Bhagavad Gīta Bhāshya and Tātparya
B.G 10.02 and 03
न मे विदुः सुरगणाः प्रभवं न महर्षयः। अहमादिर्हि देवानां महर्षीणां च सर्वतः ॥२॥
यो मामजमनादिं च वेत्ति लोकमहेश्वरम्। असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥३॥
Gīta Bhāshya 10.02 and 03
प्रभवं प्रभावम् मदीयां जगदुत्पत्तिं वा। तद्वशत्वात् तस्येत्युच्यते। यद्यस्ति तर्हि देवादयोऽपि जानन्ति सर्वज्ञत्वात्। अतो नास्तीति भावः। "अहमादिर्हि" इति तु उत्पत्तिरपि यस्य वशा कुतः तस्य जनिः इति ज्ञापनार्थम्।
"अहं सर्वस्य जगतः प्रभवः प्रलयः"
इति चोक्तम्।
उक्तं चैतत् सर्वं अन्यत्रापि-
"को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः। अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आ बभूव॥"
इति।
"न तत्प्रभावं ऋुषयश्चदेवा विदुः कुतोऽन्येऽल्पधृतिप्रमाणाः।"
इति ऋुग्वेदखिलेषु।
अन्यस्त्वर्थो "यो मामजम्" इति वाक्यादेव ज्ञायते ॥२॥
अनः चेष्टयिता आदिश्च सर्वस्य इति अनादिः। अजत्वेन सिद्धेः इतरस्य ॥३॥
Gīta Tātparya 10.02 and 03
उपलक्षणार्थं सुरगणा इत्यादि ॥१,२॥
अनस्यापि आदिः अनादिः ॥३॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.