Kāthakopaniṣat Bhāshya (काठकोपनिषत् )
2.3.06, 07 and 08
इन्द्रियाणां पृथग्भावं उदयास्तमयौ च यत्। पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥६॥
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम्। सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥७॥
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च। तं ज्ञात्वा मुच्यते जन्तुः अमृतत्वं च गच्छति ॥८॥
Bhāṣya 2.3.06, 07, and 08
पुनरिन्द्रियेभ्यः परं मनः इत्यादि देवतातारतम्य ज्ञानपूर्वकं भगवतः सर्वोत्तमत्वज्ञाने एव सर्व वाक्यानां महातात्पर्यमिति ज्ञापयितुम्।
"तारतम्यपरिज्ञानपूर्वकं सर्वतो हरेः। आधिक्ये सर्ववाक्यानां तात्पर्यं महदिष्यते॥"
इति च ॥६-७॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.