महैतरेयोपनिषत् भाष्यम् (Mahaitarēyōpaniṣat Bhāshya)
MI.U 1.01
एष पन्था एतत् कर्म एतद् ब्रह्मैतत् सत्यम्। तस्मान्न प्रमाद्येत् तम् नातीयात् ज न ह्यत्यायन् पूर्वे। येऽत्यायन् ते पराबभूवुः॥
तदुक्तमृषिणा -
प्रजा ह तिस्रो अत्यायमीयुर्न्या अर्कमभितो विविश्रे। बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आविवेशेति।
प्रजा ह तिस्रो अत्यायमीयुरन्ति या वै ता इमाः प्रजास्तिस्रो अत्यायमायंस्तानीमानि वयांसि वङ्गा वगधाश्चेरपादाः।
न्यन्या अर्कमभितो विविश्र इति ता इमाः प्रजा अर्कमभितो निविष्टा इममेवाग्निम्।
बृहद्ध तस्थौ भुवनेष्वन्तरिति आद उ एव बृहद् भुवनेष्वन्तरसावादित्यः। पवमानो हरन्ति आविविशेति वायुरेव पवमानो दिशो हरन्ति आविष्टः॥१॥
MI.Bāshya 1.01
"प्रादुर्बर्भूव भगवांस्तपसेतराया नारायणोऽब्जजसुतस्य विशालाम्नः। तस्मिन् गतेऽध्वरमभूत सुरविप्रसङ्घो निश्चेतनस्तदनु पद्मभवोऽमुमस्तौत्॥
तेन स्तुतः स भगवान् गिरिशेन्द्रमुख्यान् सर्वानबोधयदजेन सहैव तेऽथ। दासत्वमापुरत एव महत्सुराणां दासत्वतः स महिदास इति प्रसिद्धः॥
शृण्वत्सु तेषु भगवान् वदद् रमायै दिव्यां श्रुतिं स परमोऽतिमुदैतरेयीम्। सा बह्वृचैः प्रपठिता चतुराननास्याद् यस्यां रहस्यमुदितं परमं हि विष्णोः॥
महाभूतिः श्रुतिः सैषा महाभूतिर्यतो हरिः। विशेषेणात्र कथितः सर्वज्ञः शाश्वतः प्रभुः॥"
इति ऋक् संहितायाम्।
एष एव सदा "पन्था" भगवान् पुरुषोत्तमः। नित्यं स्वप्राप्तिहेतुत्वात् कर्तृत्वात् कर्म मातृतः॥ ब्रह्मैष गुणपूर्णत्वात् सत्यं साधुस्वरूपतः। क्वापि तं विस्मरेन्नैव त्यक्त्वा तं नेतरं व्रजेत्॥ पूर्वे नैनं तत्यजुर्हि ब्रह्माद्यास्तेन संसृतेः। मुक्ताः श्रीश्च तदत्यागान्नित्यमुक्ता गुणाधिकाः॥
विहायस्ययनात् प्रोक्ता वयांसीति पिशाचकाः। वर्तितज्ञानतो वङ्गा नरास्तैरवनं सदा॥
अन्नरूपैर्गृध्नवो हि वङ्गावगध नामकाः। राक्षसा असुरा ईरपादा इति समीरिताः॥
धर्मो ज्ञानं च वैराग्यं ऐश्वर्यं चतुरात्मकः। वायुर्देवोऽत्रासुराणां ऐश्वर्यं गुण एव हि॥
ईरपादास्ततः प्रोक्तास्ते त्रयो विष्णुमत्यजन्। पराभूतास्ततस्ते तु तमस्यन्धे निपातिताः॥
देवाश्च ऋषयो मर्त्यसत्तमा इति च त्रयः। आश्रिता विष्णुमेवैकं त्रिस्थानस्थितमच्युतम्॥
अग्निस्थमाश्रिता मर्त्या विष्णु मर्का भिधं परम्। आ जनैरर्चितत्वात् स ह्यर्क इत्युच्यते हरिः॥
अग्नौ कर्माणि कृत्वैव मानुषा मुक्तिभागिनः। कर्मभिः शुद्धसत्त्वानां कर्मत्यागोऽपि नान्यथा॥
आश्रिताः सूर्यगं विष्णुमृषयो बृहदित्यसौ। तेजसा बृंहणादुक्तो विष्णुरादित्य इत्यपि॥
आदानात् सर्ववस्तूनां स्वाध्यायेनामुमाश्रिताः। मुच्यन्त ऋषयो नित्यं नान्यथा तु कथञ्चन॥
वायुस्थमाश्रिता देवाः पवमानाभिधं हरिम्। संसारात् पावयित्वा यत् महानन्दे मिनोत्ययम्॥
पवमानस्ततो विष्णुर्व्याप्तः सर्वासु दिक्षु च। आश्रितो भगवान् सर्वैः सर्वत्रापि विशेषतः॥ आश्रयात् पृथगुक्तोऽयं नित्यानन्दो रमापतिः॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2026, Incredible Wisdom.
All rights reserved.