Bhagavad Gīta Bhāshya and Tātparya
B.G 10.04 and 05
बुदि्धर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः। सुखं दुःखं भवो भावो भयं चाभयमेव च ॥४॥
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः। भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥५॥
Gīta Bhāshya 10.04 and 05
तत् प्रथयति- बुदि्धरित्यादिना। कार्याकार्यविनिश्चयो बुदि्धः। ज्ञानं प्रतीतिः।
"ज्ञानं प्रतीतिर्बुदि्धस्तु कार्याकार्यविनिश्चयः॥"
इत्यभिधानम्।
दमः इंद्रियनिग्रहः। शमः परमात्मनि निष्ठा।
"शमो मन्निष्ठता बुद्धेः दम इंद्रियनिग्रहः॥"
इति भागवते।
तुष्टिः अलम्बुदि्धः।
"अलम्बुदि्धस्तथा तुष्टिः"
इत्यभिधानात् ॥४-५॥
Gīta Tātparya 10.04 and 05
"बुदि्धः बोधनिधित्वात् तदन्तःकरणमुच्यते।"
इति शब्दनिर्णये ॥४॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.