Īśāvāsyopaniṣat Bhāshya
Īśāvāsyopaniṣat 01
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्। तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद् धनम्॥१॥
Īśā.Bhāshya 01
ईशस्य आवासयोग्यम् ईशावास्यम्। जगत्यां प्रकृतौ। तेन ईशेन। त्यक्तेन दत्तेन। भुञ्जीथाः।
"स्वतः प्रवृत्याशक्तत्वात् ईशावास्यमिदं जगत्। प्रवृत्तये प्रकृतिगं यस्मात्सप्रकृतीश्वरः। तदधीनप्रवृत्तित्वा तदीयं सर्वमेव यत्। तद्दत्तेनैव भुञ्जीथाः अतो नान्यं प्रयाचयेत्॥"
इति ब्राह्माण्डे ॥१॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.