B.G 10.41
यद्यद् विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥४१॥
Gīta Bhāshya 10.41
यद्यद्विभूतिमदिति विस्तरः। विष्ण्वादीनि तत् स्वरूपाण्येव। अन्यानि तु तेजोंशयुक्तानि। तथा च पैङ्गिखिलेषु-
"विशेषका रुद्रवैन्येन्द्रदेवा राजन्याद्या अंशयुतान्यजीवाः। कृष्णव्यासौ रामकृष्णौ च रामः कपिलयज्ञप्रमुखाः स्वयं सः॥"
इति।
"स एवैको भार्गवदाशरथिकृष्णाद्यास्तु अंशयुतान्यजीवाः।"
इति गौतमखिलेषु।
"ऋषयो मनवो देवा मनुपुत्रा महौजसः। कलाः सर्वे हरेरेव सप्रजापतयः स्मृऽताः। एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्॥"
इति च भागवते ऋष्यादीन् अंशयुतत्वेन उक्त्वा वराहादीन् स्वरूपत्वेनाह। तु शब्दः एवार्थे। अन्यस्तु विशेषो न कुत्रापि अवगतः।
अंशत्वं तत्राप्यवगतम्-
"उद्बबर्हात्मनः केशौ"
इति।
मृडयन्ति इति च बहुवचनं चायुक्तम्। न ह्यन्तरान्यदुक्त्वा पूर्वं अपरामृश्य तत्क्रिया उच्यमाना दृष्टा कुत्रचित् ॥४१॥
Gīta Tātparya 10.41
मम तेजोंशेन संयुक्तं भवति ॥४१॥