MI.Upanishad 1.03
अथातो रेतसः सृष्टिः। प्रजापते रेतो देवाः। देवानां रेतो वर्षम्। वर्षस्य रेत ओषधयः। ओषधीनां रेतोऽन्नं अन्नस्य रेतो रेतः रेतसो रेतः प्रजाः प्रजानां रेतो हृदयं हृदयस्य रेतो मनः मनसो रेतो वाग् वाचो रेतः कर्म। तदिदं कर्म कृतम् । अयं पुरुषो ब्रह्मणो लोकः। स इरामयः। यद्धीरामयास्तस्मात् हिरण्मयः। हिरण्मयो ह वा अमुष्मिं ल्लोके सम्भवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद ॥३॥
MI.Bāshya 1.03
स एष भगवान् विष्णुः प्रजापतिरितीरितः। तस्मात् जाताः सर्वदेवा ब्रह्माद्यास्तेभ्य एव च॥
वृष्टिः सञ्जायते तस्याः सर्वा ओषधयोऽभवन्। ओषधीभ्योऽन्नमन्नाच्च रेतो रेतस एव च॥
सर्वाः प्रजाः प्रजायन्ते सङ्कल्पो हृदयाभिधः। प्रजाभ्यो जायते तस्माद् विकल्पाख्यं मनस्तथा॥
विकल्पाद् वाक् प्रचारश्च वाचा नामादिवेदनात्। कर्म सञ्जायते तस्मात् कर्मणश्च जगत् पुनः॥
कर्माभिमान्ययं जीवः परस्य ब्रह्मणो हरेः। आवासस्थानमुद्दिष्टो विशेषात् स इरामयः॥
इच्छानुरूपं तु सुखं इरेत्येव प्रकीर्तितम्। इच्छानन्दप्रभूतत्वात् स एव च हिरण्मयः॥
हिरुक् सुखं हिरण्यं स्याद् बाह्यानन्दात् पृथग् यतः। आधिक्यार्थे मयड् यस्माद् अधिकानन्दरूपकः॥
उत्सृज्य कर्मजं रूपं निजानन्दैकरूपकः। एवं नारायणं जानन् सर्वलोकैककारणम्॥ तल्लोके दृश्यते भूतैर्मुक्तैरानन्दरूपकः॥