B.G 10.06
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा। मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥६॥
Gīta Bhāshya 10.06
पूर्वे सप्तर्षयः -
"मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। वसिष्ठश्च महातेजाः"
इति मोक्षधर्मोक्ताः।
ते हि सर्वपुराणेषु उच्यन्ते। चत्वारः प्रथमाः स्वायम्भुवाद्याः। तेषां हि इमाः प्रजाः। न हि भविष्यतां "इमाः प्रजाः" इति युक्तम्। विभागः प्राधान्यं च प्राथमिकत्वादेव भवति। गौतमखिलेषु च्चोक्तं -
"स्वायम्भुवं स्वारोचिषं रैवतं च तथोत्तमम्। वेद यः स प्रजावान्...॥"
इति।
पूर्वेभ्यो ह्युत्तरा जायन्ते इत्येषां प्राधान्यम्। अजातेषु ज्यैष्ठ्यम्। तापसस्य भगवदवतारत्वात् अनुक्तिः। तच्च भागवते प्रसिद्धम्। मानसत्वं च सर्वेषां मनूनां उक्तं भागवते -
"ततो मनून् ससर्जान्ते मनसा लोकभावनान्।"
इति।
अन्यपुत्रत्वं त्वपरित्यज्यापि शरीरं तद् भवति। प्रमाणं च उभयविध - वाक्यान्यथानुपपत्तिरेव। पूर्वे इति विशेणाच्च एतत्सिदि्धः।
मत्तो भावो येषां ते मद्भावाः। ये ते ब्रह्मणो मनसा जाताः मत्त एव जाताः इति भावः ॥६॥
Gīta Tātparya 10.06
"मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। वसिष्ठश्च महातेजाः पूर्वे सप्तर्षयः स्मृताः॥"
इति ब्राह्मे।
"मनवो बोधवैशेष्याद् देवा ब्रह्मादयः स्मृताः। विप्रादिवर्णभेदेन चत्वारो बहवोऽपि ते॥ दीनत्वात् देवनामानः स्त्वन्ये ब्रह्मादिनामकाः। अवैष्णवकृतो यज्ञो दीनैः दैवैस्तु भुज्यते॥ वैष्णवैस्तु कृतो यज्ञो देवैर्हि मनुनामकैः। मरीच्याद्यास्तु तत्पुत्रा मानवाः नामतः स्मृताः॥ तत्पुत्रपौत्रा मुनयः तथा मानवमानवाः। तेभ्यो मनुष्या इत्येषा सृष्टिः विष्णोः समुत्थिता॥"
इति महाविष्णुपुराणे ॥६॥