Īśāvāsyopaniṣat Bhāshya
Īśāvāsyopaniṣat 08
स पर्यगात् शुक्रमकायमव्रणम् अस्नाविरं शुद्धमपापविद्धम्। कविर्मनीषी परिभूः स्वयम्भूः याथातथ्यतोऽर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः ॥८॥
Īśā.Bhāshya 08
शुक्रं तत् शोकराहित्यादव्रणं नित्यपूर्णतः। पावनत्वात् सदा शुद्धमकायं लिङ्गवर्जनात्॥
स्थूलदेहस्य राहित्यादस्नाविरमुदाहृतम्। एवम् भूतोऽपि सार्वज्ञ्यात् कविरित्येव शब्द्यते॥
ब्रह्मादिसर्वमनसां प्रकृतेर्मनसोऽपि च। ईशितृत्वान्मनीषी सः परिभूः सर्वतो वरः॥
सदानन्याश्रयत्वाच्च स्वयम्भूः परिकीर्तितः। स सत्यं जगदेतादृक् नित्यमेव प्रवाहतः॥
अनाद्यनन्तकालेषु प्रवाहैकप्रकारतः। नियमेनैव ससृजे भगवान् पुरुषोत्तमः॥
सज्ज्ञानानन्द शीर्षोऽसौ सज्ज्ञानानन्दपादवान् । एवम् भूतो महाविष्णुः यथार्थं जगदीदृशम्। अनाद्यनन्त कालीनं ससर्जात्मेच्छया प्रभुः॥
इति वाराहे ॥८॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.