Īśāvāsyopaniṣat Bhāshya
Introduction by Acharya Madhva
Īśā.Bhāshya 00
॥हरिः ॐ॥
नित्यानित्यजगद्धात्रे नित्याय ज्ञानमूर्तये। पूर्णानन्दाय हरये सर्वयज्ञभुजे नमः ॥१॥
यस्माद् ब्रह्मेन्द्ररुद्रादिदेवतानां श्रियोऽपि च। ज्ञानस्फूर्तिः सदा तस्मै हरये गुरवे नमः ॥२॥
स्वायम्भुवो मनुः एतैःमन्त्रैः भगवन्तम् आकूतिसूनुं यज्ञनामानं विष्णुं तुष्टाव।
स्वायम्भुवः स्वदौहित्रं विष्णुं यज्ञाभिधं मनुः। ईशावास्यादिभिर् मन्त्रैः तुष्टावावहितात्मना। रक्षोभिरुग्रैः सम्प्राप्तः खादितुं मोचितस्तदा। स्तोत्रं श्रुत्वैव यज्ञेन तान् हत्वाऽवध्यतां गतान्। प्रादाद्धि भगवान् तेषाम् अवध्यत्वं हरः प्रभुः। तैर्वध्यत्वं तथाऽन्येषाम् अतः कोऽन्यो हरेः प्रभुः॥
इति ब्रह्माण्डे।
भागवते च अयमेव अर्थ उक्तः॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.