Īśāvāsyopaniṣat Bhāshya
Īśāvāsyopaniṣat 07
यस्मिन् सर्वाणि भूतानि आत्मैवाभूद् विजानतः। तत्र को मोहः कः शोकः एकत्वमनु पश्यतः ॥७॥
Īśā.Bhāshya 07
यस्मिन् परमात्मनि सर्वभूतानि स परमात्मैव तत्र सर्वभूतेषु अभूत्। एवं सर्वभूतेषु एकत्वेन परमात्मानं विजानतः को मोहः।
यस्मिन् सर्वाणि भूतानि स आत्मा सर्वभूतगः। एवं सर्वत्र यो विष्णुं पश्येत् तस्य विजानतः। को मोहः कोऽथवा शोकः स विष्णुं पर्यगाद्यतः॥
इति पिप्पलादशाखायाम्।
पूर्वोक्तानुवादेन शोकमोहाभावोऽपि विजानतश्चात्रोच्यते। अभ्यासश्च सर्वगतत्वस्य तात्पर्यद्योतनार्थः ॥७॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.