Bhagavad Gīta Bhāshya and Tātparya
B.G 10.42
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन। विष्टभ्याहमिदं कृत्स्नं एकांशेन स्थितो जगत् ॥४२॥
Gīta Bhāshya 10.42
किं इति वक्ष्यमाणप्राधान्यज्ञापनार्थम्। न तु उक्त निष्फलत्वज्ञापनाय। तथा सति नोच्येत।
"अज्ञात्वैवं सर्वविशेषयुक्तं देवं परं को विमुच्येत बन्धात्।"
इति ऋर्ग्वेदखिलेषु।
त्वं तु बहुफलप्राप्तियोग्यः इति तव एति विशेषणम्। अन्य स्तुत्यर्थत्वेन प्रसिद्धश्च एकत्र किंशब्दः -
"रागद्वेषौ यदि स्यातां तपसा किं प्रयोजनम्। तावुभौ यदि न स्यातां तपसा किं प्रयोजनम्॥"
इत्यादौ।
प्राधान्यं च सिद्धमेकत्र दर्शनात् सर्वत्र भगवद्दर्शनस्य "यो मां पश्यति सर्वत्र" इत्यादौ ॥४२॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये दशमोध्यायः ॥
Gīta Tātparya 10.42
"किं ज्ञातेन" इति वक्ष्यमाणस्य अधिकफलत्वज्ञापकमेव। अन्यथा उक्तेः एव वैयर्थ्यात्।
"अन्याधिक्यज्ञापनार्थं शुभं चाक्षिप्यते क्वचित्। न तावतास्य निन्द्यत्वं ज्ञेयैवान्यवरिष्ठता। उभयं मिलितं चैव ततोऽप्यधिकशोभनम्॥"
इति च ॥४२॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये दशमोध्यायः ॥
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोध्यायः ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.