गवो रामः प्राणोऽस्य नरकेसरी। चक्षुस्तु कपिलो विष्णुरग्न्यादीनां च कारणम्॥
जीववागादिसंस्थं च सुपर्णमधि संस्थिताः। अविशेषोऽपि भगवान् पूर्णैश्वर्यस्वरूपतः॥
अङ्गाङ्गित्वेनैक एव स्वानन्दानुभवे स्थितः। स एव व्यूह्य चात्मानं पृथग् रूप इव स्थितः॥
सुपर्णनामा भगवान् सुपर्णे च व्यवस्थितः। अग्न्यादिषु च तन्नामा वासुदेवः स संस्थितः॥
अन्ननामा स एवान्ने चेष्टयन् सर्वमास्थितः। अन्ने स्थितः स एवेशो ह्यन्नदातृगतिप्रदः॥
तस्यान्तरिक्षगस्यैव नियमादनुपक्षिणः। पतन्ति धावयन्त्यश्वान् नरादींश्च नरादयः॥
परस्य विष्णोर्धामत्वात् सूर्यो ब्रध्न इतीरितः। निहितश्चैव तल्लोको नासिकायां नतस्थले॥
पृथिव्यां संस्थितो विष्णुः स्त्रीरूपेण द्युलोकतः। पतितं सर्वमेवात्ति तथा दिवि च संस्थितः॥
इतो गतं सर्वमत्ति द्युनामा भगवान् परः। भोग्यत्वात् आद्य इत्युक्त एवमाद्यात्तृ रूपवान्॥
एक एव परो विष्णुरत्ताऽन्यैरुपजीव्यतः। आद्यो भवति चान्येषां नोपजीव्यो भवेद्यथा॥
हरिः स सर्वजीवानां न भुज्यन्ते यथाऽमुना। सर्वे लोकास्तथा कर्तुं नैवेष्टे कश्चन क्वचित् ॥२॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.